११. स्त्रीपर्व
११.२१.१गान्धार्युवाच

११.२१.२एष वैकर्तनः शेते महेष्वासो महारथः
ज्वलितानलवत्संख्ये संशान्तः पार्थतेजसा

११.२१.३पश्य वैकर्तनं कर्णं निहत्यातिरथान्बहून्
शोणितौघपरीताङ्गं शयानं पतितं भुवि

११.२१.४अमर्षी दीर्घरोषश्च महेष्वासो महारथः
रणे विनिहतः शेते शूरो गाण्डीवधन्वना

११.२१.५यं स्म पाण्डवसंत्रासान्मम पुत्रा महारथाः
प्रायुध्यन्त पुरस्कृत्य मातङ्गा इव यूथपम्

११.२१.६शार्दूलमिव सिंहेन समरे सव्यसाचिना
मातङ्गमिव मत्तेन मातङ्गेन निपातितम्

११.२१.७समेताः पुरुषव्याघ्र निहतं शूरमाहवे
प्रकीर्णमूर्धजाः पत्न्यो रुदत्यः पर्युपासते

११.२१.८उद्विग्नः सततं यस्माद्धर्मराजो युधिष्ठिरः
त्रयोदश समा निद्रां चिन्तयन्नाध्यगच्छत

११.२१.९अनाधृष्यः परैर्युद्धे शत्रुभिर्मघवानिव
युगान्ताग्निरिवार्चिष्मान्हिमवानिव च स्थिरः

११.२१.१०स भूत्वा शरणं वीरो धार्तराष्ट्रस्य माधव
भूमौ विनिहतः शेते वातरुग्ण इव द्रुमः

११.२१.११पश्य कर्णस्य पत्नीं त्वं वृषसेनस्य मातरम्
लालप्यमानाः करुणं रुदतीं पतितां भुवि

११.२१.१२आचार्यशापोऽनुगतो ध्रुवं त्वां; यदग्रसच्चक्रमियं धरा ते
ततः शरेणापहृतं शिरस्ते; धनंजयेनाहवे शत्रुमध्ये

११.२१.१३अहो धिगेषा पतिता विसंज्ञा; समीक्ष्य जाम्बूनदबद्धनिष्कम्
कर्णं महाबाहुमदीनसत्त्वं; सुषेणमाता रुदती भृशार्ता

११.२१.१४अल्पावशेषो हि कृतो महात्मा; शरीरभक्षैः परिभक्षयद्भिः
द्रष्टुं न संप्रीतिकरः शशीव; कृष्णश्य पक्षस्य चतुर्दशाहे

११.२१.१५सावर्तमाना पतिता पृथिव्या;मुत्थाय दीना पुनरेव चैषा
कर्णस्य वक्त्रं परिजिघ्रमाणा; रोरूयते पुत्रवधाभितप्ता