१२. शान्तिपर्व
१२.१३२.१भीष्म उवाच

१२.१३२.२अत्र कर्मान्तवचनं कीर्तयन्ति पुराविदः
प्रत्यक्षावेव धर्मार्थौ क्षत्रियस्य विजानतः
तत्र न व्यवधातव्यं परोक्षा धर्मयापना

१२.१३२.३अधर्मो धर्म इत्येतद्यथा वृकपदं तथा
धर्माधर्मफले जातु न ददर्शेह कश्चन

१२.१३२.४बुभूषेद्बलवानेव सर्वं बलवतो वशे
श्रियं बलममात्यांश्च बलवानिह विन्दति

१२.१३२.५यो ह्यनाढ्यः स पतितस्तदुच्छिष्टं यदल्पकम्
बह्वपथ्यं बलवति न किंचित्त्रायते भयात्

१२.१३२.६उभौ सत्याधिकारौ तौ त्रायेते महतो भयात्
अति धर्माद्बलं मन्ये बलाद्धर्मः प्रवर्तते

१२.१३२.७बले प्रतिष्ठितो धर्मो धरण्यामिव जङ्गमः
धूमो वायोरिव वशं बलं धर्मोऽनुवर्तते

१२.१३२.८अनीश्वरे बलं धर्मो द्रुमं वल्लीव संश्रिता
वश्यो बलवतां धर्मः सुखं भोगवतामिव
नास्त्यसाध्यं बलवतां सर्वं बलवतां शुचि

१२.१३२.९दुराचारः क्षीणबलः परिमाणं नियच्छति
अथ तस्मादुद्विजते सर्वो लोको वृकादिव

१२.१३२.१०अपध्वस्तो ह्यवमतो दुःखं जीवति जीवितम्
जीवितं यदवक्षिप्तं यथैव मरणं तथा

१२.१३२.११यदेनमाहुः पापेन चारित्रेण विनिक्षतम्
स भृशं तप्यतेऽनेन वाक्शल्येन परिक्षतः

१२.१३२.१२अत्रैतदाहुराचार्याः पापस्य परिमोक्षणे
त्रयीं विद्यां निषेवेत तथोपासीत स द्विजान्

१२.१३२.१३प्रसादयेन्मधुरया वाचाप्यथ च कर्मणा
महामनाश्चैव भवेद्विवहेच्च महाकुले

१२.१३२.१४इत्यस्मीति वदेदेवं परेषां कीर्तयन्गुणान्
जपेदुदकशीलः स्यात्पेशलो नातिजल्पनः

१२.१३२.१५ब्रह्मक्षत्रं संप्रविशेद्बहु कृत्वा सुदुष्करम्
उच्यमानोऽपि लोकेन बहु तत्तदचिन्तयन्

१२.१३२.१६अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत्
सुखं वित्तं च भुञ्जीत वृत्तेनैतेन गोपयेत्
लोके च लभते पूजां परत्र च महत्फलम्