१२.१२२.१भीष्म उवाच
१२.१२२.२अत्राप्युदाहरन्तीममितिहासं पुरातनम्
अङ्गेषु राजा द्युतिमान्वसुहोम इति श्रुतः
१२.१२२.३स राजा धर्मनित्यः सन्सह पत्न्या महातपाः
मुञ्जपृष्ठं जगामाथ देवर्षिगणपूजितम्
१२.१२२.४तत्र शृङ्गे हिमवतो मेरौ कनकपर्वते
यत्र मुञ्जवटे रामो जटाहरणमादिशत्
१२.१२२.५तदाप्रभृति राजेन्द्र ऋषिभिः संशितव्रतैः
मुञ्जपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः
१२.१२२.६स तत्र बहुभिर्युक्तः सदा श्रुतिमयैर्गुणैः
ब्राह्मणानामनुमतो देवर्षिसदृशोऽभवत्
१२.१२२.७तं कदाचिददीनात्मा सखा शक्रस्य मानितः
अभ्यागच्छन्महीपालो मान्धाता शत्रुकर्शनः
१२.१२२.८सोऽभिसृत्य तु मान्धाता वसुहोमं नराधिपम्
दृष्ट्वा प्रकृष्टं तपसा विनयेनाभ्यतिष्ठत
१२.१२२.९वसुहोमोऽपि राज्ञो वै गामर्घ्यं च न्यवेदयत्
अष्टाङ्गस्य च राज्यस्य पप्रच्छ कुशलं तदा
१२.१२२.१०सद्भिराचरितं पूर्वं यथावदनुयायिनम्
अपृच्छद्वसुहोमस्तं राजन्किं करवाणि ते
१२.१२२.११सोऽब्रवीत्परमप्रीतो मान्धाता राजसत्तमम्
वसुहोमं महाप्राज्ञमासीनं कुरुनन्दन
१२.१२२.१२बृहस्पतेर्मतं राजन्नधीतं सकलं त्वया
तथैवौशनसं शास्त्रं विज्ञातं ते नराधिप
१२.१२२.१३तदहं श्रोतुमिच्छामि दण्ड उत्पद्यते कथम्
किं वापि पूर्वं जागर्ति किं वा परममुच्यते
१२.१२२.१४कथं क्षत्रियसंस्थश्च दण्डः संप्रत्यवस्थितः
ब्रूहि मे सुमहाप्राज्ञ ददाम्याचार्यवेतनम्
१२.१२२.१५वसुहोम उवाच
१२.१२२.१६शृणु राजन्यथा दण्डः संभूतो लोकसंग्रहः
प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः
१२.१२२.१७ब्रह्मा यियक्षुर्भगवान्सर्वलोकपितामहः
ऋत्विजं नात्मना तुल्यं ददर्शेति हि नः श्रुतम्
१२.१२२.१८स गर्भं शिरसा देवो वर्षपूगानधारयत्
पूर्णे वर्षसहस्रे तु स गर्भः क्षुवतोऽपतत्
१२.१२२.१९स क्षुपो नाम संभूतः प्रजापतिररिंदम
ऋत्विगासीत्तदा राजन्यज्ञे तस्य महात्मनः
१२.१२२.२०तस्मिन्प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ
हृष्टरूपप्रचारत्वाद्दण्डः सोऽन्तर्हितोऽभवत्
१२.१२२.२१तस्मिन्नन्तर्हिते चाथ प्रजानां संकरोऽभवत्
नैव कार्यं न चाकार्यं भोज्याभोज्यं न विद्यते
१२.१२२.२२पेयापेयं कुतः सिद्धिर्हिंसन्ति च परस्परम्
गम्यागम्यं तदा नासीत्परस्वं स्वं च वै समम्
१२.१२२.२३परस्परं विलुम्पन्ते सारमेया इवामिषम्
अबलं बलिनो जघ्नुर्निर्मर्यादमवर्तत
१२.१२२.२४ततः पितामहो विष्णुं भगवन्तं सनातनम्
संपूज्य वरदं देवं महादेवमथाब्रवीत्
१२.१२२.२५अत्र साध्वनुकम्पां वै कर्तुमर्हसि केवलम्
संकरो न भवेदत्र यथा वै तद्विधीयताम्
१२.१२२.२६ततः स भगवान्ध्यात्वा चिरं शूलजटाधरः
आत्मानमात्मना दण्डमसृजद्देवसत्तमः
१२.१२२.२७तस्माच्च धर्मचरणां नीतिं देवीं सरस्वतीम्
असृजद्दण्डनीतिः सा त्रिषु लोकेषु विश्रुता
१२.१२२.२८भूयः स भगवान्ध्यात्वा चिरं शूलवरायुधः
तस्य तस्य निकायस्य चकारैकैकमीशरम्
१२.१२२.२९देवानामीश्वरं चक्रे देवं दशशतेक्षणम्
यमं वैवस्वतं चापि पितॄणामकरोत्पतिम्
१२.१२२.३०धनानां रक्षसां चापि कुबेरमपि चेश्वरम्
पर्वतानां पतिं मेरुं सरितां च महोदधिम्
१२.१२२.३१अपां राज्ये सुराणां च विदधे वरुणं प्रभुम्
मृत्युं प्राणेश्वरमथो तेजसां च हुताशनम्
१२.१२२.३२रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुः
महात्मानं महादेवं विशालाक्षं सनातनम्
१२.१२२.३३वसिष्ठमीशं विप्राणां वसूनां जातवेदसम्
तेजसां भास्करं चक्रे नक्षत्राणां निशाकरम्
१२.१२२.३४वीरुधामंशुमन्तं च भूतानां च प्रभुं वरम्
कुमारं द्वादशभुजं स्कन्दं राजानमादिशत्
१२.१२२.३५कालं सर्वेशमकरोत्संहारविनयात्मकम्
मृत्योश्चतुर्विभागस्य दुःखस्य च सुखस्य च
१२.१२२.३६ईश्वरः सर्वदेहस्तु राजराजो धनाधिपः
सर्वेषामेव रुद्राणां शूलपाणिरिति श्रुतिः
१२.१२२.३७तमेकं ब्रह्मणः पुत्रमनुजातं क्षुपं ददौ
प्रजानामधिपं श्रेष्ठं सर्वधर्मभृतामपि
१२.१२२.३८महादेवस्ततस्तस्मिन्वृत्ते यज्ञे यथाविधि
दण्डं धर्मस्य गोप्तारं विष्णवे सत्कृतं ददौ
१२.१२२.३९विष्णुरङ्गिरसे प्रादादङ्गिरा मुनिसत्तमः
प्रादादिन्द्रमरीचिभ्यां मरीचिर्भृगवे ददौ
१२.१२२.४०भृगुर्ददावृषिभ्यस्तु तं दण्डं धर्मसंहितम्
ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च
१२.१२२.४१क्षुपस्तु मनवे प्रादादादित्यतनयाय च
पुत्रेभ्यः श्राद्धदेवस्तु सूक्ष्मधर्मार्थकारणात्
तं ददौ सूर्यपुत्रस्तु मनुर्वै रक्षणात्मकम्
१२.१२२.४२विभज्य दण्डः कर्तव्यो धर्मेण न यदृच्छया
दुर्वाचा निग्रहो बन्धो हिरण्यं बाह्यतःक्रिया
१२.१२२.४३व्यङ्गत्वं च शरीरस्य वधो वा नाल्पकारणात्
शरीरपीडास्तास्तास्तु देहत्यागो विवासनम्
१२.१२२.४४आनुपूर्व्या च दण्डोऽसौ प्रजा जागर्ति पालयन्
इन्द्रो जागर्ति भगवानिन्द्रादग्निर्विभावसुः
१२.१२२.४५अग्नेर्जागर्ति वरुणो वरुणाच्च प्रजापतिः
प्रजापतेस्ततो धर्मो जागर्ति विनयात्मकः
१२.१२२.४६धर्माच्च ब्रह्मणः पुत्रो व्यवसायः सनातनः
व्यवसायात्ततस्तेजो जागर्ति परिपालयन्
१२.१२२.४७ओषध्यस्तेजसस्तस्मादोषधिभ्यश्च पर्वताः
पर्वतेभ्यश्च जागर्ति रसो रसगुणात्तथा
१२.१२२.४८जागर्ति निरृतिर्देवी ज्योतींषि निरृतेरपि
वेदाः प्रतिष्ठा ज्योतिर्भ्यस्ततो हयशिराः प्रभुः
१२.१२२.४९ब्रह्मा पितामहस्तस्माज्जागर्ति प्रभुरव्ययः
पितामहान्महादेवो जागर्ति भगवाञ्शिवः
१२.१२२.५०विश्वेदेवाः शिवाच्चापि विश्वेभ्यश्च तथर्षयः
ऋषिभ्यो भगवान्सोमः सोमाद्देवाः सनातनाः
१२.१२२.५१देवेभ्यो ब्राह्मणा लोके जाग्रतीत्युपधारय
ब्राह्मणेभ्यश्च राजन्या लोकान्रक्षन्ति धर्मतः
स्थावरं जङ्गमं चैव क्षत्रियेभ्यः सनातनम्
१२.१२२.५२प्रजा जाग्रति लोकेऽस्मिन्दण्डो जागर्ति तासु च
सर्वसंक्षेपको दण्डः पितामहसमः प्रभुः
१२.१२२.५३जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत
ईश्वरः सर्वलोकस्य महादेवः प्रजापतिः
१२.१२२.५४देवदेवः शिवः शर्वो जागर्ति सततं प्रभुः
कपर्दी शंकरो रुद्रो भवः स्थाणुरुमापतिः
१२.१२२.५५इत्येष दण्डो विख्यात आदौ मध्ये तथावरे
भूमिपालो यथान्यायं वर्तेतानेन धर्मवित्
१२.१२२.५६भीष्म उवाच
१२.१२२.५७इतीदं वसुहोमस्य शृणुयाद्यो मतं नरः
श्रुत्वा च सम्यग्वर्तेत स कामानाप्नुयान्नृपः
१२.१२२.५८इति ते सर्वमाख्यातं यो दण्डो मनुजर्षभ
नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत