१२.१६३.१भीष्म उवाच
१२.१६३.२तस्यां निशायां व्युष्टायां गते तस्मिन्द्विजोत्तमे
निष्क्रम्य गौतमोऽगच्छत्समुद्रं प्रति भारत
१२.१६३.३सामुद्रकान्स वणिजस्ततोऽपश्यत्स्थितान्पथि
स तेन सार्थेन सह प्रययौ सागरं प्रति
१२.१६३.४स तु सार्थो महाराज कस्मिंश्चिद्गिरिगह्वरे
मत्तेन द्विरदेनाथ निहतः प्रायशोऽभवत्
१२.१६३.५स कथंचित्ततस्तस्मात्सार्थान्मुक्तो द्विजस्तदा
कांदिग्भूतो जीवितार्थी प्रदुद्रावोत्तरां दिशम्
१२.१६३.६स सर्वतः परिभ्रष्टः सार्थाद्देशात्तथार्थतः
एकाकी व्यद्रवत्तत्र वने किंपुरुषो यथा
१२.१६३.७स पन्थानमथासाद्य समुद्राभिसरं तदा
आससाद वनं रम्यं महत्पुष्पितपादपम्
१२.१६३.८सर्वर्तुकैराम्रवनैः पुष्पितैरुपशोभितम्
नन्दनोद्देशसदृशं यक्षकिंनरसेवितम्
१२.१६३.९शालतालधवाश्वत्थत्वचागुरुवनैस्तथा
चन्दनस्य च मुख्यस्य पादपैरुपशोभितम्
गिरिप्रस्थेषु रम्येषु शुभेषु सुसुगन्धिषु
१२.१६३.१०समन्ततो द्विजश्रेष्ठा वल्गु कूजन्ति तत्र वै
मनुष्यवदनास्त्वन्ये भारुण्डा इति विश्रुताः
भूलिङ्गशकुनाश्चान्ये समुद्रं सर्वतोऽभवन्
१२.१६३.११स तान्यतिमनोज्ञानि विहंगाभिरुतानि वै
शृण्वन्सुरमणीयानि विप्रोऽगच्छत गौतमः
१२.१६३.१२ततोऽपश्यत्सुरम्ये स सुवर्णसिकताचिते
देशभागे समे चित्रे स्वर्गोद्देशसमप्रभे
१२.१६३.१३श्रिया जुष्टं महावृक्षं न्यग्रोधं परिमण्डलम्
शाखाभिरनुरूपाभिर्भूषितं छत्रसंनिभम्
१२.१६३.१४तस्य मूलं सुसंसिक्तं वरचन्दनवारिणा
दिव्यपुष्पान्वितं श्रीमत्पितामहसदोपमम्
१२.१६३.१५तं दृष्ट्वा गौतमः प्रीतो मुनिकान्तमनुत्तमम्
मेध्यं सुरगृहप्रख्यं पुष्पितैः पादपैर्वृतम्
तमागम्य मुदा युक्तस्तस्याधस्तादुपाविशत्
१२.१६३.१६तत्रासीनस्य कौरव्य गौतमस्य सुखः शिवः
पुष्पाणि समुपस्पृश्य प्रववावनिलः शुचिः
ह्लादयन्सर्वगात्राणि गौतमस्य तदा नृप
१२.१६३.१७स तु विप्रः परिश्रान्तः स्पृष्टः पुण्येन वायुना
सुखमासाद्य सुष्वाप भास्करश्चास्तमभ्यगात्
१२.१६३.१८ततोऽस्तं भास्करे याते संध्याकाल उपस्थिते
आजगाम स्वभवनं ब्रह्मलोकात्खगोत्तमः
१२.१६३.१९नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः सखा
बकराजो महाप्राज्ञः कश्यपस्यात्मसंभवः
१२.१६३.२०राजधर्मेति विख्यातो बभूवाप्रतिमो भुवि
देवकन्यासुतः श्रीमान्विद्वान्देवपतिप्रभः
१२.१६३.२१मृष्टहाटकसंछन्नो भूषणैरर्कसंनिभैः
भूषितः सर्वगात्रेषु देवगर्भः श्रिया ज्वलन्
१२.१६३.२२तमागतं द्विजं दृष्ट्वा विस्मितो गौतमोऽभवत्
क्षुत्पिपासापरीतात्मा हिंसार्थी चाप्यवैक्षत
१२.१६३.२३राजधर्मोवाच
१२.१६३.२४स्वागतं भवते विप्र दिष्ट्या प्राप्तोऽसि मे गृहम्
अस्तं च सविता यातः संध्येयं समुपस्थिता
१२.१६३.२५मम त्वं निलयं प्राप्तः प्रियातिथिरनिन्दितः
पूजितो यास्यसि प्रातर्विधिदृष्टेन कर्मणा