१२.१०५.१युधिष्ठिर उवाच
१२.१०५.२धार्मिकोऽर्थानसंप्राप्य राजामात्यैः प्रबाधितः
च्युतः कोशाच्च दण्डाच्च सुखमिच्छन्कथं चरेत्
१२.१०५.३भीष्म उवाच
१२.१०५.४अत्रायं क्षेमदर्शीयमितिहासोऽनुगीयते
तत्तेऽहं संप्रवक्ष्यामि तन्निबोध युधिष्ठिर
१२.१०५.५क्षेमदर्शं नृपसुतं यत्र क्षीणबलं पुरा
मुनिः कालकवृक्षीय आजगामेति नः श्रुतम्
तं पप्रच्छोपसंगृह्य कृच्छ्रामापदमास्थितः
१२.१०५.६अर्थेषु भागी पुरुष ईहमानः पुनः पुनः
अलब्ध्वा मद्विधो राज्यं ब्रह्मन्किं कर्तुमर्हति
१२.१०५.७अन्यत्र मरणात्स्तेयादन्यत्र परसंश्रयात्
क्षुद्रादन्यत्र चाचारात्तन्ममाचक्ष्व सत्तम
१२.१०५.८व्याधिना चाभिपन्नस्य मानसेनेतरेण वा
बहुश्रुतः कृतप्रज्ञस्त्वद्विधः शरणं भवेत्
१२.१०५.९निर्विद्य हि नरः कामान्नियम्य सुखमेधते
त्यक्त्वा प्रीतिं च शोकं च लब्ध्वाप्रीतिमयं वसु
१२.१०५.१०सुखमर्थाश्रयं येषामनुशोचामि तानहम्
मम ह्यर्थाः सुबहवो नष्टाः स्वप्न इवागताः
१२.१०५.११दुष्करं बत कुर्वन्ति महतोऽर्थांस्त्यजन्ति ये
वयं त्वेनान्परित्यक्तुमसतोऽपि न शक्नुमः
१२.१०५.१२इमामवस्थां संप्राप्तं दीनमार्तं श्रियश्च्युतम्
यदन्यत्सुखमस्तीह तद्ब्रह्मन्ननुशाधि माम्
१२.१०५.१३कौसल्येनैवमुक्तस्तु राजपुत्रेण धीमता
मुनिः कालकवृक्षीयः प्रत्युवाच महाद्युतिः
१२.१०५.१४पुरस्तादेव ते बुद्धिरियं कार्या विजानतः
अनित्यं सर्वमेवेदमहं च मम चास्ति यत्
१२.१०५.१५यत्किंचिन्मन्यसेऽस्तीति सर्वं नास्तीति विद्धि तत्
एवं न व्यथते प्राज्ञः कृच्छ्रामप्यापदं गतः
१२.१०५.१६यद्धि भूतं भविष्यच्च ध्रुवं तन्न भविष्यति
एवं विदितवेद्यस्त्वमधर्मेभ्यः प्रमोक्ष्यसे
१२.१०५.१७यच्च पूर्वे समाहारे यच्च पूर्वतरे परे
सर्वं तन्नास्ति तच्चैव तज्ज्ञात्वा कोऽनुसंज्वरेत्
१२.१०५.१८भूत्वा च न भवत्येतदभूत्वा च भवत्यपि
शोके न ह्यस्ति सामर्थ्यं शोकं कुर्यात्कथं नरः
१२.१०५.१९क्व नु तेऽद्य पिता राजन्क्व नु तेऽद्य पितामहः
न त्वं पश्यसि तानद्य न त्वा पश्यन्ति तेऽपि च
१२.१०५.२०आत्मनोऽध्रुवतां पश्यंस्तांस्त्वं किमनुशोचसि
बुद्ध्या चैवानुबुध्यस्व ध्रुवं हि न भविष्यसि
१२.१०५.२१अहं च त्वं च नृपते शत्रवः सुहृदश्च ते
अवश्यं न भविष्यामः सर्वं च न भविष्यति
१२.१०५.२२ये तु विंशतिवर्षा वै त्रिंशद्वर्षाश्च मानवाः
अर्वागेव हि ते सर्वे मरिष्यन्ति शरच्छतात्
१२.१०५.२३अपि चेन्महतो वित्ताद्विप्रमुच्येत पूरुषः
नैतन्ममेति तन्मत्वा कुर्वीत प्रियमात्मनः
१२.१०५.२४अनागतं यन्न ममेति विद्या;दतिक्रान्तं यन्न ममेति विद्यात्
दिष्टं बलीय इति मन्यमाना;स्ते पण्डितास्तत्सतां स्थानमाहुः
१२.१०५.२५अनाढ्याश्चापि जीवन्ति राज्यं चाप्यनुशासते
बुद्धिपौरुषसंपन्नास्त्वया तुल्याधिका जनाः
१२.१०५.२६न च त्वमिव शोचन्ति तस्मात्त्वमपि मा शुचः
किं नु त्वं तैर्न वै श्रेयांस्तुल्यो वा बुद्धिपौरुषैः
१२.१०५.२७राजपुत्र उवाच
१२.१०५.२८यादृच्छिकं ममासीत्तद्राज्यमित्येव चिन्तये
ह्रियते सर्वमेवेदं कालेन महता द्विज
१२.१०५.२९तस्यैवं ह्रियमाणस्य स्रोतसेव तपोधन
फलमेतत्प्रपश्यामि यथालब्धेन वर्तये
१२.१०५.३०मुनिरुवाच
१२.१०५.३१अनागतमतीतं च यथा तथ्यविनिश्चयात्
नानुशोचसि कौसल्य सर्वार्थेषु तथा भव
१२.१०५.३२अवाप्यान्कामयस्वार्थान्नानवाप्यान्कदाचन
प्रत्युत्पन्नाननुभवन्मा शुचस्त्वमनागतान्
१२.१०५.३३यथा लब्धोपपन्नार्थस्तथा कौसल्य रंस्यसे
कच्चिच्छुद्धस्वभावेन श्रिया हीनो न शोचसि
१२.१०५.३४पुरस्ताद्भूतपूर्वत्वाद्धीनभाग्यो हि दुर्मतिः
धातारं गर्हते नित्यं लब्धार्थांश्च न मृष्यते
१२.१०५.३५अनर्हानपि चैवान्यान्मन्यते श्रीमतो जनान्
एतस्मात्कारणादेतद्दुःखं भूयोऽनुवर्तते
१२.१०५.३६ईर्ष्यातिच्छेदसंपन्ना राजन्पुरुषमानिनः
कच्चित्त्वं न तथा प्राज्ञ मत्सरी कोसलाधिप
१२.१०५.३७सहस्व श्रियमन्येषां यद्यपि त्वयि नास्ति सा
अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते जनाः
अभिविष्यन्दते श्रीर्हि सत्यपि द्विषतो जनात्
१२.१०५.३८श्रियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः
त्यागधर्मविदो वीराः स्वयमेव त्यजन्त्युत
१२.१०५.३९बहु संकसुकं दृष्ट्वा विवित्सासाधनेन च
तथान्ये संत्यजन्त्येनं मत्वा परमदुर्लभम्
१२.१०५.४०त्वं पुनः प्राज्ञरूपः सन्कृपणं परितप्यसे
अकाम्यान्कामयानोऽर्थान्पराचीनानुपद्रुतान्
१२.१०५.४१तां बुद्धिमुपजिज्ञासुस्त्वमेवैनान्परित्यज
अनर्थांश्चार्थरूपेण अर्थांश्चानर्थरूपतः
१२.१०५.४२अर्थायैव हि केषांचिद्धननाशो भवत्युत
अनन्त्यं तं सुखं मत्वा श्रियमन्यः परीक्षते
१२.१०५.४३रममाणः श्रिया कश्चिन्नान्यच्छ्रेयोऽभिमन्यते
तथा तस्येहमानस्य समारम्भो विनश्यति
१२.१०५.४४कृच्छ्राल्लब्धमभिप्रेतं यदा कौसल्य नश्यति
तदा निर्विद्यते सोऽर्थात्परिभग्नक्रमो नरः
१२.१०५.४५धर्ममेकेऽभिपद्यन्ते कल्याणाभिजना नराः
परत्र सुखमिच्छन्तो निर्विद्येयुश्च लौकिकात्
१२.१०५.४६जीवितं संत्यजन्त्येके धनलोभपरा नराः
न जीवितार्थं मन्यन्ते पुरुषा हि धनादृते
१२.१०५.४७पश्य तेषां कृपणतां पश्य तेषामबुद्धिताम्
अध्रुवे जीविते मोहादर्थतृष्णामुपाश्रिताः
१२.१०५.४८संचये च विनाशान्ते मरणान्ते च जीविते
संयोगे विप्रयोगान्ते को नु विप्रणयेन्मनः
१२.१०५.४९धनं वा पुरुषं राजन्पुरुषो वा पुनर्धनम्
अवश्यं प्रजहात्येतत्तद्विद्वान्कोऽनुसंज्वरेत्
१२.१०५.५०अन्येषामपि नश्यन्ति सुहृदश्च धनानि च
पश्य बुद्ध्या मनुष्याणां राजन्नापदमात्मनः
नियच्छ यच्छ संयच्छ इन्द्रियाणि मनो गिरम्
१२.१०५.५१प्रतिषिद्धानवाप्येषु दुर्लभेष्वहितेषु च
प्रतिकृष्टेषु भावेषु व्यतिकृष्टेष्वसंभवे
प्रज्ञानतृप्तो विक्रान्तस्त्वद्विधो नानुशोचति
१२.१०५.५२अल्पमिच्छन्नचपलो मृदुर्दान्तः सुसंशितः
ब्रह्मचर्योपपन्नश्च त्वद्विधो नैव मुह्यति
१२.१०५.५३न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि
नृशंसवृत्तिं पापिष्ठां दुःखां कापुरुषोचिताम्
१२.१०५.५४अपि मूलफलाजीवो रमस्वैको महावने
वाग्यतः संगृहीतात्मा सर्वभूतदयान्वितः
१२.१०५.५५सदृशं पण्डितस्यैतदीषादन्तेन दन्तिना
यदेको रमतेऽरण्ये यच्चाप्यल्पेन तुष्यति
१२.१०५.५६महाह्रदः संक्षुभित आत्मनैव प्रसीदति
एतदेवंगतस्याहं सुखं पश्यामि केवलम्
१२.१०५.५७असंभवे श्रियो राजन्हीनस्य सचिवादिभिः
दैवे प्रतिनिविष्टे च किं श्रेयो मन्यते भवान्