१२. शान्तिपर्व
१२.१५८.१युधिष्ठिर उवाच

१२.१५८.२आनृशंस्यं विजानामि दर्शनेन सतां सदा
नृशंसान्न विजानामि तेषां कर्म च भारत

१२.१५८.३कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम्

१२.१५८.४नृशंसो ह्यधमो नित्यं प्रेत्य चेह च भारत
तस्माद्ब्रवीहि कौरव्य तस्य धर्मविनिश्चयम्

१२.१५८.५भीष्म उवाच

१२.१५८.६स्पृहास्यान्तर्हिता चैव विदितार्था च कर्मणा
आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते च यः

१२.१५८.७दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकः शठः
असंभोगी च मानी च तथा सङ्गी विकत्थनः

१२.१५८.८सर्वातिशङ्की परुषो बालिशः कृपणस्तथा
वर्गप्रशंसी सततमाश्रमद्वेषसंकरी

१२.१५८.९हिंसाविहारी सततमविशेषगुणागुणः
बह्वलीको मनस्वी च लुब्धोऽत्यर्थं नृशंसकृत्

१२.१५८.१०धर्मशीलं गुणोपेतं पाप इत्यवगच्छति
आत्मशीलानुमानेन न विश्वसिति कस्यचित्

१२.१५८.११परेषां यत्र दोषः स्यात्तद्गुह्यं संप्रकाशयेत्
समानेष्वेव दोषेषु वृत्त्यर्थमुपघातयेत्

१२.१५८.१२तथोपकारिणं चैव मन्यते वञ्चितं परम्
दत्त्वापि च धनं काले संतपत्युपकारिणे

१२.१५८.१३भक्ष्यं भोज्यमथो लेह्यं यच्चान्यत्साधु भोजनम्
प्रेक्षमाणेषु योऽश्नीयान्नृशंस इति तं विदुः

१२.१५८.१४ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते
स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते

१२.१५८.१५एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः
सदा विवर्जनीयो वै पुरुषेण बुभूषता