१२.१०६.१मुनिरुवाच
१२.१०६.२अथ चेत्पौरुषं किंचित्क्षत्रियात्मनि पश्यसि
ब्रवीमि हन्त ते नीतिं राज्यस्य प्रतिपत्तये
१२.१०६.३तां चेच्छक्ष्यस्यनुष्ठातुं कर्म चैव करिष्यसि
शृणु सर्वमशेषेण यत्त्वां वक्ष्यामि तत्त्वतः
१२.१०६.४आचरिष्यसि चेत्कर्म महतोऽर्थानवाप्स्यसि
राज्यं राज्यस्य मन्त्रं वा महतीं वा पुनः श्रियम्
यद्येतद्रोचते राजन्पुनर्ब्रूहि ब्रवीमि ते
१२.१०६.५राजपुत्र उवाच
१२.१०६.६ब्रवीतु भगवान्नीतिमुपपन्नोऽस्म्यहं प्रभो
अमोघमिदमद्यास्तु त्वया सह समागतम्
१२.१०६.७मुनिरुवाच
१२.१०६.८हित्वा स्तम्भं च मानं च क्रोधहर्षौ भयं तथा
प्रत्यमित्रं निषेवस्व प्रणिपत्य कृताञ्जलिः
१२.१०६.९तमुत्तमेन शौचेन कर्मणा चाभिराधय
दातुमर्हति ते वृत्तिं वैदेहः सत्यसंगरः
१२.१०६.१०प्रमाणं सर्वभूतेषु प्रग्रहं च गमिष्यसि
ततः सहायान्सोत्साहाँल्लप्स्यसेऽव्यसनाञ्शुचीन्
१२.१०६.११वर्तमानः स्वशास्त्रे वै संयतात्मा जितेन्द्रियः
अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः
१२.१०६.१२तेनैव त्वं धृतिमता श्रीमता चाभिसत्कृतः
प्रमाणं सर्वभूतेषु गत्वा प्रग्रहणं महत्
१२.१०६.१३ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम्
अन्तरैर्भेदयित्वारीन्बिल्वं बिल्वेन शातय
परैर्वा संविदं कृत्वा बलमप्यस्य घातय
१२.१०६.१४अलभ्या ये शुभा भावाः स्त्रियश्चाच्छादनानि च
शय्यासनानि यानानि महार्हाणि गृहाणि च
१२.१०६.१५पक्षिणो मृगजातानि रसा गन्धाः फलानि च
तेष्वेव सज्जयेथास्त्वं यथा नश्येत्स्वयं परः
१२.१०६.१६यद्येव प्रतिषेद्धव्यो यद्युपेक्षणमर्हति
न जातु विवृतः कार्यः शत्रुर्विनयमिच्छता
१२.१०६.१७वसस्व परमामित्रविषये प्राज्ञसंमते
भजस्व श्वेतकाकीयैर्मित्राधममनर्थकैः
१२.१०६.१८आरम्भांश्चास्य महतो दुष्करांस्त्वं प्रयोजय
नदीबन्धविरोधांश्च बलवद्भिर्विरुध्यताम्
१२.१०६.१९उद्यानानि महार्हाणि शयनान्यासनानि च
प्रतिभोगसुखेनैव कोशमस्य विरेचय
१२.१०६.२०यज्ञदानप्रशंसास्मै ब्राह्मणेष्वनुवर्ण्यताम्
ते त्वत्प्रियं करिष्यन्ति तं चेष्यन्ति वृका इव
१२.१०६.२१असंशयं पुण्यशीलः प्राप्नोति परमां गतिम्
त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति पार्थिवः
कोशक्षये त्वमित्राणां वशं कौसल्य गच्छति
१२.१०६.२२उभयत्र प्रसक्तस्य धर्मे चाधर्म एव च
बलार्थमूलं व्युच्छिद्येत्तेन नन्दन्ति शत्रवः
१२.१०६.२३निन्द्यास्य मानुषं कर्म दैवमस्योपवर्णय
असंशयं दैवपरः क्षिप्रमेव विनश्यति
१२.१०६.२४याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम्
ततो गच्छत्वसिद्धार्थः पीड्यमानो महाजनम्
१२.१०६.२५त्यागधर्मविदं मुण्डं कंचिदस्योपवर्णय
अपि त्यागं बुभूषेत कच्चिद्गच्छेदनामयम्
१२.१०६.२६सिद्धेनौषधयोगेन सर्वशत्रुविनाशिना
नागानश्वान्मनुष्यांश्च कृतकैरुपघातय
१२.१०६.२७एते चान्ये च बहवो दम्भयोगाः सुनिश्चिताः
शक्या विषहता कर्तुं नक्लीबेन नृपात्मज