१२.१२७.१युधिष्ठिर उवाच
१२.१२७.२नामृतस्येव पर्याप्तिर्ममास्ति ब्रुवति त्वयि
तस्मात्कथय भूयस्त्वं धर्ममेव पितामह
१२.१२७.३भीष्म उवाच
१२.१२७.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गौतमस्य च संवादं यमस्य च महात्मनः
१२.१२७.५पारियात्रगिरिं प्राप्य गौतमस्याश्रमो महान्
उवास गौतमो यत्र कालं तदपि मे शृणु
१२.१२७.६षष्टिं वर्षसहस्राणि सोऽतप्यद्गौतमस्तपः
तमुग्रतपसं युक्तं तपसा भावितं मुनिम्
१२.१२७.७उपयातो नरव्याघ्र लोकपालो यमस्तदा
तमपश्यत्सुतपसमृषिं वै गौतमं मुनिम्
१२.१२७.८स तं विदित्वा ब्रह्मर्षिर्यममागतमोजसा
प्राञ्जलिः प्रयतो भूत्वा उपसृप्तस्तपोधनः
१२.१२७.९तं धर्मराजो दृष्ट्वैव नमस्कृत्य नरर्षभम्
न्यमन्त्रयत धर्मेण क्रियतां किमिति ब्रुवन्
१२.१२७.१०गौतम उवाच
१२.१२७.११मातापितृभ्यामानृण्यं किं कृत्वा समवाप्नुयात्
कथं च लोकानश्नाति पुरुषो दुर्लभाञ्शुभान्
१२.१२७.१२यम उवाच
१२.१२७.१३तपःशौचवता नित्यं सत्यधर्मरतेन च
मातापित्रोरहरहः पूजनं कार्यमञ्जसा
१२.१२७.१४अश्वमेधैश्च यष्टव्यं बहुभिः स्वाप्तदक्षिणैः
तेन लोकानुपाश्नाति पुरुषोऽद्भुतदर्शनान्