११.२४.१गान्धार्युवाच
११.२४.२सोमदत्तसुतं पश्य युयुधानेन पातितम्
वितुद्यमानं विहगैर्बहुभिर्माधवान्तिके
११.२४.३पुत्रशोकाभिसंतप्तः सोमदत्तो जनार्दन
युयुधानं महेष्वासं गर्हयन्निव दृश्यते
११.२४.४असौ तु भूरिश्रवसो माता शोकपरिप्लुता
आश्वासयति भर्तारं सोमदत्तमनिन्दिता
११.२४.५दिष्ट्या नेदं महाराज दारुणं भरतक्षयम्
कुरुसंक्रन्दनं घोरं युगान्तमनुपश्यसि
११.२४.६दिष्ट्या यूपध्वजं वीरं पुत्रं भूरिसहस्रदम्
अनेकक्रतुयज्वानं निहतं नाद्य पश्यसि
११.२४.७दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं बहु
न शृणोषि महाराज सारसीनामिवार्णवे
११.२४.८एकवस्त्रानुसंवीताः प्रकीर्णासितमूर्धजाः
स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः
११.२४.९श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि
छिन्नबाहुं नरव्याघ्रमर्जुनेन निपातितम्
११.२४.१०शलं विनिहतं संख्ये भूरिश्रवसमेव च
स्नुषाश्च विधवाः सर्वा दिष्ट्या नाद्येह पश्यसि
११.२४.११दिष्ट्या तत्काञ्चनं छत्रं यूपकेतोर्महात्मनः
विनिकीर्णं रथोपस्थे सौमदत्तेर्न पश्यसि
११.२४.१२अमूस्तु भूरिश्रवसो भार्याः सात्यकिना हतम्
परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः
११.२४.१३एता विलप्य बहुलं भर्तृशोकेन कर्शिताः
पतन्त्यभिमुखा भूमौ कृपणं बत केशव
११.२४.१४बीभत्सुरतिबीभत्सं कर्मेदमकरोत्कथम्
प्रमत्तस्य यदच्छैत्सीद्बाहुं शूरस्य यज्वनः
११.२४.१५ततः पापतरं कर्म कृतवानपि सात्यकिः
यस्मात्प्रायोपविष्टस्य प्राहार्षीत्संशितात्मनः
११.२४.१६एको द्वाभ्यां हतः शेषे त्वमधर्मेण धार्मिकः
इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव
११.२४.१७भार्या यूपध्वजस्यैषा करसंमितमध्यमा
कृत्वोत्सङ्गे भुजं भर्तुः कृपणं पर्यदेवयत्
११.२४.१८अयं स रशनोत्कर्षी पीनस्तनविमर्दनः
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः
११.२४.१९वासुदेवस्य सांनिध्ये पार्थेनाक्लिष्टकर्मणा
युध्यतः समरेऽन्येन प्रमत्तस्य निपातितः
११.२४.२०किं नु वक्ष्यसि संसत्सु कथासु च जनार्दन
अर्जुनस्य महत्कर्म स्वयं वा स किरीटवान्
११.२४.२१इत्येवं गर्हयित्वैषा तूष्णीमास्ते वराङ्गना
तामेतामनुशोचन्ति सपत्न्यः स्वामिव स्नुषाम्
११.२४.२२गान्धारराजः शकुनिर्बलवान्सत्यविक्रमः
निहतः सहदेवेन भागिनेयेन मातुलः
११.२४.२३यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते
स एष पक्षिभिः पक्षैः शयान उपवीज्यते
११.२४.२४यः स्म रूपाणि कुरुते शतशोऽथ सहस्रशः
तस्य मायाविनो माया दग्धाः पाण्डवतेजसा
११.२४.२५मायया निकृतिप्रज्ञो जितवान्यो युधिष्ठिरम्
सभायां विपुलं राज्यं स पुनर्जीवितं जितः
११.२४.२६शकुन्ताः शकुनिं कृष्ण समन्तात्पर्युपासते
कितवं मम पुत्राणां विनाशायोपशिक्षितम्
११.२४.२७एतेनैतन्महद्वैरं प्रसक्तं पाण्डवैः सह
वधाय मम पुत्राणामात्मनः सगणस्य च
११.२४.२८यथैव मम पुत्राणां लोकाः शस्त्रजिताः प्रभो
एवमस्यापि दुर्बुद्धेर्लोकाः शस्त्रेण वै जिताः
११.२४.२९कथं च नायं तत्रापि पुत्रान्मे भ्रातृभिः सह
विरोधयेदृजुप्रज्ञाननृजुर्मधुसूदन