१२.१२०.१युधिष्ठिर उवाच
१२.१२०.२राजवृत्तान्यनेकानि त्वया प्रोक्तानि भारत
पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः
१२.१२०.३तदेव विस्तरेणोक्तं पूर्वैर्दृष्टं सतां मतम्
प्रणयं राजधर्माणां प्रब्रूहि भरतर्षभ
१२.१२०.४भीष्म उवाच
१२.१२०.५रक्षणं सर्वभूतानामिति क्षत्रे परं मतम्
तद्यथा रक्षणं कुर्यात्तथा शृणु महीपते
१२.१२०.६यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः
तथा बहुविधं राजा रूपं कुर्वीत धर्मवित्
१२.१२०.७तैक्ष्ण्यं जिह्मत्वमादान्त्यं सत्यमार्जवमेव च
मध्यस्थः सत्त्वमातिष्ठंस्तथा वै सुखमृच्छति
१२.१२०.८यस्मिन्नर्थे हितं यत्स्यात्तद्वर्णं रूपमाविशेत्
बहुरूपस्य राज्ञो हि सूक्ष्मोऽप्यर्थो न सीदति
१२.१२०.९नित्यं रक्षितमन्त्रः स्याद्यथा मूकः शरच्छिखी
श्लक्ष्णाक्षरतनुः श्रीमान्भवेच्छास्त्रविशारदः
१२.१२०.१०आपद्द्वारेषु यत्तः स्याज्जलप्रस्रवणेष्विव
शैलवर्षोदकानीव द्विजान्सिद्धान्समाश्रयेत्
१२.१२०.११अर्थकामः शिखां राजा कुर्याद्धर्मध्वजोपमाम्
नित्यमुद्यतदण्डः स्यादाचरेच्चाप्रमादतः
लोके चायव्ययौ दृष्ट्वा वृक्षाद्वृक्षमिवाप्लवन्
१२.१२०.१२मृजावान्स्यात्स्वयूथ्येषु भावानि चरणैः क्षिपेत्
जातपक्षः परिस्पन्देद्रक्षेद्वैकल्यमात्मनः
१२.१२०.१३दोषान्विवृणुयाच्छत्रोः परपक्षान्विधूनयेत्
काननेष्विव पुष्पाणि बर्हीवार्थान्समाचरेत्
१२.१२०.१४उच्छ्रितानाश्रयेत्स्फीतान्नरेन्द्रानचलोपमान्
श्रयेच्छायामविज्ञातां गुप्तं शरणमाश्रयेत्
१२.१२०.१५प्रावृषीवासितग्रीवो मज्जेत निशि निर्जने
मायूरेण गुणेनैव स्त्रीभिश्चालक्षितश्चरेत्
न जह्याच्च तनुत्राणं रक्षेदात्मानमात्मना
१२.१२०.१६चारभूमिष्वभिगमान्पाशांश्च परिवर्जयेत्
पीडयेच्चापि तां भूमिं प्रणश्येद्गहने पुनः
१२.१२०.१७हन्यात्क्रुद्धानतिविषान्ये जिह्मगतयोऽहितान्
नाश्रयेद्बालबर्हाणि सन्निवासानि वासयेत्
१२.१२०.१८सदा बर्हिनिभः कामं प्रसक्तिकृतमाचरेत्
सर्वतश्चाददेत्प्रज्ञां पतंगान्गहनेष्विव
एवं मयूरवद्राजा स्वराष्ट्रं परिपालयेत्
१२.१२०.१९आत्मवृद्धिकरीं नीतिं विदधीत विचक्षणः
आत्मसंयमनं बुद्ध्या परबुद्ध्यावतारणम्
बुद्ध्या चात्मगुणप्राप्तिरेतच्छास्त्रनिदर्शनम्
१२.१२०.२०परं चाश्वासयेत्साम्ना स्वशक्तिं चोपलक्षयेत्
आत्मनः परिमर्शेन बुद्धिं बुद्ध्या विचारयेत्
सान्त्वयोगमतिः प्राज्ञः कार्याकार्यविचारकः
१२.१२०.२१निगूढबुद्धिर्धीरः स्याद्वक्तव्ये वक्ष्यते तथा
संनिकृष्टां कथां प्राज्ञो यदि बुद्ध्या बृहस्पतिः
स्वभावमेष्यते तप्तं कृष्णायसमिवोदके
१२.१२०.२२अनुयुञ्जीत कृत्यानि सर्वाण्येव महीपतिः
आगमैरुपदिष्टानि स्वस्य चैव परस्य च
१२.१२०.२३क्षुद्रं क्रूरं तथा प्राज्ञं शूरं चार्थविशारदम्
स्वकर्मणि नियुञ्जीत ये चान्ये वचनाधिकाः
१२.१२०.२४अप्यदृष्ट्वा नियुक्तानि अनुरूपेषु कर्मसु
सर्वांस्ताननुवर्तेत स्वरांस्तन्त्रीरिवायता
१२.१२०.२५धर्माणामविरोधेन सर्वेषां प्रियमाचरेत्
ममायमिति राजा यः स पर्वत इवाचलः
१२.१२०.२६व्यवसायं समाधाय सूर्यो रश्मिमिवायताम्
धर्ममेवाभिरक्षेत कृत्वा तुल्ये प्रियाप्रिये
१२.१२०.२७कुलप्रकृतिदेशानां धर्मज्ञान्मृदुभाषिणः
मध्ये वयसि निर्दोषान्हिते युक्ताञ्जितेन्द्रियान्
१२.१२०.२८अलुब्धाञ्शिक्षितान्दान्तान्धर्मेषु परिनिष्ठितान्
स्थापयेत्सर्वकार्येषु राजा धर्मार्थरक्षिणः
१२.१२०.२९एतेनैव प्रकारेण कृत्यानामागतिं गतिम्
युक्तः समनुतिष्ठेत तुष्टश्चारैरुपस्कृतः
१२.१२०.३०अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः
आत्मप्रत्ययकोशस्य वसुधैव वसुंधरा
१२.१२०.३१व्यक्तश्चानुग्रहो यस्य यथार्थश्चापि निग्रहः
गुप्तात्मा गुप्तराष्ट्रश्च स राजा राजधर्मवित्
१२.१२०.३२नित्यं राष्ट्रमवेक्षेत गोभिः सूर्य इवोत्पतन्
चारांश्च नचरान्विद्यात्तथा बुद्ध्या न संज्वरेत्
१२.१२०.३३कालप्राप्तमुपादद्यान्नार्थं राजा प्रसूचयेत्
अहन्यहनि संदुह्यान्महीं गामिव बुद्धिमान्
१२.१२०.३४यथा क्रमेण पुष्पेभ्यश्चिनोति मधु षट्पदः
तथा द्रव्यमुपादाय राजा कुर्वीत संचयम्
१२.१२०.३५यद्धि गुप्तावशिष्टं स्यात्तद्धितं धर्मकामयोः
संचयानुविसर्गी स्याद्राजा शास्त्रविदात्मवान्
१२.१२०.३६नाल्पमर्थं परिभवेन्नावमन्येत शात्रवान्
बुद्ध्यावबुध्येदात्मानं न चाबुद्धिषु विश्वसेत्
१२.१२०.३७धृतिर्दाक्ष्यं संयमो बुद्धिरग्र्या; धैर्यं शौर्यं देशकालोऽप्रमादः
स्वल्पस्य वा महतो वापि वृद्धौ; धनस्यैतान्यष्ट समिन्धनानि
१२.१२०.३८अग्निस्तोको वर्धते ह्याज्यसिक्तो; बीजं चैकं बहुसाहस्रमेति
क्षयोदयौ विपुलौ संनिशाम्य; तस्मादल्पं नावमन्येत विद्वान्
१२.१२०.३९बालोऽबालः स्थविरो वा रिपुर्यः; सदा प्रमत्तं पुरुषं निहन्यात्
कालेनान्यस्तस्य मूलं हरेत; कालज्ञाता पार्थिवानां वरिष्ठः
१२.१२०.४०हरेत्कीर्तिं धर्ममस्योपरुन्ध्या;दर्थे दीर्घं वीर्यमस्योपहन्यात्
रिपुर्द्वेष्टा दुर्बलो वा बली वा; तस्माच्छत्रौ नैव हेडेद्यतात्मा
१२.१२०.४१क्षयं शत्रोः संचयं पालनं चा;प्युभौ चार्थौ सहितौ धर्मकामौ
अतश्चान्यन्मतिमान्संदधीत; तस्माद्राजा बुद्धिमन्तं श्रयेत
१२.१२०.४२बुद्धिर्दीप्ता बलवन्तं हिनस्ति; बलं बुद्ध्या वर्धते पाल्यमानम्
शत्रुर्बुद्ध्या सीदते वर्धमानो; बुद्धेः पश्चात्कर्म यत्तत्प्रशस्तम्
१२.१२०.४३सर्वान्कामान्कामयानो हि धीरः; सत्त्वेनाल्पेनाप्लुते हीनदेहः
यथात्मानं प्रार्थयतेऽर्थमानैः; श्रेयःपात्रं पूरयते ह्यनल्पम्
१२.१२०.४४तस्माद्राजा प्रगृहीतः परेषु; मूलं लक्ष्म्याः सर्वतोऽभ्याददीत
दीर्घं कालमपि संपीड्यमानो; विद्युत्संपातमिव मानोर्जितः स्यात्
१२.१२०.४५विद्या तपो वा विपुलं धनं वा; सर्वमेतद्व्यवसायेन शक्यम्
ब्रह्म यत्तं निवसति देहवत्सु; तस्माद्विद्याद्व्यवसायं प्रभूतम्
१२.१२०.४६यत्रासते मतिमन्तो मनस्विनः; शक्रो विष्णुर्यत्र सरस्वती च
वसन्ति भूतानि च यत्र नित्यं; तस्माद्विद्वान्नावमन्येत देहम्
१२.१२०.४७लुब्धं हन्यात्संप्रदानेन नित्यं; लुब्धस्तृप्तिं परवित्तस्य नैति
सर्वो लुब्धः कर्मगुणोपभोगे; योऽर्थैर्हीनो धर्मकामौ जहाति
१२.१२०.४८धनं भोज्यं पुत्रदारं समृद्धिं; सर्वो लुब्धः प्रार्थयते परेषाम्
लुब्धे दोषाः संभवन्तीह सर्वे; तस्माद्राजा न प्रगृह्णीत लुब्धान्
१२.१२०.४९संदर्शने सत्पुरुषं जघन्यमपि चोदयेत्
आरम्भान्द्विषतां प्राज्ञः सर्वानर्थांस्तु सूदयेत्
१२.१२०.५०धर्मान्वितेषु विज्ञातो मन्त्री गुप्तश्च पाण्डव
आप्तो राजन्कुलीनश्च पर्याप्तो राज्यसंग्रहे
१२.१२०.५१विधिप्रवृत्तान्नरदेवधर्मा;नुक्तान्समासेन निबोध बुद्ध्या
इमान्विदध्याद्व्यनुसृत्य यो वै; राजा महीं पालयितुं स शक्तः
१२.१२०.५२अनीतिजं यद्यविधानजं सुखं; हठप्रणीतं विविधं प्रदृश्यते
न विद्यते तस्य गतिर्महीपते;र्न विद्यते राष्ट्रजमुत्तमं सुखम्
१२.१२०.५३धनैर्विशिष्टान्मतिशीलपूजिता;न्गुणोपपन्नान्युधि दृष्टविक्रमान्
गुणेषु दृष्टानचिरादिहात्मवा;न्सतोऽभिसंधाय निहन्ति शात्रवान्
१२.१२०.५४पश्येदुपायान्विविधैः क्रियापथै;र्न चानुपायेन मतिं निवेशयेत्
श्रियं विशिष्टां विपुलं यशो धनं; न दोषदर्शी पुरुषः समश्नुते
१२.१२०.५५प्रीतिप्रवृत्तौ विनिवर्तने तथा; सुहृत्सु विज्ञाय निवृत्य चोभयोः
यदेव मित्रं गुरुभारमावहे;त्तदेव सुस्निग्धमुदाहरेद्बुधः
१२.१२०.५६एतान्मयोक्तांस्तव राजधर्मा;न्नृणां च गुप्तौ मतिमादधत्स्व
अवाप्स्यसे पुण्यफलं सुखेन; सर्वो हि लोकोत्तमधर्ममूलः