१२. शान्तिपर्व
१२.१३१.१भीष्म उवाच

१२.१३१.२स्वराष्ट्रात्परराष्ट्राच्च कोशं संजनयेन्नृपः
कोशाद्धि धर्मः कौन्तेय राज्यमूलः प्रवर्तते

१२.१३१.३तस्मात्संजनयेत्कोशं संहृत्य परिपालयेत्
परिपाल्यानुगृह्णीयादेष धर्मः सनातनः

१२.१३१.४न कोशः शुद्धशौचेन न नृशंसेन जायते
पदं मध्यममास्थाय कोशसंग्रहणं चरेत्

१२.१३१.५अबलस्य कुतः कोशो ह्यकोशस्य कुतो बलम्
अबलस्य कुतो राज्यमराज्ञः श्रीः कुतो भवेत्

१२.१३१.६उच्चैर्वृत्तेः श्रियो हानिर्यथैव मरणं तथा
तस्मात्कोशं बलं मित्राण्यथ राजा विवर्धयेत्

१२.१३१.७हीनकोशं हि राजानमवजानन्ति मानवाः
न चास्याल्पेन तुष्यन्ति कार्यमभ्युत्सहन्ति च

१२.१३१.८श्रियो हि कारणाद्राजा सत्क्रियां लभते पराम्
सास्य गूहति पापानि वासो गुह्यमिव स्त्रियाः

१२.१३१.९ऋद्धिमस्यानुवर्तन्ते पुरा विप्रकृता जनाः
शालावृका इवाजस्रं जिघांसूनिव विन्दति
ईदृशस्य कुतो राज्ञः सुखं भरतसत्तम

१२.१३१.१०उद्यच्छेदेव न ग्लायेदुद्यमो ह्येव पौरुषम्
अप्यपर्वणि भज्येत न नमेतेह कस्यचित्

१२.१३१.११अप्यरण्यं समाश्रित्य चरेद्दस्युगणैः सह
न त्वेवोद्धृतमर्यादैर्दस्युभिः सहितश्चरेत्
दस्यूनां सुलभा सेना रौद्रकर्मसु भारत

१२.१३१.१२एकान्तेन ह्यमर्यादात्सर्वोऽप्युद्विजते जनः
दस्यवोऽप्युपशङ्कन्ते निरनुक्रोशकारिणः

१२.१३१.१३स्थापयेदेव मर्यादां जनचित्तप्रसादिनीम्
अल्पाप्यथेह मर्यादा लोके भवति पूजिता

१२.१३१.१४नायं लोकोऽस्ति न पर इति व्यवसितो जनः
नालं गन्तुं च विश्वासं नास्तिके भयशङ्किनि

१२.१३१.१५यथा सद्भिः परादानमहिंसा दस्युभिस्तथा
अनुरज्यन्ति भूतानि समर्यादेषु दस्युषु

१२.१३१.१६अयुध्यमानस्य वधो दारामर्शः कृतघ्नता
ब्रह्मवित्तस्य चादानं निःशेषकरणं तथा
स्त्रिया मोषः परिस्थानं दस्युष्वेतद्विगर्हितम्

१२.१३१.१७स एष एव भवति दस्युरेतानि वर्जयन्
अभिसंदधते ये न विनाशायास्य भारत
नशेषमेवोपालभ्य न कुर्वन्तीति निश्चयः

१२.१३१.१८तस्मात्सशेषं कर्तव्यं स्वाधीनमपि दस्युभिः
न बलस्थोऽहमस्मीति नृशंसानि समाचरेत्

१२.१३१.१९सशेषकारिणस्तात शेषं पश्यन्ति सर्वतः
निःशेषकारिणो नित्यमशेषकरणाद्भयम्