१२.१५१.१भीष्म उवाच
१२.१५१.२एवमुक्त्वा तु राजेन्द्र शल्मलिं ब्रह्मवित्तमः
नारदः पवने सर्वं शल्मलेर्वाक्यमब्रवीत्
१२.१५१.३हिमवत्पृष्ठजः कश्चिच्छल्मलिः परिवारवान्
बृहन्मूलो बृहच्छाखः स त्वां वायोऽवमन्यते
१२.१५१.४बहून्याक्षेपयुक्तानि त्वामाह वचनानि सः
न युक्तानि मया वायो तानि वक्तुं त्वयि प्रभो
१२.१५१.५जानामि त्वामहं वायो सर्वप्राणभृतां वरम्
वरिष्ठं च गरिष्ठं च क्रोधे वैवस्वतं यथा
१२.१५१.६एवं तु वचनं श्रुत्वा नारदस्य समीरणः
शल्मलिं तमुपागम्य क्रुद्धो वचनमब्रवीत्
१२.१५१.७शल्मले नारदे यत्तत्त्वयोक्तं मद्विगर्हणम्
अहं वायुः प्रभावं ते दर्शयाम्यात्मनो बलम्
१२.१५१.८नाहं त्वा नाभिजानामि विदितश्चासि मे द्रुम
पितामहः प्रजासर्गे त्वयि विश्रान्तवान्प्रभुः
१२.१५१.९तस्य विश्रमणादेव प्रसादो यः कृतस्तव
रक्ष्यसे तेन दुर्बुद्धे नात्मवीर्याद्द्रुमाधम
१२.१५१.१०यन्मा त्वमवजानीषे यथान्यं प्राकृतं तथा
दर्शयाम्येष आत्मानं यथा मामवभोत्स्यसे
१२.१५१.११एवमुक्तस्ततः प्राह शल्मलिः प्रहसन्निव
पवन त्वं वने क्रुद्धो दर्शयात्मानमात्मना
१२.१५१.१२मयि वै त्यज्यतां क्रोधः किं मे क्रुद्धः करिष्यसि
न ते बिभेमि पवन यद्यपि त्वं स्वयंप्रभुः
१२.१५१.१३इत्येवमुक्तः पवनः श्व इत्येवाब्रवीद्वचः
दर्शयिष्यामि ते तेजस्ततो रात्रिरुपागमत्
१२.१५१.१४अथ निश्चित्य मनसा शल्मलिर्वातकारितम्
पश्यमानस्तदात्मानमसमं मातरिश्वनः
१२.१५१.१५नारदे यन्मया प्रोक्तं पवनं प्रति तन्मृषा
असमर्थो ह्यहं वायोर्बलेन बलवान्हि सः
१२.१५१.१६मारुतो बलवान्नित्यं यथैनं नारदोऽब्रवीत्
अहं हि दुर्बलोऽन्येभ्यो वृक्षेभ्यो नात्र संशयः
१२.१५१.१७किं तु बुद्ध्या समो नास्ति मम कश्चिद्वनस्पतिः
तदहं बुद्धिमास्थाय भयं मोक्ष्ये समीरणात्
१२.१५१.१८यदि तां बुद्धिमास्थाय चरेयुः पर्णिनो वने
अरिष्टाः स्युः सदा क्रुद्धात्पवनान्नात्र संशयः
१२.१५१.१९तेऽत्र बाला न जानन्ति यथा नैनान्समीरणः
समीरयेत संक्रुद्धो यथा जानाम्यहं तथा
१२.१५१.२०ततो निश्चित्य मनसा शल्मलिः क्षुभितस्तदा
शाखाः स्कन्धान्प्रशाखाश्च स्वयमेव व्यशातयत्
१२.१५१.२१स परित्यज्य शाखाश्च पत्राणि कुसुमानि च
प्रभाते वायुमायान्तं प्रत्यैक्षत वनस्पतिः
१२.१५१.२२ततः क्रुद्धः श्वसन्वायुः पातयन्वै महाद्रुमान्
आजगामाथ तं देशं स्थितो यत्र स शल्मलिः
१२.१५१.२३तं हीनपर्णं पतिताग्रशाखं; विशीर्णपुष्पं प्रसमीक्ष्य वायुः
उवाच वाक्यं स्मयमान एनं; मुदा युतं शल्मलिं रुग्णशाखम्
१२.१५१.२४अहमप्येवमेव त्वां कुर्वाणः शल्मले रुषा
आत्मना यत्कृतं कृत्स्नं शाखानामपकर्षणम्
१२.१५१.२५हीनपुष्पाग्रशाखस्त्वं शीर्णाङ्कुरपलाशवान्
आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगोऽभवः
१२.१५१.२६एतच्छ्रुत्वा वचो वायोः शल्मलिर्व्रीडितस्तदा
अतप्यत वचः स्मृत्वा नारदो यत्तदाब्रवीत्
१२.१५१.२७एवं यो राजशार्दूल दुर्बलः सन्बलीयसा
वैरमासज्जते बालस्तप्यते शल्मलिर्यथा
१२.१५१.२८तस्माद्वैरं न कुर्वीत दुर्बलो बलवत्तरैः
शोचेद्धि वैरं कुर्वाणो यथा वै शल्मलिस्तथा
१२.१५१.२९न हि वैरं महात्मानो विवृण्वन्त्यपकारिषु
शनैः शनैर्महाराज दर्शयन्ति स्म ते बलम्
१२.१५१.३०वैरं न कुर्वीत नरो दुर्बुद्धिर्बुद्धिजीविना
बुद्धिर्बुद्धिमतो याति तूलेष्विव हुताशनः
१२.१५१.३१न हि बुद्ध्या समं किंचिद्विद्यते पुरुषे नृप
तथा बलेन राजेन्द्र न समोऽस्तीति चिन्तयेत्
१२.१५१.३२तस्मात्क्षमेत बालाय जडाय बधिराय च
बलाधिकाय राजेन्द्र तद्दृष्टं त्वयि शत्रुहन्
१२.१५१.३३अक्षौहिण्यो दशैका च सप्त चैव महाद्युते
बलेन न समा राजन्नर्जुनस्य महात्मनः
१२.१५१.३४हतास्ताश्चैव भग्नाश्च पाण्डवेन यशस्विना
चरता बलमास्थाय पाकशासनिना मृधे
१२.१५१.३५उक्तास्ते राजधर्माश्च आपद्धर्माश्च भारत
विस्तरेण महाराज किं भूयः प्रब्रवीमि ते