१२.१०४.१युधिष्ठिर उवाच
१२.१०४.२कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव
अरौ वर्तेत नृपतिस्तन्मे ब्रूहि पितामह
१२.१०४.३भीष्म उवाच
१२.१०४.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर
१२.१०४.५बृहस्पतिं देवपतिरभिवाद्य कृताञ्जलिः
उपसंगम्य पप्रच्छ वासवः परवीरहा
१२.१०४.६अहितेषु कथं ब्रह्मन्वर्तयेयमतन्द्रितः
असमुच्छिद्य चैवेनान्नियच्छेयमुपायतः
१२.१०४.७सेनयोर्व्यतिषङ्गेण जयः साधारणो भवेत्
किं कुर्वाणं न मां जह्याज्ज्वलिता श्रीः प्रतापिनी
१२.१०४.८ततो धर्मार्थकामानां कुशलः प्रतिभानवान्
राजधर्मविधानज्ञः प्रत्युवाच पुरंदरम्
१२.१०४.९न जातु कलहेनेच्छेन्नियन्तुमपकारिणः
बालसंसेवितं ह्येतद्यदमर्षो यदक्षमा
न शत्रुर्विवृतः कार्यो वधमस्याभिकाङ्क्षता
१२.१०४.१०क्रोधं बलममर्षं च नियम्यात्मजमात्मनि
अमित्रमुपसेवेत विश्वस्तवदविश्वसन्
१२.१०४.११प्रियमेव वदेन्नित्यं नाप्रियं किंचिदाचरेत्
विरमेच्छुष्कवैरेभ्यः कण्ठायासं च वर्जयेत्
१२.१०४.१२यथा वैतंसिको युक्तो द्विजानां सदृशस्वनः
तान्द्विजान्कुरुते वश्यांस्तथा युक्तो महीपतिः
वशं चोपनयेच्छत्रून्निहन्याच्च पुरंदर
१२.१०४.१३न नित्यं परिभूयारीन्सुखं स्वपिति वासव
जागर्त्येव च दुष्टात्मा संकरेऽग्निरिवोत्थितः
१२.१०४.१४न संनिपातः कर्तव्यः सामान्ये विजये सति
विश्वास्यैवोपसंन्यास्यो वशे कृत्वा रिपुः प्रभो
१२.१०४.१५संप्रधार्य सहामात्यैर्मन्त्रविद्भिर्महात्मभिः
उपेक्षमाणोऽवज्ञाते हृदयेनापराजितः
१२.१०४.१६अथास्य प्रहरेत्काले किंचिद्विचलिते पदे
दण्डं च दूषयेदस्य पुरुषैराप्तकारिभिः
१२.१०४.१७आदिमध्यावसानज्ञः प्रच्छन्नं च विचारयेत्
बलानि दूषयेदस्य जानंश्चैव प्रमाणतः
१२.१०४.१८भेदेनोपप्रदानेन संसृजन्नौषधैस्तथा
न त्वेव चेलसंसर्गं रचयेदरिभिः सह
१२.१०४.१९दीर्घकालमपि क्षान्त्वा विहन्यादेव शात्रवान्
कालाकाङ्क्षी यामयेच्च यथा विस्रम्भमाप्नुयुः
१२.१०४.२०न सद्योऽरीन्विनिर्हन्याद्दृष्टस्य विजयोऽज्वरः
न यः शल्यं घट्टयति नवं च कुरुते व्रणम्
१२.१०४.२१प्राप्ते च प्रहरेत्काले न स संवर्तते पुनः
हन्तुकामस्य देवेन्द्र पुरुषस्य रिपुं प्रति
१२.१०४.२२यः कालो हि व्यतिक्रामेत्पुरुषं कालकाङ्क्षिणम्
दुर्लभः स पुनः कालः कालधर्मचिकीर्षुणा
१२.१०४.२३और्जस्थ्यं विजयेदेवं संगृह्णन्साधुसंमतान्
कालेन साधयेन्नित्यं नाप्राप्तेऽभिनिपीडयेत्
१२.१०४.२४विहाय कामं क्रोधं च तथाहंकारमेव च
युक्तो विवरमन्विच्छेदहितानां पुरंदर
१२.१०४.२५मार्दवं दण्ड आलस्यं प्रमादश्च सुरोत्तम
मायाश्च विविधाः शक्र साधयन्त्यविचक्षणम्
१२.१०४.२६निहत्यैतानि चत्वारि मायां प्रतिविधाय च
ततः शक्नोति शत्रूणां प्रहर्तुमविचारयन्
१२.१०४.२७यदैवैकेन शक्येत गुह्यं कर्तुं तदाचरेत्
यच्छन्ति सचिवा गुह्यं मिथो विद्रावयन्त्यपि
१२.१०४.२८अशक्यमिति कृत्वा वा ततोऽन्यैः संविदं चरेत्
ब्रह्मदण्डमदृष्टेषु दृष्टेषु चतुरङ्गिणीम्
१२.१०४.२९भेदं च प्रथमं युञ्ज्यात्तूष्णींदण्डं तथैव च
काले प्रयोजयेद्राजा तस्मिंस्तस्मिंस्तदा तदा
१२.१०४.३०प्रणिपातं च गच्छेत काले शत्रोर्बलीयसः
युक्तोऽस्य वधमन्विच्छेदप्रमत्तः प्रमाद्यतः
१२.१०४.३१प्रणिपातेन दानेन वाचा मधुरया ब्रुवन्
अमित्रमुपसेवेत न तु जातु विशङ्कयेत्
१२.१०४.३२स्थानानि शङ्कितानां च नित्यमेव विवर्जयेत्
न च तेष्वाश्वसेद्द्रुग्ध्वा जाग्रतीह निराकृताः
१२.१०४.३३न ह्यतो दुष्करं कर्म किंचिदस्ति सुरोत्तम
यथा विविधवृत्तानामैश्वर्यममराधिप
१२.१०४.३४तथा विविधशीलानामपि संभव उच्यते
यतेत योगमास्थाय मित्रामित्रानवारयन्
१२.१०४.३५मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः
मातीक्ष्णो मामृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव
१२.१०४.३६यथा वप्रे वेगवति सर्वतःसंप्लुतोदके
नित्यं विवरणाद्बाधस्तथा राज्यं प्रमाद्यतः
१२.१०४.३७न बहूनभियुञ्जीत यौगपद्येन शात्रवान्
साम्ना दानेन भेदेन दण्डेन च पुरंदर
१२.१०४.३८एकैकमेषां निष्पिंषञ्शिष्टेषु निपुणं चरेत्
न च शक्तोऽपि मेधावी सर्वानेवारभेन्नृपः
१२.१०४.३९यदा स्यान्महती सेना हयनागरथाकुला
पदातियन्त्रबहुला स्वनुरक्ता षडङ्गिनी
१२.१०४.४०यदा बहुविधां वृद्धिं मन्यते प्रतिलोमतः
तदा विवृत्य प्रहरेद्दस्यूनामविचारयन्
१२.१०४.४१न साम दण्डोपनिषत्प्रशस्यते; न मार्दवं शत्रुषु यात्रिकं सदा
न सस्यघातो न च संकरक्रिया; न चापि भूयः प्रकृतेर्विचारणा
१२.१०४.४२मायाविभेदानुपसर्जनानि; पापं तथैव स्पशसंप्रयोगात्
आप्तैर्मनुष्यैरुपचारयेत; पुरेषु राष्ट्रेषु च संप्रयुक्तः
१२.१०४.४३पुराणि चैषामनुसृत्य भूमिपाः; पुरेषु भोगान्निखिलानिहाजयन्
पुरेषु नीतिं विहितां यथाविधि; प्रयोजयन्तो बलवृत्रसूदन
१२.१०४.४४प्रदाय गूढानि वसूनि नाम; प्रच्छिद्य भोगानवधाय च स्वान्
दुष्टाः स्वदोषैरिति कीर्तयित्वा; पुरेषु राष्ट्रेषु च योजयन्ति
१२.१०४.४५तथैव चान्यै रतिशास्त्रवेदिभिः; स्वलंकृतैः शास्त्रविधानदृष्टिभिः
सुशिक्षितैर्भाष्यकथाविशारदैः; परेषु कृत्यानुपधारयस्व
१२.१०४.४६इन्द्र उवाच
१२.१०४.४७कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम
कथं दुष्टं विजानीयादेतत्पृष्टो ब्रवीहि मे
१२.१०४.४८बृहस्पतिरुवाच
१२.१०४.४९परोक्षमगुणानाह सद्गुणानभ्यसूयति
परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्मुखः
१२.१०४.५०तूष्णींभावेऽपि हि ज्ञानं न चेद्भवति कारणम्
विश्वासमोष्ठसंदंशं शिरसश्च प्रकम्पनम्
१२.१०४.५१करोत्यभीक्ष्णं संसृष्टमसंसृष्टश्च भाषते
अदृष्टितो विकुरुते दृष्ट्वा वा नाभिभाषते
१२.१०४.५२पृथगेत्य समश्नाति नेदमद्य यथाविधि
आसने शयने याने भावा लक्ष्या विशेषतः
१२.१०४.५३आर्तिरार्ते प्रिये प्रीतिरेतावन्मित्रलक्षणम्
विपरीतं तु बोद्धव्यमरिलक्षणमेव तत्
१२.१०४.५४एतान्येवं यथोक्तानि बुध्येथास्त्रिदशाधिप
पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः
१२.१०४.५५इति दुष्टस्य विज्ञानमुक्तं ते सुरसत्तम
निशाम्य शास्त्रतत्त्वार्थं यथावदमरेश्वर
१२.१०४.५६भीष्म उवाच
१२.१०४.५७स तद्वचः शत्रुनिबर्हणे रत;स्तथा चकारावितथं बृहस्पतेः
चचार काले विजयाय चारिहा; वशं च शत्रूननयत्पुरंदरः