१२.११७.१भीष्म उवाच
१२.११७.२अत्राप्युदाहरन्तीममितिहासं पुरातनम्
निदर्शनकरं लोके सज्जनाचरितं सदा
१२.११७.३अस्यैवार्थस्य सदृशं यच्छ्रुतं मे तपोवने
जामदग्न्यस्य रामस्य यदुक्तमृषिसत्तमैः
१२.११७.४वने महति कस्मिंश्चिदमनुष्यनिषेविते
ऋषिर्मूलफलाहारो नियतो नियतेन्द्रियः
१२.११७.५दीक्षादमपरः शान्तः स्वाध्यायपरमः शुचिः
उपवासविशुद्धात्मा सततं सत्पथे स्थितः
१२.११७.६तस्य संदृश्य सद्भावमुपविष्टस्य धीमतः
सर्वसत्त्वाः समीपस्था भवन्ति वनचारिणः
१२.११७.७सिंहव्याघ्राः सशरभा मत्ताश्चैव महागजाः
द्वीपिनः खड्गभल्लूका ये चान्ये भीमदर्शनाः
१२.११७.८ते सुखप्रश्नदाः सर्वे भवन्ति क्षतजाशनाः
तस्यर्षेः शिष्यवच्चैव न्यग्भूताः प्रियकारिणः
१२.११७.९दत्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथागतम्
ग्राम्यस्त्वेकः पशुस्तत्र नाजहाच्छ्वा महामुनिम्
१२.११७.१०भक्तोऽनुरक्तः सततमुपवासकृशोऽबलः
फलमूलोत्कराहारः शान्तः शिष्टाकृतिर्यथा
१२.११७.११तस्यर्षेरुपविष्टस्य पादमूले महामुनेः
मनुष्यवद्गतो भावः स्नेहबद्धोऽभवद्भृशम्
१२.११७.१२ततोऽभ्ययान्महावीर्यो द्वीपी क्षतजभोजनः
श्वार्थमत्यन्तसंदुष्टः क्रूरः काल इवान्तकः
१२.११७.१३लेलिह्यमानस्तृषितः पुच्छास्फोटनतत्परः
व्यादितास्यः क्षुधाभग्नः प्रार्थयानस्तदामिषम्
१२.११७.१४तं दृष्ट्वा क्रूरमायान्तं जीवितार्थी नराधिप
प्रोवाच श्वा मुनिं तत्र यत्तच्छृणु महामते
१२.११७.१५श्वशत्रुर्भगवन्नत्र द्वीपी मां हन्तुमिच्छति
त्वत्प्रसादाद्भयं न स्यात्तस्मान्मम महामुने
१२.११७.१६मुनिरुवाच
१२.११७.१७न भयं द्वीपिनः कार्यं मृत्युतस्ते कथंचन
एष श्वरूपरहितो द्वीपी भवसि पुत्रक
१२.११७.१८भीष्म उवाच
१२.११७.१९ततः श्वा द्वीपितां नीतो जाम्बूनदनिभाकृतिः
चित्राङ्गो विस्फुरन्हृष्टो वने वसति निर्भयः
१२.११७.२०ततोऽभ्ययान्महारौद्रो व्यादितास्यः क्षुधान्वितः
द्वीपिनं लेलिहद्वक्त्रो व्याघ्रो रुधिरलालसः
१२.११७.२१व्याघ्रं दृष्ट्वा क्षुधाभग्नं दंष्ट्रिणं वनगोचरम्
द्वीपी जीवितरक्षार्थमृषिं शरणमेयिवान्
१२.११७.२२ततः संवासजं स्नेहमृषिणा कुर्वता सदा
स द्वीपी व्याघ्रतां नीतो रिपुभिर्बलवत्तरः
ततो दृष्ट्वा स शार्दूलो नाभ्यहंस्तं विशां पते
१२.११७.२३स तु श्वा व्याघ्रतां प्राप्य बलवान्पिशिताशनः
न मूलफलभोगेषु स्पृहामप्यकरोत्तदा
१२.११७.२४यथा मृगपतिर्नित्यं प्रकाङ्क्षति वनौकसः
तथैव स महाराज व्याघ्रः समभवत्तदा
१२.११७.२५व्याघ्रस्तूटजमूलस्थस्तृप्तः सुप्तो हतैर्मृगैः
नागश्चागात्तमुद्देशं मत्तो मेघ इवोत्थितः
१२.११७.२६प्रभिन्नकरटः प्रांशुः पद्मी विततमस्तकः
सुविषाणो महाकायो मेघगम्भीरनिस्वनः
१२.११७.२७तं दृष्ट्वा कुञ्जरं मत्तमायान्तं मदगर्वितम्
व्याघ्रो हस्तिभयात्त्रस्तस्तमृषिं शरणं ययौ
१२.११७.२८ततोऽनयत्कुञ्जरतां तं व्याघ्रमृषिसत्तमः
महामेघोपमं दृष्ट्वा तं स भीतोऽभवद्गजः
१२.११७.२९ततः कमलषण्डानि शल्लकीगहनानि च
व्यचरत्स मुदा युक्तः पद्मरेणुविभूषितः
१२.११७.३०कदाचिद्रममाणस्य हस्तिनः सुमुखं तदा
ऋषेस्तस्योटजस्थस्य कालोऽगच्छन्निशानिशम्
१२.११७.३१अथाजगाम तं देशं केसरी केसरारुणः
गिरिकन्दरजो भीमः सिंहो नागकुलान्तकः
१२.११७.३२तं दृष्ट्वा सिंहमायान्तं नागः सिंहभयाकुलः
ऋषिं शरणमापेदे वेपमानो भयातुरः
१२.११७.३३ततः स सिंहतां नीतो नागेन्द्रो मुनिना तदा
वन्यं नागणयत्सिंहं तुल्यजातिसमन्वयात्
१२.११७.३४दृष्ट्वा च सोऽनशत्सिंहो वन्यो भीसन्नवाग्बलः
स चाश्रमेऽवसत्सिंहस्तस्मिन्नेव वने सुखी
१२.११७.३५न त्वन्ये क्षुद्रपशवस्तपोवननिवासिनः
व्यदृश्यन्त भयत्रस्ता जीविताकाङ्क्षिणः सदा
१२.११७.३६कदाचित्कालयोगेन सर्वप्राणिविहिंसकः
बलवान्क्षतजाहारो नानासत्त्वभयंकरः
१२.११७.३७अष्टपादूर्ध्वचरणः शरभो वनगोचरः
तं सिंहं हन्तुमागच्छन्मुनेस्तस्य निवेशनम्
१२.११७.३८तं मुनिः शरभं चक्रे बलोत्कटमरिंदम
ततः स शरभो वन्यो मुनेः शरभमग्रतः
दृष्ट्वा बलिनमत्युग्रं द्रुतं संप्राद्रवद्भयात्
१२.११७.३९स एवं शरभस्थाने न्यस्तो वै मुनिना तदा
मुनेः पार्श्वगतो नित्यं शारभ्यं सुखमाप्तवान्
१२.११७.४०ततः शरभसंत्रस्ताः सर्वे मृगगणा वनात्
दिशः संप्राद्रवन्राजन्भयाज्जीवितकाङ्क्षिणः
१२.११७.४१शरभोऽप्यतिसंदुष्टो नित्यं प्राणिवधे रतः
फलमूलाशनं शान्तं नैच्छत्स पिशिताशनः
१२.११७.४२ततो रुधिरतर्षेण बलिना शरभोऽन्वितः
इयेष तं मुनिं हन्तुमकृतज्ञः श्वयोनिजः
१२.११७.४३ततस्तेन तपःशक्त्या विदितो ज्ञानचक्षुषा
विज्ञाय च महाप्राज्ञो मुनिः श्वानं तमुक्तवान्
१२.११७.४४श्वा त्वं द्वीपित्वमापन्नो द्वीपी व्याघ्रत्वमागतः
व्याघ्रो नागो मदपटुर्नागः सिंहत्वमाप्तवान्
१२.११७.४५सिंहोऽतिबलसंयुक्तो भूयः शरभतां गतः
मया स्नेहपरीतेन न विमृष्टः कुलान्वयः
१२.११७.४६यस्मादेवमपापं मां पाप हिंसितुमिच्छसि
तस्मात्स्वयोनिमापन्नः श्वैव त्वं हि भविष्यसि
१२.११७.४७ततो मुनिजनद्वेषाद्दुष्टात्मा श्वाकृतोऽबुधः
ऋषिणा शरभः शप्तः स्वं रूपं पुनराप्तवान्