१२.११८.१भीष्म उवाच
१२.११८.२स श्वा प्रकृतिमापन्नः परं दैन्यमुपागमत्
ऋषिणा हुंकृतः पापस्तपोवनबहिष्कृतः
१२.११८.३एवं राज्ञा मतिमता विदित्वा शीलशौचताम्
आर्जवं प्रकृतिं सत्त्वं कुलं वृत्तं श्रुतं दमम्
१२.११८.४अनुक्रोशं बलं वीर्यं भावं संप्रशमं क्षमाम्
भृत्या ये यत्र योग्याः स्युस्तत्र स्थाप्याः सुशिक्षिताः
१२.११८.५नापरीक्ष्य महीपालः प्रकर्तुं भृत्यमर्हति
अकुलीननराकीर्णो न राजा सुखमेधते
१२.११८.६कुलजः प्रकृतो राज्ञा तत्कुलीनतया सदा
न पापे कुरुते बुद्धिं निन्द्यमानोऽप्यनागसि
१२.११८.७अकुलीनस्तु पुरुषः प्रकृतः साधुसंक्षयात्
दुर्लभैश्वर्यतां प्राप्तो निन्दितः शत्रुतां व्रजेत्
१२.११८.८कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानकोविदम्
सर्वशास्त्रार्थतत्त्वज्ञं सहिष्णुं देशजं तथा
१२.११८.९कृतज्ञं बलवन्तं च क्षान्तं दान्तं जितेन्द्रियम्
अलुब्धं लब्धसंतुष्टं स्वामिमित्रबुभूषकम्
१२.११८.१०सचिवं देशकालज्ञं सर्वसंग्रहणे रतम्
सत्कृतं युक्तमनसं हितैषिणमतन्द्रितम्
१२.११८.११युक्ताचारं स्वविषये संधिविग्रहकोविदम्
राज्ञस्त्रिवर्गवेत्तारं पौरजानपदप्रियम्
१२.११८.१२खातकव्यूहतत्त्वज्ञं बलहर्षणकोविदम्
इङ्गिताकारतत्त्वज्ञं यात्रायानविशारदम्
१२.११८.१३हस्तिशिक्षासु तत्त्वज्ञमहंकारविवर्जितम्
प्रगल्भं दक्षिणं दान्तं बलिनं युक्तकारिणम्
१२.११८.१४चोक्षं चोक्षजनाकीर्णं सुवेषं सुखदर्शनम्
नायकं नीतिकुशलं गुणषष्ट्या समन्वितम्
१२.११८.१५अस्तब्धं प्रश्रितं शक्तं मृदुवादिनमेव च
धीरं श्लक्ष्णं महर्द्धिं च देशकालोपपादकम्
१२.११८.१६सचिवं यः प्रकुरुते न चैनमवमन्यते
तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव
१२.११८.१७एतैरेव गुणैर्युक्तो राजा शास्त्रविशारदः
एष्टव्यो धर्मपरमः प्रजापालनतत्परः
१२.११८.१८धीरो मर्षी शुचिः शीघ्रः काले पुरुषकारवित्
शुश्रूषुः श्रुतवाञ्श्रोता ऊहापोहविशारदः
१२.११८.१९मेधावी धारणायुक्तो यथान्यायोपपादकः
दान्तः सदा प्रियाभाषी क्षमावांश्च विपर्यये
१२.११८.२०दानाच्छेदे स्वयंकारी सुद्वारः सुखदर्शनः
आर्तहस्तप्रदो नित्यमाप्तंमन्यो नये रतः
१२.११८.२१नाहंवादी न निर्द्वंद्वो न यत्किंचनकारकः
कृते कर्मण्यमोघानां कर्ता भृत्यजनप्रियः
१२.११८.२२संगृहीतजनोऽस्तब्धः प्रसन्नवदनः सदा
दाता भृत्यजनावेक्षी न क्रोधी सुमहामनाः
१२.११८.२३युक्तदण्डो न निर्दण्डो धर्मकार्यानुशासकः
चारनेत्रः परावेक्षी धर्मार्थकुशलः सदा
१२.११८.२४राजा गुणशताकीर्ण एष्टव्यस्तादृशो भवेत्
योधाश्चैव मनुष्येन्द्र सर्वैर्गुणगुणैर्वृताः
१२.११८.२५अन्वेष्टव्याः सुपुरुषाः सहाया राज्यधारणाः
न विमानयितव्याश्च राज्ञा वृद्धिमभीप्सता
१२.११८.२६योधाः समरशौटीराः कृतज्ञाः शस्त्रकोविदाः
धर्मशास्त्रसमायुक्ताः पदातिजनसंयुताः
१२.११८.२७अर्थमानविवृद्धाश्च रथचर्याविशारदाः
इष्वस्त्रकुशला यस्य तस्येयं नृपतेर्मही
१२.११८.२८सर्वसंग्रहणे युक्तो नृपो भवति यः सदा
उत्थानशीलो मित्राढ्यः स राजा राजसत्तमः
१२.११८.२९शक्या अश्वसहस्रेण वीरारोहेण भारत
संगृहीतमनुष्येण कृत्स्ना जेतुं वसुंधरा