११. स्त्रीपर्व
११.२२.१गान्धार्युवाच

११.२२.२आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम्
गृध्रगोमायवः शूरं बहुबन्धुमबन्धुवत्

११.२२.३तं पश्य कदनं कृत्वा शत्रूणां मधुसूदन
शयानं वीरशयने रुधिरेण समुक्षितम्

११.२२.४तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः
तेन तेन विकर्षन्ति पश्य कालस्य पर्ययम्

११.२२.५शयानं वीरशयने वीरमाक्रन्दसारिणम्
आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते

११.२२.६प्रातिपीयं महेष्वासं हतं भल्लेन बाह्लिकम्
प्रसुप्तमिव शार्दूलं पश्य कृष्ण मनस्विनम्

११.२२.७अतीव मुखवर्णोऽस्य निहतस्यापि शोभते
सोमस्येवाभिपूर्णस्य पौर्णमास्यां समुद्यतः

११.२२.८पुत्रशोकाभितप्तेन प्रतिज्ञां परिरक्षता
पाकशासनिना संख्ये वार्द्धक्षत्रिर्निपातितः

११.२२.९एकादश चमूर्जित्वा रक्ष्यमाणं महात्मना
सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम्

११.२२.१०सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम्
भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम्

११.२२.११संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत
भषन्तो व्यपकर्षन्ति गहनं निम्नमन्तिकात्

११.२२.१२तमेताः पर्युपासन्ते रक्षमाणा महाभुजम्
सिन्धुसौवीरगान्धारकाम्बोजयवनस्त्रियः

११.२२.१३यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह
तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः

११.२२.१४दुःशलां मानयद्भिस्तु यदा मुक्तो जयद्रथः
कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः

११.२२.१५सैषा मम सुता बाला विलपन्ती सुदुःखिता
प्रमापयति चात्मानमाक्रोशति च पाण्डवान्

११.२२.१६किं नु दुःखतरं कृष्ण परं मम भविष्यति
यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः

११.२२.१७अहो धिग्दुःशलां पश्य वीतशोकभयामिव
शिरो भर्तुरनासाद्य धावमानामितस्ततः

११.२२.१८वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्धिनः
स हत्वा विपुलाः सेनाः स्वयं मृत्युवशं गतः

११.२२.१९तं मत्तमिव मातङ्गं वीरं परमदुर्जयम्
परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः