१२. शान्तिपर्व
१२.१४८.१शौनक उवाच

१२.१४८.२तस्मात्तेऽहं प्रवक्ष्यामि धर्ममावृत्तचेतसे
श्रीमान्महाबलस्तुष्टो यस्त्वं धर्ममवेक्षसे
पुरस्ताद्दारुणो भूत्वा सुचित्रतरमेव तत्

१२.१४८.३अनुगृह्णन्ति भूतानि स्वेन वृत्तेन पार्थिव
कृत्स्ने नूनं सदसती इति लोको व्यवस्यति
यत्र त्वं तादृशो भूत्वा धर्ममद्यानुपश्यसि

१२.१४८.४हित्वा सुरुचिरं भक्ष्यं भोगांश्च तप आस्थितः
इत्येतदपि भूतानामद्भुतं जनमेजय

१२.१४८.५यो दुर्बलो भवेद्दाता कृपणो वा तपोधनः
अनाश्चर्यं तदित्याहुर्नातिदूरे हि वर्तते

१२.१४८.६एतदेव हि कार्पण्यं समग्रमसमीक्षितम्
तस्मात्समीक्षयैव स्याद्भवेत्तस्मिंस्ततो गुणः

१२.१४८.७यज्ञो दानं दया वेदाः सत्यं च पृथिवीपते
पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः

१२.१४८.८तदेव राज्ञां परमं पवित्रं जनमेजय
तेन सम्यग्गृहीतेन श्रेयांसं धर्ममाप्स्यसि

१२.१४८.९पुण्यदेशाभिगमनं पवित्रं परमं स्मृतम्
अपि ह्युदाहरन्तीमा गाथा गीता ययातिना

१२.१४८.१०यो मर्त्यः प्रतिपद्येत आयुर्जीवेत वा पुनः
यज्ञमेकान्ततः कृत्वा तत्संन्यस्य तपश्चरेत्

१२.१४८.११पुण्यमाहुः कुरुक्षेत्रं सरस्वत्यां पृथूदकम्
यत्रावगाह्य पीत्वा वा नैवं श्वोमरणं तपेत्

१२.१४८.१२महासरः पुष्कराणि प्रभासोत्तरमानसे
कालोदं त्वेव गन्तासि लब्धायुर्जीविते पुनः

१२.१४८.१३सरस्वतीदृषद्वत्यौ सेवमानोऽनुसंचरेः
स्वाध्यायशीलः स्थानेषु सर्वेषु समुपस्पृशेः

१२.१४८.१४त्यागधर्मं पवित्राणां संन्यासं परमब्रवीत्
अत्राप्युदाहरन्तीमा गाथाः सत्यवता कृताः

१२.१४८.१५यथा कुमारः सत्यो वै न पुण्यो न च पापकृत्
न ह्यस्ति सर्वभूतेषु दुःखमस्मिन्कुतः सुखम्

१२.१४८.१६एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम्
त्यजतां जीवितं प्रायो विवृते पुण्यपातके

१२.१४८.१७यत्त्वेव राज्ञो ज्यायो वै कार्याणां तद्वदामि ते
बलेन संविभागैश्च जय स्वर्गं पुनीष्व च

१२.१४८.१८यस्यैवं बलमोजश्च स धर्मस्य प्रभुर्नरः
ब्राह्मणानां सुखार्थं त्वं पर्येहि पृथिवीमिमाम्

१२.१४८.१९यथैवैनान्पुराक्षैप्सीस्तथैवैनान्प्रसादय
अपि धिक्क्रियमाणोऽपि त्यज्यमानोऽप्यनेकधा

१२.१४८.२०आत्मनो दर्शनं विद्वन्नाहन्तास्मीति मा क्रुधः
घटमानः स्वकार्येषु कुरु नैःश्रेयसं परम्

१२.१४८.२१हिमाग्निघोरसदृशो राजा भवति कश्चन
लाङ्गलाशनिकल्पो वा भवत्यन्यः परंतप

१२.१४८.२२न निःशेषेण मन्तव्यमचिकित्स्येन वा पुनः
न जातु नाहमस्मीति प्रसक्तव्यमसाधुषु

१२.१४८.२३विकर्मणा तप्यमानः पादात्पापस्य मुच्यते
नैतत्कार्यं पुनरिति द्वितीयात्परिमुच्यते
चरिष्ये धर्ममेवेति तृतीयात्परिमुच्यते

१२.१४८.२४कल्याणमनुमन्तव्यं पुरुषेण बुभूषता
ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते
ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ते

१२.१४८.२५तपश्चर्यापरः सद्यः पापाद्धि परिमुच्यते
संवत्सरमुपास्याग्निमभिशस्तः प्रमुच्यते
त्रीणि वर्षाण्युपास्याग्निं भ्रूणहा विप्रमुच्यते

१२.१४८.२६यावतः प्राणिनो हन्यात्तज्जातीयान्स्वभावतः
प्रमीयमाणानुन्मोच्य भ्रूणहा विप्रमुच्यते

१२.१४८.२७अपि वाप्सु निमज्जेत त्रिर्जपन्नघमर्षणम्
यथाश्वमेधावभृथस्तथा तन्मनुरब्रवीत्

१२.१४८.२८क्षिप्रं प्रणुदते पापं सत्कारं लभते तथा
अपि चैनं प्रसीदन्ति भूतानि जडमूकवत्

१२.१४८.२९बृहस्पतिं देवगुरुं सुरासुराः; समेत्य सर्वे नृपतेऽन्वयुञ्जन्
धर्मे फलं वेत्थ कृते महर्षे; तथेतरस्मिन्नरके पापलोके

१२.१४८.३०उभे तु यस्य सुकृते भवेतां; किं स्वित्तयोस्तत्र जयोत्तरं स्यात्
आचक्ष्व नः कर्मफलं महर्षे; कथं पापं नुदते पुण्यशीलः

१२.१४८.३१बृहस्पतिरुवाच

१२.१४८.३२कृत्वा पापं पूर्वमबुद्धिपूर्वं; पुण्यानि यः कुरुते बुद्धिपूर्वम्
स तत्पापं नुदते पुण्यशीलो; वासो यथा मलिनं क्षारयुक्त्या

१२.१४८.३३पापं कृत्वा न मन्येत नाहमस्मीति पूरुषः
चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः

१२.१४८.३४छिद्राणि वसनस्येव साधुना विवृणोति यः
यः पापं पुरुषः कृत्वा कल्याणमभिपद्यते

१२.१४८.३५यथादित्यः पुनरुद्यंस्तमः सर्वं व्यपोहति
कल्याणमाचरन्नेवं सर्वं पापं व्यपोहति

१२.१४८.३६भीष्म उवाच

१२.१४८.३७एवमुक्त्वा स राजानमिन्द्रोतो जनमेजयम्
याजयामास विधिवद्वाजिमेधेन शौनकः

१२.१४८.३८ततः स राजा व्यपनीतकल्मषः; श्रिया युतः प्रज्वलिताग्निरूपया
विवेश राज्यं स्वममित्रकर्शनो; दिवं यथा पूर्णवपुर्निशाकरः