११. स्त्रीपर्व
११.३.१धृतराष्ट्र उवाच

११.३.२सुभाषितैर्महाप्राज्ञ शोकोऽयं विगतो मम
भुय एव तु वाक्यानि श्रोतुमिच्छामि तत्त्वतः

११.३.३अनिष्टानां च संसर्गादिष्टानां च विवर्जनात्
कथं हि मानसैर्दुःखैः प्रमुच्यन्तेऽत्र पण्डिताः

११.३.४विदुर उवाच

११.३.५यतो यतो मनो दुःखात्सुखाद्वापि प्रमुच्यते
ततस्ततः शमं लब्ध्वा सुगतिं विन्दते बुधः

११.३.६अशाश्वतमिदं सर्वं चिन्त्यमानं नरर्षभ
कदलीसंनिभो लोकः सारो ह्यस्य न विद्यते

११.३.७गृहाण्येव हि मर्त्यानामाहुर्देहानि पण्डिताः
कालेन विनियुज्यन्ते सत्त्वमेकं तु शोभनम्

११.३.८यथा जीर्णमजीर्णं वा वस्त्रं त्यक्त्वा तु वै नरः
अन्यद्रोचयते वस्त्रमेवं देहाः शरीरिणाम्

११.३.९वैचित्रवीर्य वासं हि दुःखं वा यदि वा सुखम्
प्राप्नुवन्तीह भूतानि स्वकृतेनैव कर्मणा

११.३.१०कर्मणा प्राप्यते स्वर्गं सुखं दुःखं च भारत
ततो वहति तं भारमवशः स्ववशोऽपि वा

११.३.११यथा च मृन्मयं भाण्डं चक्रारूढं विपद्यते
किंचित्प्रक्रियमाणं वा कृतमात्रमथापि वा

११.३.१२छिन्नं वाप्यवरोप्यन्तमवतीर्णमथापि वा
आर्द्रं वाप्यथ वा शुष्कं पच्यमानमथापि वा

११.३.१३अवतार्यमाणमापाकादुद्धृतं वापि भारत
अथ वा परिभुज्यन्तमेवं देहाः शरीरिणाम्

११.३.१४गर्भस्थो वा प्रसूतो वाप्यथ वा दिवसान्तरः
अर्धमासगतो वापि मासमात्रगतोऽपि वा

११.३.१५संवत्सरगतो वापि द्विसंवत्सर एव वा
यौवनस्थोऽपि मध्यस्थो वृद्धो वापि विपद्यते

११.३.१६प्राक्कर्मभिस्तु भूतानि भवन्ति न भवन्ति च
एवं सांसिद्धिके लोके किमर्थमनुतप्यसे

११.३.१७यथा च सलिले राजन्क्रीडार्थमनुसंचरन्
उन्मज्जेच्च निमज्जेच्च किंचित्सत्त्वं नराधिप

११.३.१८एवं संसारगहनादुन्मज्जननिमज्जनात्
कर्मभोगेन बध्यन्तः क्लिश्यन्ते येऽल्पबुद्धयः

११.३.१९ये तु प्राज्ञाः स्थिताः सत्ये संसारान्तगवेषिणः
समागमज्ञा भूतानां ते यान्ति परमां गतिम्