११. स्त्रीपर्व
११.२५.१गान्धार्युवाच

११.२५.२काम्बोजं पश्य दुर्धर्षं काम्बोजास्तरणोचितम्
शयानमृषभस्कन्धं हतं पांसुशु माधव

११.२५.३यस्य क्षतजसंदिग्धौ बाहू चन्दनरूषितौ
अवेक्ष्य कृपणं भार्या विलपत्यतिदुःखिता

११.२५.४इमौ तौ परिघप्रख्यौ बाहू शुभतलाङ्गुली
ययोर्विवरमापन्नां न रतिर्मां पुराजहत्

११.२५.५कां गतिं नु गमिष्यामि त्वया हीना जनेश्वर
दूरबन्धुरनाथेव अतीव मधुरस्वरा

११.२५.६आतपे क्लाम्यमानानां विविधानामिव स्रजाम्
क्लान्तानामपि नारीणां न श्रीर्जहति वै तनुम्

११.२५.७शयानमभितः शूरं कालिङ्गं मधुसूदन
पश्य दीप्ताङ्गदयुगप्रतिबद्धमहाभुजम्

११.२५.८मागधानामधिपतिं जयत्सेनं जनार्दन
परिवार्य प्ररुदिता मागध्यः पश्य योषितः

११.२५.९आसामायतनेत्राणां सुस्वराणां जनार्दन
मनःश्रुतिहरो नादो मनो मोहयतीव मे

११.२५.१०प्रकीर्णसर्वाभरणा रुदन्त्यः शोककर्शिताः
स्वास्तीर्णशयनोपेता मागध्यः शेरते भुवि

११.२५.११कोसलानामधिपतिं राजपुत्रं बृहद्बलम्
भर्तारं परिवार्यैताः पृथक्प्ररुदिताः स्त्रियः

११.२५.१२अस्य गात्रगतान्बाणान्कार्ष्णिबाहुबलार्पितान्
उद्धरन्त्यसुखाविष्टा मूर्छमानाः पुनः पुनः

११.२५.१३आसां सर्वानवद्यानामातपेन परिश्रमात्
प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव

११.२५.१४द्रोणेन निहताः शूराः शेरते रुचिराङ्गदाः
द्रोणेनाभिमुखाः सर्वे भ्रातरः पञ्च केकयाः

११.२५.१५तप्तकाञ्चनवर्माणस्ताम्रध्वजरथस्रजः
भासयन्ति महीं भासा ज्वलिता इव पावकाः

११.२५.१६द्रोणेन द्रुपदं संख्ये पश्य माधव पातितम्
महाद्विपमिवारण्ये सिंहेन महता हतम्

११.२५.१७पाञ्चालराज्ञो विपुलं पुण्डरीकाक्ष पाण्डुरम्
आतपत्रं समाभाति शरदीव दिवाकरः

११.२५.१८एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः
दग्ध्वा गच्छन्ति पाञ्चाल्यं राजानमपसव्यतः

११.२५.१९धृष्टकेतुं महेष्वासं चेदिपुंगवमङ्गनाः
द्रोणेन निहतं शूरं हरन्ति हृतचेतसः

११.२५.२०द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन
महेष्वासो हतः शेते नद्या हृत इव द्रुमः

११.२५.२१एष चेदिपतिः शूरो धृष्टकेतुर्महारथः
शेते विनिहतः संख्ये हत्वा शत्रून्सहस्रशः

११.२५.२२वितुद्यमानं विहगैस्तं भार्याः प्रत्युपस्थिताः
चेदिराजं हृषीकेश हतं सबलबान्धवम्

११.२५.२३दाशार्हीपुत्रजं वीरं शयानं सत्यविक्रमम्
आरोप्याङ्के रुदन्त्येताश्चेदिराजवराङ्गनाः

११.२५.२४अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम्
द्रोणेन समरे पश्य निकृत्तं बहुधा शरैः

११.२५.२५पितरं नूनमाजिस्थं युध्यमानं परैः सह
नाजहात्पृष्ठतो वीरमद्यापि मधुसूदन

११.२५.२६एवं ममापि पुत्रस्य पुत्रः पितरमन्वगात्
दुर्योधनं महाबाहो लक्ष्मणः परवीरहा

११.२५.२७विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव
हिमान्ते पुष्पितौ शालौ मरुता गलिताविव

११.२५.२८काञ्चनाङ्गदवर्माणौ बाणखड्गधनुर्धरौ
ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ

११.२५.२९अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह
ये मुक्ता द्रोणभीष्माभ्यां कर्णाद्वैकर्तनात्कृपात्

११.२५.३०दुर्योधनाद्द्रोणसुतात्सैन्धवाच्च महारथात्
सोमदत्ताद्विकर्णाच्च शूराच्च कृतवर्मणः
ये हन्युः शस्त्रवेगेन देवानपि नरर्षभाः

११.२५.३१त इमे निहताः संख्ये पश्य कालस्य पर्ययम्
नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन
यदिमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः

११.२५.३२तदैव निहताः कृष्ण मम पुत्रास्तरस्विनः
यदैवाकृतकामस्त्वमुपप्लव्यं गतः पुनः

११.२५.३३शंतनोश्चैव पुत्रेण प्राज्ञेन विदुरेण च
तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्विति

११.२५.३४तयोर्न दर्शनं तात मिथ्या भवितुमर्हति
अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन

११.२५.३५वैशंपायन उवाच

११.२५.३६इत्युक्त्वा न्यपतद्भूमौ गान्धारी शोककर्शिता
दुःखोपहतविज्ञाना धैर्यमुत्सृज्य भारत

११.२५.३७ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता
जगाम शौरिं दोषेण गान्धारी व्यथितेन्द्रिया

११.२५.३८गान्धार्युवाच

११.२५.३९पाण्डवा धार्तराष्ट्राश्च द्रुग्धाः कृष्ण परस्परम्
उपेक्षिता विनश्यन्तस्त्वया कस्माज्जनार्दन

११.२५.४०शक्तेन बहुभृत्येन विपुले तिष्ठता बले
उभयत्र समर्थेन श्रुतवाक्येन चैव ह

११.२५.४१इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन
यस्मात्त्वया महाबाहो फलं तस्मादवाप्नुहि

११.२५.४२पतिशुश्रूषया यन्मे तपः किंचिदुपार्जितम्
तेन त्वां दुरवापात्मञ्शप्स्ये चक्रगदाधर

११.२५.४३यस्मात्परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः
उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि

११.२५.४४त्वमप्युपस्थिते वर्षे षट्त्रिंशे मधुसूदन
हतज्ञातिर्हतामात्यो हतपुत्रो वनेचरः
कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि

११.२५.४५तवाप्येवं हतसुता निहतज्ञातिबान्धवाः
स्त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः

११.२५.४६वैशंपायन उवाच

११.२५.४७तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः
उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव

११.२५.४८संहर्ता वृष्णिचक्रस्य नान्यो मद्विद्यते शुभे
जानेऽहमेतदप्येवं चीर्णं चरसि क्षत्रिये

११.२५.४९अवध्यास्ते नरैरन्यैरपि वा देवदानवैः
परस्परकृतं नाशमतः प्राप्स्यन्ति यादवाः

११.२५.५०इत्युक्तवति दाशार्हे पाण्डवास्त्रस्तचेतसः
बभूवुर्भृशसंविग्ना निराशाश्चापि जीविते