१२. शान्तिपर्व
१२.१४६.१युधिष्ठिर उवाच

१२.१४६.२अबुद्धिपूर्वं यः पापं कुर्याद्भरतसत्तम
मुच्यते स कथं तस्मादेनसस्तद्वदस्व मे

१२.१४६.३भीष्म उवाच

१२.१४६.४अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम्
इन्द्रोतः शौनको विप्रो यदाह जनमेजयम्

१२.१४६.५आसीद्राजा महावीर्यः पारिक्षिज्जनमेजयः
अबुद्धिपूर्वं ब्रह्महत्या तमागच्छन्महीपतिम्

१२.१४६.६तं ब्राह्मणाः सर्व एव तत्यजुः सपुरोहिताः
जगाम स वनं राजा दह्यमानो दिवानिशम्

१२.१४६.७स प्रजाभिः परित्यक्तश्चकार कुशलं महत्
अतिवेलं तपस्तेपे दह्यमानः स मन्युना

१२.१४६.८तत्रेतिहासं वक्ष्यामि धर्मस्यास्योपबृंहणम्
दह्यमानः पापकृत्या जगाम जनमेजयः

१२.१४६.९वरिष्यमाण इन्द्रोतं शौनकं संशितव्रतम्
समासाद्योपजग्राह पादयोः परिपीडयन्

१२.१४६.१०ततो भीतो महाप्राज्ञो जगर्हे सुभृशं तदा
कर्ता पापस्य महतो भ्रूणहा किमिहागतः

१२.१४६.११किं तवास्मासु कर्तव्यं मा मा स्प्राक्षीः कथंचन
गच्छ गच्छ न ते स्थानं प्रीणात्यस्मानिह ध्रुवम्

१२.१४६.१२रुधिरस्येव ते गन्धः शवस्येव च दर्शनम्
अशिवः शिवसंकाशो मृतो जीवन्निवाटसि

१२.१४६.१३अन्तर्मृत्युरशुद्धात्मा पापमेवानुचिन्तयन्
प्रबुध्यसे प्रस्वपिषि वर्तसे चरसे सुखी

१२.१४६.१४मोघं ते जीवितं राजन्परिक्लिष्टं च जीवसि
पापायेव च सृष्टोऽसि कर्मणे ह यवीयसे

१२.१४६.१५बहु कल्याणमिच्छन्त ईहन्ते पितरः सुतान्
तपसा देवतेज्याभिर्वन्दनेन तितिक्षया

१२.१४६.१६पितृवंशमिमं पश्य त्वत्कृते नरकं गतम्
निरर्थाः सर्व एवैषामाशाबन्धास्त्वदाश्रयाः

१२.१४६.१७यान्पूजयन्तो विन्दन्ति स्वर्गमायुर्यशः सुखम्
तेषु ते सततं द्वेषो ब्राह्मणेषु निरर्थकः

१२.१४६.१८इमं लोकं विमुच्य त्वमवाङ्मूर्धा पतिष्यसि
अशाश्वतीः शाश्वतीश्च समाः पापेन कर्मणा

१२.१४६.१९अद्यमानो जन्तुगृध्रैः शितिकण्ठैरयोमुखैः
ततोऽपि पुनरावृत्तः पापयोनिं गमिष्यसि

१२.१४६.२०यदिदं मन्यसे राजन्नायमस्ति परः कुतः
प्रतिस्मारयितारस्त्वां यमदूता यमक्षये