१२. शान्तिपर्व
१२.१०८.१युधिष्ठिर उवाच

१२.१०८.२ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप
धर्मो वृत्तं च वृत्तिश्च वृत्त्युपायफलानि च

१२.१०८.३राज्ञां वृत्तं च कोशश्च कोशसंजननं महत्
अमात्यगुणवृद्धिश्च प्रकृतीनां च वर्धनम्

१२.१०८.४षाड्गुण्यगुणकल्पश्च सेनानीतिस्तथैव च
दुष्टस्य च परिज्ञानमदुष्टस्य च लक्षणम्

१२.१०८.५समहीनाधिकानां च यथावल्लक्षणोच्चयः
मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता

१२.१०८.६क्षीणसंग्रहवृत्तिश्च यथावत्संप्रकीर्तिता
लघुनादेशरूपेण ग्रन्थयोगेन भारत

१२.१०८.७विजिगीषोस्तथावृत्तमुक्तं चैव तथैव ते
गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर

१२.१०८.८यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत
अरीन्हि विजिगीषन्ते सुहृदः प्राप्नुवन्ति च

१२.१०८.९भेदमूलो विनाशो हि गणानामुपलभ्यते
मन्त्रसंवरणं दुःखं बहूनामिति मे मतिः

१२.१०८.१०एतदिच्छाम्यहं श्रोतुं निखिलेन परंतप
यथा च ते न भिद्येरंस्तच्च मे ब्रूहि पार्थिव

१२.१०८.११भीष्म उवाच

१२.१०८.१२गणानां च कुलानां च राज्ञां च भरतर्षभ
वैरसंदीपनावेतौ लोभामर्षौ जनाधिप

१२.१०८.१३लोभमेको हि वृणुते ततोऽमर्षमनन्तरम्
तौ क्षयव्ययसंयुक्तावन्योन्यजनिताश्रयौ

१२.१०८.१४चारमन्त्रबलादानैः सामदानविभेदनैः
क्षयव्ययभयोपायैः कर्शयन्तीतरेतरम्

१२.१०८.१५तत्र दानेन भिद्यन्ते गणाः संघातवृत्तयः
भिन्ना विमनसः सर्वे गच्छन्त्यरिवशं भयात्

१२.१०८.१६भेदाद्गणा विनश्यन्ति भिन्नाः सूपजपाः परैः
तस्मात्संघातयोगेषु प्रयतेरन्गणाः सदा

१२.१०८.१७अर्था ह्येवाधिगम्यन्ते संघातबलपौरुषात्
बाह्याश्च मैत्रीं कुर्वन्ति तेषु संघातवृत्तिषु

१२.१०८.१८ज्ञानवृद्धान्प्रशंसन्तः शुश्रूषन्तः परस्परम्
विनिवृत्ताभिसंधानाः सुखमेधन्ति सर्वशः

१२.१०८.१९धर्मिष्ठान्व्यवहारांश्च स्थापयन्तश्च शास्त्रतः
यथावत्संप्रवर्तन्तो विवर्धन्ते गणोत्तमाः

१२.१०८.२०पुत्रान्भ्रातॄन्निगृह्णन्तो विनये च सदा रताः
विनीतांश्च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः

१२.१०८.२१चारमन्त्रविधानेषु कोशसंनिचयेषु च
नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः

१२.१०८.२२प्राज्ञाञ्शूरान्महेष्वासान्कर्मसु स्थिरपौरुषान्
मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप

१२.१०८.२३द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाः शास्त्रपारगाः
कृच्छ्रास्वापत्सु संमूढान्गणानुत्तारयन्ति ते

१२.१०८.२४क्रोधो भेदो भयो दण्डः कर्शनं निग्रहो वधः
नयन्त्यरिवशं सद्यो गणान्भरतसत्तम

१२.१०८.२५तस्मान्मानयितव्यास्ते गणमुख्याः प्रधानतः
लोकयात्रा समायत्ता भूयसी तेषु पार्थिव

१२.१०८.२६मन्त्रगुप्तिः प्रधानेषु चारश्चामित्रकर्शन
न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत

१२.१०८.२७गणमुख्यैस्तु संभूय कार्यं गणहितं मिथः
पृथग्गणस्य भिन्नस्य विमतस्य ततोऽन्यथा
अर्थाः प्रत्यवसीदन्ति तथानर्था भवन्ति च

१२.१०८.२८तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम्
निग्रहः पण्डितैः कार्यः क्षिप्रमेव प्रधानतः

१२.१०८.२९कुलेषु कलहा जाताः कुलवृद्धैरुपेक्षिताः
गोत्रस्य राजन्कुर्वन्ति गणसंभेदकारिकाम्

१२.१०८.३०आभ्यन्तरं भयं रक्ष्यं सुरक्ष्यं बाह्यतो भयम्
अभ्यन्तराद्भयं जातं सद्यो मूलं निकृन्तति

१२.१०८.३१अकस्मात्क्रोधलोभाद्वा मोहाद्वापि स्वभावजात्
अन्योन्यं नाभिभाषन्ते तत्पराभवलक्षणम्

१२.१०८.३२जात्या च सदृशाः सर्वे कुलेन सदृशास्तथा
न तु शौर्येण बुद्ध्या वा रूपद्रव्येण वा पुनः

१२.१०८.३३भेदाच्चैव प्रमादाच्च नाम्यन्ते रिपुभिर्गणाः
तस्मात्संघातमेवाहुर्गणानां शरणं महत्