१२.१०१.१युधिष्ठिर उवाच
१२.१०१.२यथा जयार्थिनः सेनां नयन्ति भरतर्षभ
ईषद्धर्मं प्रपीड्यापि तन्मे ब्रूहि पितामह
१२.१०१.३भीष्म उवाच
१२.१०१.४सत्येन हि स्थिता धर्मा उपपत्त्या तथापरे
साध्वाचारतया केचित्तथैवौपयिका अपि
उपायधर्मान्वक्ष्यामि सिद्धार्थानर्थधर्मयोः
१२.१०१.५निर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः
तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम्
कार्याणां संप्रसिद्ध्यर्थं तानुपायान्निबोध मे
१२.१०१.६उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत
जानन्वक्रां न सेवेत प्रतिबाधेत चागताम्
१२.१०१.७अमित्रा एव राजानं भेदेनोपचरन्त्युत
तां राजा निकृतिं जानन्यथामित्रान्प्रबाधते
१२.१०१.८गजानां पार्श्वचर्माणि गोवृषाजगराणि च
शल्यकङ्कटलोहानि तनुत्राणि मतानि च
१२.१०१.९शितपीतानि शस्त्राणि संनाहाः पीतलोहिताः
नानारञ्जनरक्ताः स्युः पताकाः केतवश्च ते
१२.१०१.१०ऋष्टयस्तोमराः खड्गा निशिताश्च परश्वधाः
फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः
अभिनीतानि शस्त्राणि योधाश्च कृतनिश्रमाः
१२.१०१.११चैत्र्यां वा मार्गशीर्ष्यां वा सेनायोगः प्रशस्यते
पक्वसस्या हि पृथिवी भवत्यम्बुमती तथा
१२.१०१.१२नैवातिशीतो नात्युष्णः कालो भवति भारत
तस्मात्तदा योजयेत परेषां व्यसनेषु वा
एतेषु योगाः सेनायाः प्रशस्ताः परबाधने
१२.१०१.१३जलवांस्तृणवान्मार्गः समो गम्यः प्रशस्यते
चारैर्हि विहिताभ्यासः कुशलैर्वनगोचरैः
१२.१०१.१४नव्यारण्यैर्न शक्येत गन्तुं मृगगणैरिव
तस्मात्सर्वासु सेनासु योजयन्ति जयार्थिनः
१२.१०१.१५आवासस्तोयवान्दुर्गः पर्याकाशः प्रशस्यते
परेषामुपसर्पाणां प्रतिषेधस्तथा भवेत्
१२.१०१.१६आकाशं तु वनाभ्याशे मन्यन्ते गुणवत्तरम्
बहुभिर्गुणजातैस्तु ये युद्धकुशला जनाः
१२.१०१.१७उपन्यासोऽपसर्पाणां पदातीनां च गूहनम्
अथ शत्रुप्रतीघातमापदर्थं परायणम्
१२.१०१.१८सप्तर्षीन्पृष्ठतः कृत्वा युध्येरन्नचला इव
अनेन विधिना राजञ्जिगीषेतापि दुर्जयान्
१२.१०१.१९यतो वायुर्यतः सूर्यो यतः शुक्रस्ततो जयः
पूर्वं पूर्वं ज्याय एषां संनिपाते युधिष्ठिर
१२.१०१.२०अकर्दमामनुदकाममर्यादामलोष्टकाम्
अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः
१२.१०१.२१समा निरुदकाकाशा रथभूमिः प्रशस्यते
नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम्
१२.१०१.२२बहुदुर्गा महावृक्षा वेत्रवेणुभिरास्तृता
पदातीनां क्षमा भूमिः पर्वतोपवनानि च
१२.१०१.२३पदातिबहुला सेना दृढा भवति भारत
रथाश्वबहुला सेना सुदिनेषु प्रशस्यते
१२.१०१.२४पदातिनागबहुला प्रावृट्काले प्रशस्यते
गुणानेतान्प्रसंख्याय देशकालौ प्रयोजयेत्
१२.१०१.२५एवं संचिन्त्य यो याति तिथिनक्षत्रपूजितः
विजयं लभते नित्यं सेनां सम्यक्प्रयोजयन्
१२.१०१.२६प्रसुप्तांस्तृषिताञ्श्रान्तान्प्रकीर्णान्नाभिघातयेत्
मोक्षे प्रयाणे चलने पानभोजनकालयोः
१२.१०१.२७अतिक्षिप्तान्व्यतिक्षिप्तान्विहतान्प्रतनूकृतान्
सुविस्रम्भान्कृतारम्भानुपन्यासप्रतापितान्
बहिश्चरानुपन्यासान्कृत्वा वेश्मानुसारिणः
१२.१०१.२८पारंपर्यागते द्वारे ये केचिदनुवर्तिनः
परिचर्यावरोद्धारो ये च केचन वल्गिनः
१२.१०१.२९अनीकं ये प्रभिन्दन्ति भिन्नं ये स्थगयन्ति च
समानाशनपानास्ते कार्या द्विगुणवेतनाः
१२.१०१.३०दशाधिपतयः कार्याः शताधिपतयस्तथा
तेषां सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम्
१२.१०१.३१यथामुख्यं संनिपात्य वक्तव्याः स्म शपामहे
यथा जयार्थं संग्रामे न जह्याम परस्परम्
१२.१०१.३२इहैव ते निवर्तन्तां ये नः केचन भीरवः
न घातयेयुः प्रदरं कुर्वाणास्तुमुले सति
१२.१०१.३३आत्मानं च स्वपक्षं च पलायन्हन्ति संयुगे
द्रव्यनाशो वधोऽकीर्तिरयशश्च पलायने
१२.१०१.३४अमनोज्ञासुखा वाचः पुरुषस्य पलायतः
प्रतिस्पन्दौष्ठदन्तस्य न्यस्तसर्वायुधस्य च
१२.१०१.३५हित्वा पलायमानस्य सहायान्प्राणसंशये
अमित्रैरनुबद्धस्य द्विषतामस्तु नस्तथा
१२.१०१.३६मनुष्यापसदा ह्येते ये भवन्ति पराङ्मुखाः
राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह
१२.१०१.३७अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम्
जयिनं सुहृदस्तात वन्दनैर्मङ्गलेन च
१२.१०१.३८यस्य स्म व्यसने राजन्ननुमोदन्ति शत्रवः
तदसह्यतरं दुःखमहं मन्ये वधादपि
१२.१०१.३९श्रियं जानीत धर्मस्य मूलं सर्वसुखस्य च
सा भीरूणां परान्याति शूरस्तामधिगच्छति
१२.१०१.४०ते वयं स्वर्गमिच्छन्तः संग्रामे त्यक्तजीविताः
जयन्तो वध्यमाना वा प्राप्तुमर्हाम सद्गतिम्
१२.१०१.४१एवं संशप्तशपथाः समभित्यक्तजीविताः
अमित्रवाहिनीं वीराः संप्रगाहन्त्यभीरवः
१२.१०१.४२अग्रतः पुरुषानीकमसिचर्मवतां भवेत्
पृष्ठतः शकटानीकं कलत्रं मध्यतस्तथा
१२.१०१.४३परेषां प्रतिघातार्थं पदातीनां च गूहनम्
अपि ह्यस्मिन्परे गृद्धा भवेयुर्ये पुरोगमाः
१२.१०१.४४ये पुरस्तादभिमताः सत्त्ववन्तो मनस्विनः
ते पूर्वमभिवर्तेरंस्तानन्वगितरे जनाः
१२.१०१.४५अपि चोद्धर्षणं कार्यं भीरूणामपि यत्नतः
स्कन्धदर्शनमात्रं तु तिष्ठेयुर्वा समीपतः
१२.१०१.४६संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून्
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह
१२.१०१.४७संप्रयुद्धे प्रहृष्टे वा सत्यं वा यदि वानृतम्
प्रगृह्य बाहून्क्रोशेत भग्ना भग्नाः परा इति
१२.१०१.४८आगतं नो मित्रबलं प्रहरध्वमभीतवत्
शब्दवन्तोऽनुधावेयुः कुर्वन्तो भैरवं रवम्
१२.१०१.४९क्ष्वेडाः किलकिलाः शङ्खाः क्रकचा गोविषाणिकान्
भेरीमृदङ्गपणवान्नादयेयुश्च कुञ्जरान्