१२. शान्तिपर्व
१२.१०९.१युधिष्ठिर उवाच

१२.१०९.२महानयं धर्मपथो बहुशाखश्च भारत
किं स्विदेवेह धर्माणामनुष्ठेयतमं मतम्

१२.१०९.३किं कार्यं सर्वधर्माणां गरीयो भवतो मतम्
यथायं पुरुषो धर्ममिह च प्रेत्य चाप्नुयात्

१२.१०९.४भीष्म उवाच

१२.१०९.५मातापित्रोर्गुरूणां च पूजा बहुमता मम
अत्र युक्तो नरो लोकान्यशश्च महदश्नुते

१२.१०९.६यदेते ह्यभिजानीयुः कर्म तात सुपूजिताः
धर्म्यं धर्मविरुद्धं वा तत्कर्तव्यं युधिष्ठिर

१२.१०९.७न तैरनभ्यनुज्ञातो धर्ममन्यं प्रकल्पयेत्
यमेतेऽभ्यनुजानीयुः स धर्म इति निश्चयः

१२.१०९.८एत एव त्रयो लोका एत एवाश्रमास्त्रयः
एत एव त्रयो वेदा एत एव त्रयोऽग्नयः

१२.१०९.९पिता ह्यग्निर्गार्हपत्यो माताग्निर्दक्षिणः स्मृतः
गुरुराहवनीयस्तु साग्नित्रेता गरीयसी

१२.१०९.१०त्रिष्वप्रमाद्यन्नेतेषु त्रीँल्लोकानवजेष्यसि
पितृवृत्त्या त्विमं लोकं मातृवृत्त्या तथापरम्
ब्रह्मलोकं गुरोर्वृत्त्या नित्यमेव चरिष्यसि

१२.१०९.११सम्यगेतेषु वर्तस्व त्रिषु लोकेषु भारत
यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहाफलम्

१२.१०९.१२नैतानतिशयेज्जातु नात्यश्नीयान्न दूषयेत्
नित्यं परिचरेच्चैव तद्वै सुकृतमुत्तमम्
कीर्तिं पुण्यं यशो लोकान्प्राप्स्यसे च जनाधिप

१२.१०९.१३सर्वे तस्यादृता लोका यस्यैते त्रय आदृताः
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः

१२.१०९.१४नैवायं न परो लोकस्तस्य चैव परंतप
अमानिता नित्यमेव यस्यैते गुरवस्त्रयः

१२.१०९.१५न चास्मिन्न परे लोके यशस्तस्य प्रकाशते
न चान्यदपि कल्याणं पारत्रं समुदाहृतम्

१२.१०९.१६तेभ्य एव तु तत्सर्वं कृत्यया विसृजाम्यहम्
तदासीन्मे शतगुणं सहस्रगुणमेव च
तस्मान्मे संप्रकाशन्ते त्रयो लोका युधिष्ठिर

१२.१०९.१७दशैव तु सदाचार्यः श्रोत्रियानतिरिच्यते
दशाचार्यानुपाध्याय उपाध्यायान्पिता दश

१२.१०९.१८पितॄन्दश तु मातैका सर्वां वा पृथिवीमपि
गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः
गुरुर्गरीयान्पितृतो मातृतश्चेति मे मतिः

१२.१०९.१९उभौ हि मातापितरौ जन्मनि व्युपयुज्यतः
शरीरमेतौ सृजतः पिता माता च भारत
आचार्यशिष्टा या जातिः सा दिव्या साजरामरा

१२.१०९.२०अवध्या हि सदा माता पिता चाप्यपकारिणौ
न संदुष्यति तत्कृत्वा न च ते दूषयन्ति तम्
धर्माय यतमानानां विदुर्देवाः सहर्षिभिः

१२.१०९.२१य आवृणोत्यवितथेन कर्णा;वृतं ब्रुवन्नमृतं संप्रयच्छन्
तं वै मन्ये पितरं मातरं च; तस्मै न द्रुह्येत्कृतमस्य जानन्

१२.१०९.२२विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते; प्रत्यासन्नं मनसा कर्मणा वा
यथैव ते गुरुभिर्भावनीया;स्तथा तेषां गुरवोऽप्यर्चनीयाः

१२.१०९.२३तस्मात्पूजयितव्याश्च संविभज्याश्च यत्नतः
गुरवोऽर्चयितव्याश्च पुराणं धर्ममिच्छता

१२.१०९.२४येन प्रीताश्च पितरस्तेन प्रीतः पितामहः
प्रीणाति मातरं येन पृथिवी तेन पूजिता

१२.१०९.२५येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम्
मातृतः पितृतश्चैव तस्मात्पूज्यतमो गुरुः
ऋषयश्च हि देवाश्च प्रीयन्ते पितृभिः सह

१२.१०९.२६न केनचन वृत्तेन ह्यवज्ञेयो गुरुर्भवेत्
न च माता न च पिता तादृशो यादृशो गुरुः

१२.१०९.२७न तेऽवमानमर्हन्ति न च ते दूषयन्ति तम्
गुरूणामेव सत्कारं विदुर्देवाः सहर्षिभिः

१२.१०९.२८उपाध्यायं पितरं मातरं च; येऽभिद्रुह्यन्ति मनसा कर्मणा वा
तेषां पापं भ्रूणहत्याविशिष्टं; तस्मान्नान्यः पापकृदस्ति लोके

१२.१०९.२९मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च
चतुर्णां वयमेतेषां निष्कृतिं नानुशुश्रुमः

१२.१०९.३०एतत्सर्वमतिदेशेन सृष्टं; यत्कर्तव्यं पुरुषेणेह लोके
एतच्छ्रेयो नान्यदस्माद्विशिष्टं; सर्वान्धर्माननुसृत्यैतदुक्तम्