१२.१.१वैशंपायन उवाच
कृतोदकास्ते सुहृदां सर्वेषां पाण्डुनन्दनाः
विदुरो धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः
१२.१.२तत्र ते सुमहात्मानो न्यवसन्कुरुनन्दनाः
शौचं निवर्तयिष्यन्तो मासमेकं बहिः पुरात्
१२.१.३कृतोदकं तु राजानं धर्मात्मानं युधिष्ठिरम्
अभिजग्मुर्महात्मानः सिद्धा ब्रह्मर्षिसत्तमाः
१२.१.४द्वैपायनो नारदश्च देवलश्च महानृषिः
देवस्थानश्च कण्वश्च तेषां शिष्याश्च सत्तमाः
१२.१.५अन्ये च वेदविद्वांसः कृतप्रज्ञा द्विजातयः
गृहस्थाः स्नातकाः सर्वे ददृशुः कुरुसत्तमम्
१२.१.६अभिगम्य महात्मानः पूजिताश्च यथाविधि
आसनेषु महार्हेषु विविशुस्ते महर्षयः
१२.१.७प्रतिगृह्य ततः पूजां तत्कालसदृशीं तदा
पर्युपासन्यथान्यायं परिवार्य युधिष्ठिरम्
१२.१.८पुण्ये भागीरथीतीरे शोकव्याकुलचेतसम्
आश्वासयन्तो राजानं विप्राः शतसहस्रशः
१२.१.९नारदस्त्वब्रवीत्काले धर्मात्मानं युधिष्ठिरम्
विचार्य मुनिभिः सार्धं तत्कालसदृशं वचः
१२.१.१०भवतो बाहुवीर्येण प्रसादान्माधवस्य च
जितेयमवनिः कृत्स्ना धर्मेण च युधिष्ठिर
१२.१.११दिष्ट्या मुक्ताः स्थ संग्रामादस्माल्लोकभयंकरात्
क्षत्रधर्मरतश्चापि कच्चिन्मोदसि पाण्डव
१२.१.१२कच्चिच्च निहतामित्रः प्रीणासि सुहृदो नृप
कच्चिच्छ्रियमिमां प्राप्य न त्वां शोकः प्रबाधते
१२.१.१३युधिष्ठिर उवाच
१२.१.१४विजितेयं मही कृत्स्ना कृष्णबाहुबलाश्रयात्
ब्राह्मणानां प्रसादेन भीमार्जुनबलेन च
१२.१.१५इदं तु मे महद्दुःखं वर्तते हृदि नित्यदा
कृत्वा ज्ञातिक्षयमिमं महान्तं लोभकारितम्
१२.१.१६सौभद्रं द्रौपदेयांश्च घातयित्वा प्रियान्सुतान्
जयोऽयमजयाकारो भगवन्प्रतिभाति मे
१२.१.१७किं नु वक्ष्यति वार्ष्णेयी वधूर्मे मधुसूदनम्
द्वारकावासिनी कृष्णमितः प्रतिगतं हरिम्
१२.१.१८द्रौपदी हतपुत्रेयं कृपणा हतबान्धवा
अस्मत्प्रियहिते युक्ता भूयः पीडयतीव माम्
१२.१.१९इदमन्यच्च भगवन्यत्त्वां वक्ष्यामि नारद
मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः
१२.१.२०योऽसौ नागायुतबलो लोकेऽप्रतिरथो रणे
सिंहखेलगतिर्धीमान्घृणी दान्तो यतव्रतः
१२.१.२१आश्रयो धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः
अमर्षी नित्यसंरम्भी क्षेप्तास्माकं रणे रणे
१२.१.२२शीघ्रास्त्रश्चित्रयोधी च कृती चाद्भुतविक्रमः
गूढोत्पन्नः सुतः कुन्त्या भ्रातास्माकं च सोदरः
१२.१.२३तोयकर्मणि यं कुन्ती कथयामास सूर्यजम्
पुत्रं सर्वगुणोपेतमवकीर्णं जले पुरा
१२.१.२४यं सूतपुत्रं लोकोऽयं राधेयं चाप्यमन्यत
स ज्येष्ठपुत्रः कुन्त्या वै भ्रातास्माकं च मातृजः
१२.१.२५अजानता मया संख्ये राज्यलुब्धेन घातितः
तन्मे दहति गात्राणि तूलराशिमिवानलः
१२.१.२६न हि तं वेद पार्थोऽपि भ्रातरं श्वेतवाहनः
नाहं न भीमो न यमौ स त्वस्मान्वेद सुव्रतः
१२.१.२७गता किल पृथा तस्य सकाशमिति नः श्रुतम्
अस्माकं शमकामा वै त्वं च पुत्रो ममेत्यथ
१२.१.२८पृथाया न कृतः कामस्तेन चापि महात्मना
अतिपश्चादिदं मातर्यवोचदिति नः श्रुतम्
१२.१.२९न हि शक्ष्याम्यहं त्यक्तुं नृपं दुर्योधनं रणे
अनार्यं च नृशंसं च कृतघ्नं च हि मे भवेत्
१२.१.३०युधिष्ठिरेण संधिं च यदि कुर्यां मते तव
भीतो रणे श्वेतवाहादिति मां मंस्यते जनः
१२.१.३१सोऽहं निर्जित्य समरे विजयं सहकेशवम्
संधास्ये धर्मपुत्रेण पश्चादिति च सोऽब्रवीत्
१२.१.३२तमवोचत्किल पृथा पुनः पृथुलवक्षसम्
चतुर्णामभयं देहि कामं युध्यस्व फल्गुनम्
१२.१.३३सोऽब्रवीन्मातरं धीमान्वेपमानः कृताञ्जलिः
प्राप्तान्विषह्यांश्चतुरो न हनिष्यामि ते सुतान्
१२.१.३४पञ्चैव हि सुता मातर्भविष्यन्ति हि ते ध्रुवम्
सकर्णा वा हते पार्थे सार्जुना वा हते मयि
१२.१.३५तं पुत्रगृद्धिनी भूयो माता पुत्रमथाब्रवीत्
भ्रातॄणां स्वस्ति कुर्वीथा येषां स्वस्ति चिकीर्षसि
१२.१.३६तमेवमुक्त्वा तु पृथा विसृज्योपययौ गृहान्
सोऽर्जुनेन हतो वीरो भ्राता भ्रात्रा सहोदरः
१२.१.३७न चैव विवृतो मन्त्रः पृथायास्तस्य वा मुने
अथ शूरो महेष्वासः पार्थेनासौ निपातितः
१२.१.३८अहं त्वज्ञासिषं पश्चात्स्वसोदर्यं द्विजोत्तम
पूर्वजं भ्रातरं कर्णं पृथाया वचनात्प्रभो
१२.१.३९तेन मे दूयतेऽतीव हृदयं भ्रातृघातिनः
कर्णार्जुनसहायोऽहं जयेयमपि वासवम्
१२.१.४०सभायां क्लिश्यमानस्य धार्तराष्ट्रैर्दुरात्मभिः
सहसोत्पतितः क्रोधः कर्णं दृष्ट्वा प्रशाम्यति
१२.१.४१यदा ह्यस्य गिरो रूक्षाः शृणोमि कटुकोदयाः
सभायां गदतो द्यूते दुर्योधनहितैषिणः
१२.१.४२तदा नश्यति मे क्रोधः पादौ तस्य निरीक्ष्य ह
कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर्मम
१२.१.४३सादृश्यहेतुमन्विच्छन्पृथायास्तव चैव ह
कारणं नाधिगच्छामि कथंचिदपि चिन्तयन्
१२.१.४४कथं नु तस्य संग्रामे पृथिवी चक्रमग्रसत्
कथं च शप्तो भ्राता मे तत्त्वं वक्तुमिहार्हसि
१२.१.४५श्रोतुमिच्छामि भगवंस्त्वत्तः सर्वं यथातथम्
भवान्हि सर्वविद्विद्वाँल्लोके वेद कृताकृतम्