१२.१६४.१भीष्म उवाच
१२.१६४.२गिरं तां मधुरां श्रुत्वा गौतमो विस्मितस्तदा
कौतूहलान्वितो राजन्राजधर्माणमैक्षत
१२.१६४.३राजधर्मोवाच
१२.१६४.४भोः कश्यपस्य पुत्रोऽहं माता दाक्षायणी च मे
अतिथिस्त्वं गुणोपेतः स्वागतं ते द्विजर्षभ
१२.१६४.५भीष्म उवाच
१२.१६४.६तस्मै दत्त्वा स सत्कारं विधिदृष्टेन कर्मणा
शालपुष्पमयीं दिव्यां बृसीं समुपकल्पयत्
१२.१६४.७भगीरथरथाक्रान्तान्देशान्गङ्गानिषेवितान्
ये चरन्ति महामीनास्तांश्च तस्यान्वकल्पयत्
१२.१६४.८वह्निं चापि सुसंदीप्तं मीनांश्चैव सुपीवरान्
स गौतमायातिथये न्यवेदयत काश्यपः
१२.१६४.९भुक्तवन्तं च तं विप्रं प्रीतात्मानं महामनाः
क्लमापनयनार्थं स पक्षाभ्यामभ्यवीजयत्
१२.१६४.१०ततो विश्रान्तमासीनं गोत्रप्रश्नमपृच्छत
सोऽब्रवीद्गौतमोऽस्मीति ब्राह्म नान्यदुदाहरत्
१२.१६४.११तस्मै पर्णमयं दिव्यं दिव्यपुष्पाधिवासितम्
गन्धाढ्यं शयनं प्रादात्स शिश्ये तत्र वै सुखम्
१२.१६४.१२अथोपविष्टं शयने गौतमं बकराट्तदा
पप्रच्छ काश्यपो वाग्मी किमागमनकारणम्
१२.१६४.१३ततोऽब्रवीद्गौतमस्तं दरिद्रोऽहं महामते
समुद्रगमनाकाङ्क्षी द्रव्यार्थमिति भारत
१२.१६४.१४तं काश्यपोऽब्रवीत्प्रीतो नोत्कण्ठां कर्तुमर्हसि
कृतकार्यो द्विजश्रेष्ठ सद्रव्यो यास्यसे गृहान्
१२.१६४.१५चतुर्विधा ह्यर्थगतिर्बृहस्पतिमतं यथा
पारंपर्यं तथा दैवं कर्म मित्रमिति प्रभो
१२.१६४.१६प्रादुर्भूतोऽस्मि ते मित्रं सुहृत्त्वं च मम त्वयि
सोऽहं तथा यतिष्यामि भविष्यसि यथार्थवान्
१२.१६४.१७ततः प्रभातसमये सुखं पृष्ट्वाब्रवीदिदम्
गच्छ सौम्य पथानेन कृतकृत्यो भविष्यसि
१२.१६४.१८इतस्त्रियोजनं गत्वा राक्षसाधिपतिर्महान्
विरूपाक्ष इति ख्यातः सखा मम महाबलः
१२.१६४.१९तं गच्छ द्विजमुख्य त्वं मम वाक्यप्रचोदितः
कामानभीप्सितांस्तुभ्यं दाता नास्त्यत्र संशयः
१२.१६४.२०इत्युक्तः प्रययौ राजन्गौतमो विगतक्लमः
फलान्यमृतकल्पानि भक्षयन्स्म यथेष्टतः
१२.१६४.२१चन्दनागुरुमुख्यानि त्वक्पत्राणां वनानि च
तस्मिन्पथि महाराज सेवमानो द्रुतं ययौ
१२.१६४.२२ततो मेरुव्रजं नाम नगरं शैलतोरणम्
शैलप्राकारवप्रं च शैलयन्त्रार्गलं तथा
१२.१६४.२३विदितश्चाभवत्तस्य राक्षसेन्द्रस्य धीमतः
प्रहितः सुहृदा राजन्प्रीयता वै प्रियातिथिः
१२.१६४.२४ततः स राक्षसेन्द्रः स्वान्प्रेष्यानाह युधिष्ठिर
गौतमो नगरद्वाराच्छीघ्रमानीयतामिति
१२.१६४.२५ततः पुरवरात्तस्मात्पुरुषाः श्वेतवेष्टनाः
गौतमेत्यभिभाषन्तः पुरद्वारमुपागमन्
१२.१६४.२६ते तमूचुर्महाराज प्रेष्या रक्षःपतेर्द्विजम्
त्वरस्व तूर्णमागच्छ राजा त्वां द्रष्टुमिच्छति
१२.१६४.२७राक्षसाधिपतिर्वीरो विरूपाक्ष इति श्रुतः
स त्वां त्वरति वै द्रष्टुं तत्क्षिप्रं संविधीयताम्
१२.१६४.२८ततः स प्राद्रवद्विप्रो विस्मयाद्विगतक्लमः
गौतमो नगरर्द्धिं तां पश्यन्परमविस्मितः
१२.१६४.२९तैरेव सहितो राज्ञो वेश्म तूर्णमुपाद्रवत्
दर्शनं राक्षसेन्द्रस्य काङ्क्षमाणो द्विजस्तदा