११.२७.१वैशंपायन उवाच
११.२७.२ते समासाद्य गङ्गां तु शिवां पुण्यजनोचिताम्
ह्रदिनीं वप्रसंपन्नां महानूपां महावनाम्
११.२७.३भूषणान्युत्तरीयाणि वेष्टनान्यवमुच्य च
ततः पितॄणां पौत्राणां भ्रातॄणां स्वजनस्य च
११.२७.४पुत्राणामार्यकाणां च पतीनां च कुरुस्त्रियः
उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः
सुहृदां चापि धर्मज्ञाः प्रचक्रुः सलिलक्रियाः
११.२७.५उदके क्रियमाणे तु वीराणां वीरपत्निभिः
सूपतीर्थाभवद्गङ्गा भूयो विप्रससार च
११.२७.६तन्महोदधिसंकाशं निरानन्दमनुत्सवम्
वीरपत्नीभिराकीर्णं गङ्गातीरमशोभत
११.२७.७ततः कुन्ती महाराज सहसा शोककर्शिता
रुदती मन्दया वाचा पुत्रान्वचनमब्रवीत्
११.२७.८यः स शूरो महेष्वासो रथयूथपयूथपः
अर्जुनेन हतः संख्ये वीरलक्षणलक्षितः
११.२७.९यं सूतपुत्रं मन्यध्वं राधेयमिति पाण्डवाः
यो व्यराजच्चमूमध्ये दिवाकर इव प्रभुः
११.२७.१०प्रत्ययुध्यत यः सर्वान्पुरा वः सपदानुगान्
दुर्योधनबलं सर्वं यः प्रकर्षन्व्यरोचत
११.२७.११यस्य नास्ति समो वीर्ये पृथिव्यामपि कश्चन
सत्यसंधस्य शूरस्य संग्रामेष्वपलायिनः
११.२७.१२कुरुध्वमुदकं तस्य भ्रातुरक्लिष्टकर्मणः
स हि वः पूर्वजो भ्राता भास्करान्मय्यजायत
कुण्डली कवची शूरो दिवाकरसमप्रभः
११.२७.१३श्रुत्वा तु पाण्डवाः सर्वे मातुर्वचनमप्रियम्
कर्णमेवानुशोचन्त भूयश्चार्ततराभवन्
११.२७.१४ततः स पुरुषव्याघ्रः कुन्तीपुत्रो युधिष्ठिरः
उवाच मातरं वीरो निःश्वसन्निव पन्नगः
११.२७.१५यस्येषुपातमासाद्य नान्यस्तिष्ठेद्धनंजयात्
कथं पुत्रो भवत्यां स देवगर्भः पुराभवत्
११.२७.१६यस्य बाहुप्रतापेन तापिताः सर्वतो वयम्
तमग्निमिव वस्त्रेण कथं छादितवत्यसि
यस्य बाहुबलं घोरं धार्तराष्ट्रैरुपासितम्
११.२७.१७नान्यः कुन्तीसुतात्कर्णादगृह्णाद्रथिनां रथी
स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः
असूत तं भवत्यग्रे कथमद्भुतविक्रमम्
११.२७.१८अहो भवत्या मन्त्रस्य पिधानेन वयं हताः
निधनेन हि कर्णस्य पीडिताः स्म सबान्धवाः
११.२७.१९अभिमन्योर्विनाशेन द्रौपदेयवधेन च
पाञ्चालानां च नाशेन कुरूणां पतनेन च
११.२७.२०ततः शतगुणं दुःखमिदं मामस्पृशद्भृशम्
कर्णमेवानुशोचन्हि दह्याम्यग्नाविवाहितः
११.२७.२१न हि स्म किंचिदप्राप्यं भवेदपि दिवि स्थितम्
न च स्म वैशसं घोरं कौरवान्तकरं भवेत्
११.२७.२२एवं विलप्य बहुलं धर्मराजो युधिष्ठिरः
विनदञ्शनकै राजंश्चकारास्योदकं प्रभुः
११.२७.२३ततो विनेदुः सहसा स्त्रीपुंसास्तत्र सर्वशः
अभितो ये स्थितास्तत्र तस्मिन्नुदककर्मणि
११.२७.२४तत आनाययामास कर्णस्य सपरिच्छदम्
स्त्रियः कुरुपतिर्धीमान्भ्रातुः प्रेम्णा युधिष्ठिरः
११.२७.२५स ताभिः सह धर्मात्मा प्रेतकृत्यमनन्तरम्
कृत्वोत्ततार गङ्गायाः सलिलादाकुलेन्द्रियः