१२.१५७.१युधिष्ठिर उवाच
१२.१५७.२यतः प्रभवति क्रोधः कामश्च भरतर्षभ
शोकमोहौ विवित्सा च परासुत्वं तथा मदः
१२.१५७.३लोभो मात्सर्यमीर्ष्या च कुत्सासूया कृपा तथा
एतत्सर्वं महाप्राज्ञ याथातथ्येन मे वद
१२.१५७.४भीष्म उवाच
१२.१५७.५त्रयोदशैतेऽतिबलाः शत्रवः प्राणिनां स्मृताः
उपासते महाराज समस्ताः पुरुषानिह
१२.१५७.६एते प्रमत्तं पुरुषमप्रमत्ता नुदन्ति हि
वृका इव विलुम्पन्ति दृष्ट्वैव पुरुषेतरान्
१२.१५७.७एभ्यः प्रवर्तते दुःखमेभ्यः पापं प्रवर्तते
इति मर्त्यो विजानीयात्सततं भरतर्षभ
१२.१५७.८एतेषामुदयं स्थानं क्षयं च पुरुषोत्तम
हन्त ते वर्तयिष्यामि तन्मे निगदतः शृणु
१२.१५७.९लोभात्क्रोधः प्रभवति परदोषैरुदीर्यते
क्षमया तिष्ठते राजञ्श्रीमांश्च विनिवर्तते
१२.१५७.१०संकल्पाज्जायते कामः सेव्यमानो विवर्धते
अवद्यदर्शनाद्व्येति तत्त्वज्ञानाच्च धीमताम्
१२.१५७.११विरुद्धानि हि शास्त्राणि पश्यन्तीहाल्पबुद्धयः
विवित्सा जायते तत्र तत्त्वज्ञानान्निवर्तते
१२.१५७.१२प्रीतेः शोकः प्रभवति वियोगात्तस्य देहिनः
यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति
१२.१५७.१३परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते
दयया सर्वभूतानां निर्वेदात्सा निवर्तते
१२.१५७.१४सत्त्वत्यागात्तु मात्सर्यमहितानि च सेवते
एतत्तु क्षीयते तात साधूनामुपसेवनात्
१२.१५७.१५कुलाज्ज्ञानात्तथैश्वर्यान्मदो भवति देहिनाम्
एभिरेव तु विज्ञातैर्मदः सद्यः प्रणश्यति
१२.१५७.१६ईर्ष्या कामात्प्रभवति संघर्षाच्चैव भारत
इतरेषां तु मर्त्यानां प्रज्ञया सा प्रणश्यति
१२.१५७.१७विभ्रमाल्लोकबाह्यानां द्वेष्यैर्वाक्यैरसंगतैः
कुत्सा संजायते राजन्नुपेक्षाभिः प्रशाम्यति
१२.१५७.१८प्रतिकर्तुमशक्याय बलस्थायापकारिणे
असूया जायते तीव्रा कारुण्याद्विनिवर्तते
१२.१५७.१९कृपणान्सततं दृष्ट्वा ततः संजायते कृपा
धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा
१२.१५७.२०एतान्येव जितान्याहुः प्रशमाच्च त्रयोदश
एते हि धार्तराष्ट्राणां सर्वे दोषास्त्रयोदश
त्वया सर्वात्मना नित्यं विजिता जेष्यसे च तान्