१२.१००.१भीष्म उवाच
१२.१००.२अत्राप्युदाहरन्तीममितिहासं पुरातनम्
प्रतर्दनो मैथिलश्च संग्रामं यत्र चक्रतुः
१२.१००.३यज्ञोपवीती संग्रामे जनको मैथिलो यथा
योधानुद्धर्षयामास तन्निबोध युधिष्ठिर
१२.१००.४जनको मैथिलो राजा महात्मा सर्वतत्त्ववित्
योधान्स्वान्दर्शयामास स्वर्गं नरकमेव च
१२.१००.५अभीतानामिमे लोका भास्वन्तो हन्त पश्यत
पूर्णा गन्धर्वकन्याभिः सर्वकामदुहोऽक्षयाः
१२.१००.६इमे पलायमानानां नरकाः प्रत्युपस्थिताः
अकीर्तिः शाश्वती चैव पतितव्यमनन्तरम्
१२.१००.७तान्दृष्ट्वारीन्विजयतो भूत्वा संत्यागबुद्धयः
नरकस्याप्रतिष्ठस्य मा भूत वशवर्तिनः
१२.१००.८त्यागमूलं हि शूराणां स्वर्गद्वारमनुत्तमम्
इत्युक्तास्ते नृपतिना योधाः परपुरंजय
१२.१००.९व्यजयन्त रणे शत्रून्हर्षयन्तो जनेश्वरम्
तस्मादात्मवता नित्यं स्थातव्यं रणमूर्धनि
१२.१००.१०गजानां रथिनो मध्ये रथानामनु सादिनः
सादिनामन्तरा स्थाप्यं पादातमिह दंशितम्
१२.१००.११य एवं व्यूहते राजा स नित्यं जयते द्विषः
तस्मादेवं विधातव्यं नित्यमेव युधिष्ठिर
१२.१००.१२सर्वे सुकृतमिच्छन्तः सुयुद्धेनातिमन्यवः
क्षोभयेयुरनीकानि सागरं मकरा इव
१२.१००.१३हर्षयेयुर्विषण्णांश्च व्यवस्थाप्य परस्परम्
जितां च भूमिं रक्षेत भग्नान्नात्यनुसारयेत्
१२.१००.१४पुनरावर्तमानानां निराशानां च जीविते
न वेगः सुसहो राजंस्तस्मान्नात्यनुसारयेत्
१२.१००.१५न हि प्रहर्तुमिच्छन्ति शूराः प्राद्रवतां भयात्
तस्मात्पलायमानानां कुर्यान्नात्यनुसारणम्
१२.१००.१६चराणामचरा ह्यन्नमदंष्ट्रा दंष्ट्रिणामपि
अपाणयः पाणिमतामन्नं शूरस्य कातराः
१२.१००.१७समानपृष्ठोदरपाणिपादाः; पश्चाच्छूरं भीरवोऽनुव्रजन्ति
अतो भयार्ताः प्रणिपत्य भूयः; कृत्वाञ्जलीनुपतिष्ठन्ति शूरान्
१२.१००.१८शूरबाहुषु लोकोऽयं लम्बते पुत्रवत्सदा
तस्मात्सर्वास्ववस्थासु शूरः संमानमर्हति
१२.१००.१९न हि शौर्यात्परं किंचित्त्रिषु लोकेषु विद्यते
शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम्