११. स्त्रीपर्व
११.४.१धृतराष्ट्र उवाच

११.४.२कथं संसारगहनं विज्ञेयं वदतां वर
एतदिच्छाम्यहं श्रोतुं तत्त्वमाख्याहि पृच्छतः

११.४.३विदुर उवाच

११.४.४जन्मप्रभृति भूतानां क्रियाः सर्वाः शृणु प्रभो
पूर्वमेवेह कलले वसते किंचिदन्तरम्

११.४.५ततः स पञ्चमेऽतीते मासे मांसं प्रकल्पयेत्
ततः सर्वाङ्गसंपूर्णो गर्भो मासे प्रजायते

११.४.६अमेध्यमध्ये वसति मांसशोणितलेपने
ततस्तु वायुवेगेन ऊर्ध्वपादो ह्यधःशिराः

११.४.७योनिद्वारमुपागम्य बहून्क्लेशान्समृच्छति
योनिसंपीडनाच्चैव पूर्वकर्मभिरन्वितः

११.४.८तस्मान्मुक्तः स संसारादन्यान्पश्यत्युपद्रवान्
ग्रहास्तमुपसर्पन्ति सारमेया इवामिषम्

११.४.९ततः प्राप्तोत्तरे काले व्याधयश्चापि तं तथा
उपसर्पन्ति जीवन्तं बध्यमानं स्वकर्मभिः

११.४.१०बद्धमिन्द्रियपाशैस्तं सङ्गस्वादुभिरातुरम्
व्यसनान्युपवर्तन्ते विविधानि नराधिप
बध्यमानश्च तैर्भूयो नैव तृप्तिमुपैति सः

११.४.११अयं न बुध्यते तावद्यमलोकमथागतम्
यमदूतैर्विकृष्यंश्च मृत्युं कालेन गच्छति

११.४.१२वाग्घीनस्य च यन्मात्रमिष्टानिष्टं कृतं मुखे
भूय एवात्मनात्मानं बध्यमानमुपेक्षते

११.४.१३अहो विनिकृतो लोको लोभेन च वशीकृतः
लोभक्रोधमदोन्मत्तो नात्मानमवबुध्यते

११.४.१४कुलीनत्वेन रमते दुष्कुलीनान्विकुत्सयन्
धनदर्पेण दृप्तश्च दरिद्रान्परिकुत्सयन्

११.४.१५मूर्खानिति परानाह नात्मानं समवेक्षते
शिक्षां क्षिपति चान्येषां नात्मानं शास्तुमिच्छति

११.४.१६अध्रुवे जीवलोकेऽस्मिन्यो धर्ममनुपालयन्
जन्मप्रभृति वर्तेत प्राप्नुयात्परमां गतिम्

११.४.१७एवं सर्वं विदित्वा वै यस्तत्त्वमनुवर्तते
स प्रमोक्षाय लभते पन्थानं मनुजाधिप