१२. शान्तिपर्व
१२.१५०.१भीष्म उवाच

१२.१५०.२अत्राप्युदाहरन्तीममितिहासं पुरातनम्
संवादं भरतश्रेष्ठ शल्मलेः पवनस्य च

१२.१५०.३हिमवन्तं समासाद्य महानासीद्वनस्पतिः
वर्षपूगाभिसंवृद्धः शाखास्कन्धपलाशवान्

१२.१५०.४तत्र स्म मत्ता मातङ्गा धर्मार्ताः श्रमकर्शिताः
विश्रमन्ति महाबाहो तथान्या मृगजातयः

१२.१५०.५नल्वमात्रपरीणाहो घनच्छायो वनस्पतिः
शुकशारिकसंघुष्टः फलवान्पुष्पवानपि

१२.१५०.६सार्थिका वणिजश्चापि तापसाश्च वनौकसः
वसन्ति वासान्मार्गस्थाः सुरम्ये तरुसत्तमे

१२.१५०.७तस्या ता विपुलाः शाखा दृष्ट्वा स्कन्धांश्च सर्वतः
अभिगम्याब्रवीदेनं नारदो भरतर्षभ

१२.१५०.८अहो नु रमणीयस्त्वमहो चासि मनोरमः
प्रीयामहे त्वया नित्यं तरुप्रवर शल्मले

१२.१५०.९सदैव शकुनास्तात मृगाश्चाधस्तथा गजाः
वसन्ति तव संहृष्टा मनोहरतरास्तथा

१२.१५०.१०तव शाखा महाशाख स्कन्धं च विपुलं तथा
न वै प्रभग्नान्पश्यामि मारुतेन कथंचन

१२.१५०.११किं नु ते मारुतस्तात प्रीतिमानथ वा सुहृत्
त्वां रक्षति सदा येन वनेऽस्मिन्पवनो ध्रुवम्

१२.१५०.१२विवान्हि पवनः स्थानाद्वृक्षानुच्चावचानपि
पर्वतानां च शिखराण्याचालयति वेगवान्

१२.१५०.१३शोषयत्येव पातालं विवान्गन्धवहः शुचिः
ह्रदांश्च सरितश्चैव सागरांश्च तथैव ह

१२.१५०.१४त्वां संरक्षेत पवनः सखित्वेन न संशयः
तस्माद्बहलशाखोऽसि पर्णवान्पुष्पवानपि

१२.१५०.१५इदं च रमणीयं ते प्रतिभाति वनस्पते
यदिमे विहगास्तात रमन्ते मुदितास्त्वयि

१२.१५०.१६एषां पृथक्समस्तानां श्रूयते मधुरः स्वरः
पुष्पसंमोदने काले वाशतां सुमनोहरम्

१२.१५०.१७तथेमे मुदिता नागाः स्वयूथकुलशोभिनः
घर्मार्तास्त्वां समासाद्य सुखं विन्दन्ति शल्मले

१२.१५०.१८तथैव मृगजातीभिरन्याभिरुपशोभसे
तथा सार्थाधिवासैश्च शोभसे मेरुवद्द्रुम

१२.१५०.१९ब्राह्मणैश्च तपःसिद्धैस्तापसैः श्रमणैरपि
त्रिविष्टपसमं मन्ये तवायतनमेव ह

१२.१५०.२०बन्धुत्वादथ वा सख्याच्छल्मले नात्र संशयः
पालयत्येव सततं भीमः सर्वत्रगोऽनिलः

१२.१५०.२१न्यग्भावं परमं वायोः शल्मले त्वमुपागतः
तवाहमस्मीति सदा येन रक्षति मारुतः

१२.१५०.२२न तं पश्याम्यहं वृक्षं पर्वतं वापि तं दृढम्
यो न वायुबलाद्भग्नः पृथिव्यामिति मे मतिः

१२.१५०.२३त्वं पुनः कारणैर्नूनं शल्मले रक्ष्यसे सदा
वायुना सपरीवारस्तेन तिष्ठस्यसंशयम्

१२.१५०.२४शल्मलिरुवाच

१२.१५०.२५न मे वायुः सखा ब्रह्मन्न बन्धुर्न च मे सुहृत्
परमेष्ठी तथा नैव येन रक्षति मानिलः

१२.१५०.२६मम तेजोबलं वायोर्भीममपि हि नारद
कलामष्टादशीं प्राणैर्न मे प्राप्नोति मारुतः

१२.१५०.२७आगच्छन्परमो वायुर्मया विष्टम्भितो बलात्
रुजन्द्रुमान्पर्वतांश्च यच्चान्यदपि किंचन

१२.१५०.२८स मया बहुशो भग्नः प्रभञ्जन्वै प्रभञ्जनः
तस्मान्न बिभ्ये देवर्षे क्रुद्धादपि समीरणात्

१२.१५०.२९नारद उवाच

१२.१५०.३०शल्मले विपरीतं ते दर्शनं नात्र संशयः
न हि वायोर्बलेनास्ति भूतं तुल्यबलं क्वचित्

१२.१५०.३१इन्द्रो यमो वैश्रवणो वरुणश्च जलेश्वरः
न तेऽपि तुल्या मरुतः किं पुनस्त्वं वनस्पते

१२.१५०.३२यद्धि किंचिदिह प्राणि शल्मले चेष्टते भुवि
सर्वत्र भगवान्वायुश्चेष्टाप्राणकरः प्रभुः

१२.१५०.३३एष चेष्टयते सम्यक्प्राणिनः सम्यगायतः
असम्यगायतो भूयश्चेष्टते विकृतो नृषु

१२.१५०.३४स त्वमेवंविधं वायुं सर्वसत्त्वभृतां वरम्
न पूजयसि पूज्यं तं किमन्यद्बुद्धिलाघवात्

१२.१५०.३५असारश्चासि दुर्बुद्धे केवलं बहु भाषसे
क्रोधादिभिरवच्छन्नो मिथ्या वदसि शल्मले

१२.१५०.३६मम रोषः समुत्पन्नस्त्वय्येवं संप्रभाषति
ब्रवीम्येष स्वयं वायोस्तव दुर्भाषितं बहु

१२.१५०.३७चन्दनैः स्पन्दनैः शालैः सरलैर्देवदारुभिः
वेतसैर्बन्धनैश्चापि ये चान्ये बलवत्तराः

१२.१५०.३८तैश्चापि नैवं दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः
ते हि जानन्ति वायोश्च बलमात्मन एव च

१२.१५०.३९तस्मात्ते वै नमस्यन्ति श्वसनं द्रुमसत्तमाः
त्वं तु मोहान्न जानीषे वायोर्बलमनन्तकम्