१२.१४९.१भीष्म उवाच
१२.१४९.२शृणु पार्थ यथावृत्तमितिहासं पुरातनम्
गृध्रजम्बुकसंवादं यो वृत्तो वैदिशे पुरा
१२.१४९.३दुःखिताः केचिदादाय बालमप्राप्तयौवनम्
कुलसर्वस्वभूतं वै रुदन्तः शोकविह्वलाः
१२.१४९.४बालं मृतं गृहीत्वाथ श्मशानाभिमुखाः स्थिताः
अङ्केनाङ्कं च संक्रम्य रुरुदुर्भूतले तदा
१२.१४९.५तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत्
एकात्मकमिमं लोके त्यक्त्वा गच्छत माचिरम्
१२.१४९.६इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव हि
समानीतानि कालेन किं ते वै जात्वबान्धवाः
१२.१४९.७संपश्यत जगत्सर्वं सुखदुःखैरधिष्ठितम्
संयोगो विप्रयोगश्च पर्यायेणोपलभ्यते
१२.१४९.८गृहीत्वा ये च गच्छन्ति येऽनुयान्ति च तान्मृतान्
तेऽप्यायुषः प्रमाणेन स्वेन गच्छन्ति जन्तवः
१२.१४९.९अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसंकुले
कङ्कालबहुले घोरे सर्वप्राणिभयंकरे
१२.१४९.१०न पुनर्जीवितः कश्चित्कालधर्ममुपागतः
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी
१२.१४९.११सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूयता
कृतान्तविहिते मार्गे को मृतं जीवयिष्यति
१२.१४९.१२कर्मान्तविहिते लोके चास्तं गच्छति भास्करे
गम्यतां स्वमधिष्ठानं सुतस्नेहं विसृज्य वै
१२.१४९.१३ततो गृध्रवचः श्रुत्वा विक्रोशन्तस्तदा नृप
बान्धवास्तेऽभ्यगच्छन्त पुत्रमुत्सृज्य भूतले
१२.१४९.१४विनिश्चित्याथ च ततः संत्यजन्तः स्वमात्मजम्
निराशा जीविते तस्य मार्गमारुह्य धिष्ठिताः
१२.१४९.१५ध्वाङ्क्षाभ्रसमवर्णस्तु बिलान्निःसृत्य जम्बुकः
गच्छमानान्स्म तानाह निर्घृणाः खलु मानवाः
१२.१४९.१६आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम्
बहुरूपो मुहूर्तश्च जीवेतापि कदाचन
१२.१४९.१७यूयं भूमौ विनिक्षिप्य पुत्रस्नेहविनाकृताः
श्मशाने पुत्रमुत्सृज्य कस्माद्गच्छथ निर्घृणाः
१२.१४९.१८न वोऽस्त्यस्मिन्सुते स्नेहो बाले मधुरभाषिणि
यस्य भाषितमात्रेण प्रसादमुपगच्छथ
१२.१४९.१९न पश्यथ सुतस्नेहं यादृशः पशुपक्षिणाम्
न येषां धारयित्वा तान्कश्चिदस्ति फलागमः
१२.१४९.२०चतुष्पात्पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम्
परलोकगतिस्थानां मुनियज्ञक्रिया इव
१२.१४९.२१तेषां पुत्राभिरामाणामिह लोके परत्र च
न गुणो दृश्यते कश्चित्प्रजाः संधारयन्ति च
१२.१४९.२२अपश्यतां प्रियान्पुत्रान्नैषां शोकोऽनुतिष्ठति
न च पुष्णन्ति संवृद्धास्ते मातापितरौ क्वचित्
१२.१४९.२३मानुषाणां कुतः स्नेहो येषां शोको भविष्यति
इमं कुलकरं पुत्रं कथं त्यक्त्वा गमिष्यथ
१२.१४९.२४चिरं मुञ्चत बाष्पं च चिरं स्नेहेन पश्यत
एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः
१२.१४९.२५क्षीणस्याथाभियुक्तस्य श्मशानाभिमुखस्य च
बान्धवा यत्र तिष्ठन्ति तत्रान्यो नावतिष्ठते
१२.१४९.२६सर्वस्य दयिताः प्राणाः सर्वः स्नेहं च विन्दति
तिर्यग्योनिष्वपि सतां स्नेहं पश्यत यादृशम्
१२.१४९.२७त्यक्त्वा कथं गच्छेथेमं पद्मलोलायताक्षकम्
यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम्
१२.१४९.२८भीष्म उवाच
१२.१४९.२९जम्बुकस्य वचः श्रुत्वा कृपणं परिदेवतः
न्यवर्तन्त तदा सर्वे शवार्थं ते स्म मानुषाः
१२.१४९.३०गृध्र उवाच
१२.१४९.३१अहो धिक्सुनृशंसेन जम्बुकेनाल्पमेधसा
क्षुद्रेणोक्ता हीनसत्त्वा मानुषाः किं निवर्तथ
१२.१४९.३२पञ्चभूतपरित्यक्तं शून्यं काष्ठत्वमागतम्
कस्माच्छोचथ निश्चेष्टमात्मानं किं न शोचथ
१२.१४९.३३तपः कुरुत वै तीव्रं मुच्यध्वं येन किल्बिषात्
तपसा लभ्यते सर्वं विलापः किं करिष्यति
१२.१४९.३४अनिष्टानि च भाग्यानि जानीत सह मूर्तिभिः
येन गच्छति लोकोऽयं दत्त्वा शोकमनन्तकम्
१२.१४९.३५धनं गाश्च सुवर्णं च मणिरत्नमथापि च
अपत्यं च तपोमूलं तपोयोगाच्च लभ्यते
१२.१४९.३६यथाकृता च भूतेषु प्राप्यते सुखदुःखता
गृहीत्वा जायते जन्तुर्दुःखानि च सुखानि च
१२.१४९.३७न कर्मणा पितुः पुत्रः पिता वा पुत्रकर्मणा
मार्गेणान्येन गच्छन्ति त्यक्त्वा सुकृतदुष्कृते
१२.१४९.३८धर्मं चरत यत्नेन तथाधर्मान्निवर्तत
वर्तध्वं च यथाकालं दैवतेषु द्विजेषु च
१२.१४९.३९शोकं त्यजत दैन्यं च सुतस्नेहान्निवर्तत
त्यज्यतामयमाकाशे ततः शीघ्रं निवर्तत
१२.१४९.४०यत्करोति शुभं कर्म तथाधर्मं सुदारुणम्
तत्कर्तैव समश्नाति बान्धवानां किमत्र हि
१२.१४९.४१इह त्यक्त्वा न तिष्ठन्ति बान्धवा बान्धवं प्रियम्
स्नेहमुत्सृज्य गच्छन्ति बाष्पपूर्णाविलेक्षणाः
१२.१४९.४२प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा
सर्वः कालवशं याति शुभाशुभसमन्वितः
१२.१४९.४३किं करिष्यथ शोचित्वा मृतं किमनुशोचथ
सर्वस्य हि प्रभुः कालो धर्मतः समदर्शनः
१२.१४९.४४यौवनस्थांश्च बालांश्च वृद्धान्गर्भगतानपि
सर्वानाविशते मृत्युरेवंभूतमिदं जगत्
१२.१४९.४५जम्बुक उवाच
१२.१४९.४६अहो मन्दीकृतः स्नेहो गृध्रेणेहाल्पमेधसा
पुत्रस्नेहाभिभूतानां युष्माकं शोचतां भृशम्
१२.१४९.४७समैः सम्यक्प्रयुक्तैश्च वचनैः प्रश्रयोत्तरैः
यद्गच्छथ जलस्थायं स्नेहमुत्सृज्य दुस्त्यजम्
१२.१४९.४८अहो पुत्रवियोगेन मृतशून्योपसेवनात्
क्रोशतां वै भृशं दुःखं विवत्सानां गवामिव
१२.१४९.४९अद्य शोकं विजानामि मानुषाणां महीतले
स्नेहं हि करुणं दृष्ट्वा ममाप्यश्रूण्यथागमन्
१२.१४९.५०यत्नो हि सततं कार्यः कृतो दैवेन सिध्यति
दैवं पुरुषकारश्च कृतान्तेनोपपद्यते
१२.१४९.५१अनिर्वेदः सदा कार्यो निर्वेदाद्धि कुतः सुखम्
प्रयत्नात्प्राप्यते ह्यर्थः कस्माद्गच्छथ निर्दयाः
१२.१४९.५२आत्ममांसोपवृत्तं च शरीरार्धमयीं तनुम्
पितॄणां वंशकर्तारं वने त्यक्त्वा क्व यास्यथ
१२.१४९.५३अथ वास्तं गते सूर्ये संध्याकाल उपस्थिते
ततो नेष्यथ वा पुत्रमिहस्था वा भविष्यथ
१२.१४९.५४गृध्र उवाच
१२.१४९.५५अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः
न च पश्यामि जीवन्तं मृतं स्त्रीपुंनपुंसकम्
१२.१४९.५६मृता गर्भेषु जायन्ते म्रियन्ते जातमात्रकाः
विक्रमन्तो म्रियन्ते च यौवनस्थास्तथापरे
१२.१४९.५७अनित्यानीह भाग्यानि चतुष्पात्पक्षिणामपि
जङ्गमाजङ्गमानां चाप्यायुरग्रेऽवतिष्ठते
१२.१४९.५८इष्टदारवियुक्ताश्च पुत्रशोकान्वितास्तथा
दह्यमानाः स्म शोकेन गृहं गच्छन्ति नित्यदा
१२.१४९.५९अनिष्टानां सहस्राणि तथेष्टानां शतानि च
उत्सृज्येह प्रयाता वै बान्धवा भृशदुःखिताः
१२.१४९.६०त्यज्यतामेष निस्तेजाः शून्यः काष्ठत्वमागतः
अन्यदेहविषक्तो हि शावं काष्ठमुपासते
१२.१४९.६१भ्रान्तजीवस्य वै बाष्पं कस्माद्धित्वा न गच्छथ
निरर्थको ह्ययं स्नेहो निरर्थश्च परिग्रहः
१२.१४९.६२न चक्षुर्भ्यां न कर्णाभ्यां संशृणोति समीक्षते
तस्मादेनं समुत्सृज्य स्वगृहान्गच्छताशु वै
१२.१४९.६३मोक्षधर्माश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः
मयोक्ता गच्छत क्षिप्रं स्वं स्वमेव निवेशनम्
१२.१४९.६४प्रज्ञाविज्ञानयुक्तेन बुद्धिसंज्ञाप्रदायिना
वचनं श्राविता रूक्षं मानुषाः संनिवर्तत
१२.१४९.६५जम्बुक उवाच
१२.१४९.६६इमं कनकवर्णाभं भूषणैः समलंकृतम्
गृध्रवाक्यात्कथं पुत्रं त्यजध्वं पितृपिण्डदम्
१२.१४९.६७न स्नेहस्य विरोधोऽस्ति विलापरुदितस्य वै
मृतस्यास्य परित्यागात्तापो वै भविता ध्रुवम्
१२.१४९.६८श्रूयते शम्बुके शूद्रे हते ब्राह्मणदारकः
जीवितो धर्ममासाद्य रामात्सत्यपराक्रमात्
१२.१४९.६९तथा श्वेतस्य राजर्षेर्बालो दिष्टान्तमागतः
श्वोऽभूते धर्मनित्येन मृतः संजीवितः पुनः
१२.१४९.७०तथा कश्चिद्भवेत्सिद्धो मुनिर्वा देवतापि वा
कृपणानामनुक्रोशं कुर्याद्वो रुदतामिह
१२.१४९.७१भीष्म उवाच
१२.१४९.७२इत्युक्ताः संन्यवर्तन्त शोकार्ताः पुत्रवत्सलाः
अङ्के शिरः समाधाय रुरुदुर्बहुविस्तरम्
१२.१४९.७३गृध्र उवाच
१२.१४९.७४अश्रुपातपरिक्लिन्नः पाणिस्पर्शनपीडितः
धर्मराजप्रयोगाच्च दीर्घां निद्रां प्रवेशितः
१२.१४९.७५तपसापि हि संयुक्तो न काले नोपहन्यते
सर्वस्नेहावसानं तदिदं तत्प्रेतपत्तनम्
१२.१४९.७६बालवृद्धसहस्राणि सदा संत्यज्य बान्धवाः
दिनानि चैव रात्रीश्च दुःखं तिष्ठन्ति भूतले
१२.१४९.७७अलं निर्बन्धमागम्य शोकस्य परिवारणम्
अप्रत्ययं कुतो ह्यस्य पुनरद्येह जीवितम्
१२.१४९.७८नैष जम्बुकवाक्येन पुनः प्राप्स्यति जीवितम्
मृतस्योत्सृष्टदेहस्य पुनर्देहो न विद्यते
१२.१४९.७९न वै मूर्तिप्रदानेन न जम्बुकशतैरपि
शक्यो जीवयितुं ह्येष बालो वर्षशतैरपि
१२.१४९.८०अपि रुद्रः कुमारो वा ब्रह्मा वा विष्णुरेव वा
वरमस्मै प्रयच्छेयुस्ततो जीवेदयं शिशुः
१२.१४९.८१न च बाष्पविमोक्षेण न चाश्वासकृतेन वै
न दीर्घरुदितेनेह पुनर्जीवो भविष्यति
१२.१४९.८२अहं च क्रोष्टुकश्चैव यूयं चैवास्य बान्धवाः
धर्माधर्मौ गृहीत्वेह सर्वे वर्तामहेऽध्वनि
१२.१४९.८३अप्रियं परुषं चापि परद्रोहं परस्त्रियम्
अधर्ममनृतं चैव दूरात्प्राज्ञो निवर्तयेत्
१२.१४९.८४सत्यं धर्मं शुभं न्याय्यं प्राणिनां महतीं दयाम्
अजिह्मत्वमशाठ्यं च यत्नतः परिमार्गत
१२.१४९.८५मातरं पितरं चैव बान्धवान्सुहृदस्तथा
जीवतो ये न पश्यन्ति तेषां धर्मविपर्ययः
१२.१४९.८६यो न पश्यति चक्षुर्भ्यां नेङ्गते च कथंचन
तस्य निष्ठावसानान्ते रुदन्तः किं करिष्यथ
१२.१४९.८७भीष्म उवाच
१२.१४९.८८इत्युक्तास्तं सुतं त्यक्त्वा भूमौ शोकपरिप्लुताः
दह्यमानाः सुतस्नेहात्प्रययुर्बान्धवा गृहान्
१२.१४९.८९जम्बुक उवाच
१२.१४९.९०दारुणो मर्त्यलोकोऽयं सर्वप्राणिविनाशनः
इष्टबन्धुवियोगश्च तथैवाल्पं च जीवितम्
१२.१४९.९१बह्वलीकमसत्यं च प्रतिवादाप्रियंवदम्
इमं प्रेक्ष्य पुनर्भावं दुःखशोकाभिवर्धनम्
१२.१४९.९२न मे मानुषलोकोऽयं मुहूर्तमपि रोचते
अहो धिग्गृध्रवाक्येन संनिवर्तथ मानुषाः
१२.१४९.९३प्रदीप्ताः पुत्रशोकेन यथैवाबुद्धयस्तथा
कथं गच्छथ सस्नेहाः सुतस्नेहं विसृज्य च
श्रुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः
१२.१४९.९४सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्
सुखदुःखान्विते लोके नेहास्त्येकमनन्तकम्
१२.१४९.९५इमं क्षितितले न्यस्य बालं रूपसमन्वितम्
कुलशोकाकरं मूढाः पुत्रं त्यक्त्वा क्व यास्यथ
१२.१४९.९६रूपयौवनसंपन्नं द्योतमानमिव श्रिया
जीवन्तमेनं पश्यामि मनसा नात्र संशयः
१२.१४९.९७विनाशश्चाप्यनर्होऽस्य सुखं प्राप्स्यथ मानुषाः
पुत्रशोकाग्निदग्धानां मृतमप्यद्य वः क्षमम्
१२.१४९.९८दुःखसंभावनां कृत्वा धारयित्वा स्वयं सुखम्
त्यक्त्वा गमिष्यथ क्वाद्य समुत्सृज्याल्पबुद्धिवत्
१२.१४९.९९भीष्म उवाच
१२.१४९.१००तथा धर्मविरोधेन प्रियमिथ्याभिध्यायिना
श्मशानवासिना नित्यं रात्रिं मृगयता तदा
१२.१४९.१०१ततो मध्यस्थतां नीता वचनैरमृतोपमैः
जम्बुकेन स्वकार्यार्थं बान्धवास्तस्य धिष्ठिताः
१२.१४९.१०२गृध्र उवाच
१२.१४९.१०३अयं प्रेतसमाकीर्णो यक्षराक्षससेवितः
दारुणः काननोद्देशः कौशिकैरभिनादितः
१२.१४९.१०४भीमः सुघोरश्च तथा नीलमेघसमप्रभः
अस्मिञ्शवं परित्यज्य प्रेतकार्याण्युपासत
१२.१४९.१०५भानुर्यावन्न यात्यस्तं यावच्च विमला दिशः
तावदेनं परित्यज्य प्रेतकार्याण्युपासत
१२.१४९.१०६नदन्ति परुषं श्येनाः शिवाः क्रोशन्ति दारुणाः
मृगेन्द्राः प्रतिनन्दन्ति रविरस्तं च गच्छति
१२.१४९.१०७चिताधूमेन नीलेन संरज्यन्ते च पादपाः
श्मशाने च निराहाराः प्रतिनन्दन्ति देहिनः
१२.१४९.१०८सर्वे विक्रान्तवीर्याश्च अस्मिन्देशे सुदारुणाः
युष्मान्प्रधर्षयिष्यन्ति विकृता मांसभोजनाः
१२.१४९.१०९दूराच्चायं वनोद्देशो भयमत्र भविष्यति
त्यज्यतां काष्ठभूतोऽयं मृष्यतां जाम्बुकं वचः
१२.१४९.११०यदि जम्बुकवाक्यानि निष्फलान्यनृतानि च
श्रोष्यथ भ्रष्टविज्ञानास्ततः सर्वे विनङ्क्ष्यथ
१२.१४९.१११जम्बुक उवाच
१२.१४९.११२स्थीयतां नेह भेतव्यं यावत्तपति भास्करः
तावदस्मिन्सुतस्नेहादनिर्वेदेन वर्तत
१२.१४९.११३स्वैरं रुदत विस्रब्धाः स्वैरं स्नेहेन पश्यत
स्थीयतां यावदादित्यः किं वः क्रव्यादभाषितैः
१२.१४९.११४यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च
गृह्णीत मोहितात्मानः सुतो वो न भविष्यति
१२.१४९.११५भीष्म उवाच
१२.१४९.११६गृध्रोऽनस्तमिते त्वाह गतेऽस्तमिति जम्बुकः
मृतस्य तं परिजनमूचतुस्तौ क्षुधान्वितौ
१२.१४९.११७स्वकार्यदक्षिणौ राजन्गृध्रो जम्बुक एव च
क्षुत्पिपासापरिश्रान्तौ शास्त्रमालम्ब्य जल्पतः
१२.१४९.११८तयोर्विज्ञानविदुषोर्द्वयोर्जम्बुकपत्रिणोः
वाक्यैरमृतकल्पैर्हि प्रातिष्ठन्त व्रजन्ति च
१२.१४९.११९शोकदैन्यसमाविष्टा रुदन्तस्तस्थिरे तदा
स्वकार्यकुशलाभ्यां ते संभ्राम्यन्ते ह नैपुणात्
१२.१४९.१२०तथा तयोर्विवदतोर्विज्ञानविदुषोर्द्वयोः
बान्धवानां स्थितानां च उपातिष्ठत शंकरः
१२.१४९.१२१ततस्तानाह मनुजान्वरदोऽस्मीति शूलभृत्
ते प्रत्यूचुरिदं वाक्यं दुःखिताः प्रणताः स्थिताः
१२.१४९.१२२एकपुत्रविहीनानां सर्वेषां जीवितार्थिनाम्
पुत्रस्य नो जीवदानाज्जीवितं दातुमर्हसि
१२.१४९.१२३एवमुक्तः स भगवान्वारिपूर्णेन पाणिना
जीवं तस्मै कुमाराय प्रादाद्वर्षशताय वै
१२.१४९.१२४तथा गोमायुगृध्राभ्यामददत्क्षुद्विनाशनम्
वरं पिनाकी भगवान्सर्वभूतहिते रतः
१२.१४९.१२५ततः प्रणम्य तं देवं श्रेयोहर्षसमन्विताः
कृतकृत्याः सुखं हृष्टाः प्रातिष्ठन्त तदा विभो
१२.१४९.१२६अनिर्वेदेन दीर्घेण निश्चयेन ध्रुवेण च
देवदेवप्रसादाच्च क्षिप्रं फलमवाप्यते
१२.१४९.१२७पश्य देवस्य संयोगं बान्धवानां च निश्चयम्
कृपणानां हि रुदतां कृतमश्रुप्रमार्जनम्
१२.१४९.१२८पश्य चाल्पेन कालेन निश्चयान्वेषणेन च
प्रसादं शंकरात्प्राप्य दुःखिताः सुखमाप्नुवन्
१२.१४९.१२९ते विस्मिताः प्रहृष्टाश्च पुत्रसंजीवनात्पुनः
बभूवुर्भरतश्रेष्ठ प्रसादाच्छंकरस्य वै
१२.१४९.१३०ततस्ते त्वरिता राजञ्श्रुत्वा शोकमघोद्भवम्
विविशुः पुत्रमादाय नगरं हृष्टमानसाः
एषा बुद्धिः समस्तानां चातुर्वर्ण्ये निदर्शिता
१२.१४९.१३१धर्मार्थमोक्षसंयुक्तमितिहासमिमं शुभम्
श्रुत्वा मनुष्यः सततमिह प्रेत्य च मोदते