१२. शान्तिपर्व
१२.१२६.१भीष्म उवाच

१२.१२६.२ततस्तेषां समस्तानामृषीणामृषिसत्तमः
ऋषभो नाम विप्रर्षिः स्मयन्निव ततोऽब्रवीत्

१२.१२६.३पुराहं राजशार्दूल तीर्थान्यनुचरन्प्रभो
समासादितवान्दिव्यं नरनारायणाश्रमम्

१२.१२६.४यत्र सा बदरी रम्या ह्रदो वैहायसस्तथा
यत्र चाश्वशिरा राजन्वेदान्पठति शाश्वतान्

१२.१२६.५तस्मिन्सरसि कृत्वाहं विधिवत्तर्पणं पुरा
पितॄणां देवतानां च ततोऽऽश्रममियां तदा

१२.१२६.६रेमाते यत्र तौ नित्यं नरनारायणावृषी
अदूरादाश्रमं कंचिद्वासार्थमगमं ततः

१२.१२६.७ततश्चीराजिनधरं कृशमुच्चमतीव च
अद्राक्षमृषिमायान्तं तनुं नाम तपोनिधिम्

१२.१२६.८अन्यैर्नरैर्महाबाहो वपुषाष्टगुणान्वितम्
कृशता चापि राजर्षे न दृष्टा तादृशी क्वचित्

१२.१२६.९शरीरमपि राजेन्द्र तस्य कानिष्ठिकासमम्
ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः

१२.१२६.१०शिरः कायानुरूपं च कर्णौ नेत्रे तथैव च
तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम

१२.१२६.११दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः
पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः

१२.१२६.१२निवेद्य नाम गोत्रं च पितरं च नरर्षभ
प्रदिष्टे चासने तेन शनैरहमुपाविशम्

१२.१२६.१३ततः स कथयामास कथा धर्मार्थसंहिताः
ऋषिमध्ये महाराज तत्र धर्मभृतां वरः

१२.१२६.१४तस्मिंस्तु कथयत्येव राजा राजीवलोचनः
उपायाज्जवनैरश्वैः सबलः सावरोधनः

१२.१२६.१५स्मरन्पुत्रमरण्ये वै नष्टं परमदुर्मनाः
भूरिद्युम्नपिता धीमान्रघुश्रेष्ठो महायशाः

१२.१२६.१६इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति पार्थिवः
एवमाशाकृतो राजंश्चरन्वनमिदं पुरा

१२.१२६.१७दुर्लभः स मया द्रष्टुं नूनं परमधार्मिकः
एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा

१२.१२६.१८दुर्लभः स मया द्रष्टुमाशा च महती मम
तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः

१२.१२६.१९एतच्छ्रुत्वा स भगवांस्तनुर्मुनिवरोत्तमः
अवाक्शिरा ध्यानपरो मुहूर्तमिव तस्थिवान्

१२.१२६.२०तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः
उवाच वाक्यं दीनात्मा मन्दं मन्दमिवासकृत्

१२.१२६.२१दुर्लभं किं नु विप्रर्षे आशायाश्चैव किं भवेत्
ब्रवीतु भगवानेतद्यदि गुह्यं न तन्मयि

१२.१२६.२२महर्षिर्भगवांस्तेन पूर्वमासीद्विमानितः
बालिशां बुद्धिमास्थाय मन्दभाग्यतयात्मनः

१२.१२६.२३अर्थयन्कलशं राजन्काञ्चनं वल्कलानि च
निर्विण्णः स तु विप्रर्षिर्निराशः समपद्यत

१२.१२६.२४एवमुक्त्वाभिवाद्याथ तमृषिं लोकपूजितम्
श्रान्तो न्यषीदद्धर्मात्मा यथा त्वं नरसत्तम

१२.१२६.२५अर्घ्यं ततः समानीय पाद्यं चैव महानृषिः
आरण्यकेन विधिना राज्ञे सर्वं न्यवेदयत्

१२.१२६.२६ततस्ते मुनयः सर्वे परिवार्य नरर्षभम्
उपाविशन्पुरस्कृत्य सप्तर्षय इव ध्रुवम्

१२.१२६.२७अपृच्छंश्चैव ते तत्र राजानमपराजितम्
प्रयोजनमिदं सर्वमाश्रमस्य प्रवेशनम्

१२.१२६.२८राजोवाच

१२.१२६.२९वीरद्युम्न इति ख्यातो राजाहं दिक्षु विश्रुतः
भूरिद्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः

१२.१२६.३०एकपुत्रः स विप्राग्र्य बाल एव च सोऽनघ
न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम्

१२.१२६.३१ऋषभ उवाच

१२.१२६.३२एवमुक्ते तु वचने राज्ञा मुनिरधोमुखः
तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम्

१२.१२६.३३स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः
आशाकृशं च राजेन्द्र तपो दीर्घं समास्थितः

१२.१२६.३४प्रतिग्रहमहं राज्ञां न करिष्ये कथंचन
अन्येषां चैव वर्णानामिति कृत्वा धियं तदा

१२.१२६.३५आशा हि पुरुषं बालं लालापयति तस्थुषी
तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः

१२.१२६.३६राजोवाच

१२.१२६.३७आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम्
ब्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान्

१२.१२६.३८ऋषभ उवाच

१२.१२६.३९ततः संस्मृत्य तत्सर्वं स्मारयिष्यन्निवाब्रवीत्
राजानं भगवान्विप्रस्ततः कृशतनुस्तनुः

१२.१२६.४०कृशत्वे न समं राजन्नाशाया विद्यते नृप
तस्या वै दुर्लभत्वात्तु प्रार्थिताः पार्थिवा मया

१२.१२६.४१राजोवाच

१२.१२६.४२कृशाकृशे मया ब्रह्मन्गृहीते वचनात्तव
दुर्लभत्वं च तस्यैव वेदवाक्यमिव द्विज

१२.१२६.४३संशयस्तु महाप्राज्ञ संजातो हृदये मम
तन्मे सत्तम तत्त्वेन वक्तुमर्हसि पृच्छतः

१२.१२६.४४त्वत्तः कृशतरं किं नु ब्रवीतु भगवानिदम्
यदि गुह्यं न ते विप्र लोकेऽस्मिन्किं नु दुर्लभम्

१२.१२६.४५कृशतनुरुवाच

१२.१२६.४६दुर्लभोऽप्यथ वा नास्ति योऽर्थी धृतिमिवाप्नुयात्
सुदुर्लभतरस्तात योऽर्थिनं नावमन्यते

१२.१२६.४७संश्रुत्य नोपक्रियते परं शक्त्या यथार्हतः
सक्ता या सर्वभूतेषु साशा कृशतरी मया

१२.१२६.४८एकपुत्रः पिता पुत्रे नष्टे वा प्रोषिते तथा
प्रवृत्तिं यो न जानाति साशा कृशतरी मया

१२.१२६.४९प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता
तथा नरेन्द्र धनिनामाशा कृशतरी मया

१२.१२६.५०ऋषभ उवाच

१२.१२६.५१एतच्छ्रुत्वा ततो राजन्स राजा सावरोधनः
संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे

१२.१२६.५२राजोवाच

१२.१२६.५३प्रसादये त्वा भगवन्पुत्रेणेच्छामि संगतिम्
वृणीष्व च वरं विप्र यमिच्छसि यथाविधि

१२.१२६.५४ऋषभ उवाच

१२.१२६.५५अब्रवीच्च हि तं वाक्यं राजा राजीवलोचनः
सत्यमेतद्यथा विप्र त्वयोक्तं नास्त्यतो मृषा

१२.१२६.५६ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः
पुत्रमस्यानयत्क्षिप्रं तपसा च श्रुतेन च

१२.१२६.५७तं समानाय्य पुत्रं तु तदोपालभ्य पार्थिवम्
आत्मानं दर्शयामास धर्मं धर्मभृतां वरः

१२.१२६.५८संदर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम्
विपाप्मा विगतक्रोधश्चचार वनमन्तिकात्

१२.१२६.५९एतद्दृष्टं मया राजंस्ततश्च वचनं श्रुतम्
आशामपनयस्वाशु ततः कृशतरीमिमाम्

१२.१२६.६०भीष्म उवाच

१२.१२६.६१स तत्रोक्तो महाराज ऋषभेण महात्मना
सुमित्रोऽपनयत्क्षिप्रमाशां कृशतरीं तदा

१२.१२६.६२एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम
स्थिरो भव यथा राजन्हिमवानचलोत्तमः

१२.१२६.६३त्वं हि द्रष्टा च श्रोता च कृच्छ्रेष्वर्थकृतेष्विह
श्रुत्वा मम महाराज न संतप्तुमिहार्हसि