१२. शान्तिपर्व
१२.१६७.१भीष्म उवाच

१२.१६७.२ततश्चितां बकपतेः कारयामास राक्षसः
रत्नैर्गन्धैश्च बहुभिर्वस्त्रैश्च समलंकृताम्

१२.१६७.३तत्र प्रज्वाल्य नृपते बकराजं प्रतापवान्
प्रेतकार्याणि विधिवद्राक्षसेन्द्रश्चकार ह

१२.१६७.४तस्मिन्कालेऽथ सुरभिर्देवी दाक्षायणी शुभा
उपरिष्टात्ततस्तस्य सा बभूव पयस्विनी

१२.१६७.५तस्या वक्त्राच्च्युतः फेनः क्षीरमिश्रस्तदानघ
सोऽपतद्वै ततस्तस्यां चितायां राजधर्मणः

१२.१६७.६ततः संजीवितस्तेन बकराजस्तदानघ
उत्पत्य च समेयाय विरूपाक्षं बकाधिपः

१२.१६७.७ततोऽभ्ययाद्देवराजो विरूपाक्षपुरं तदा
प्राह चेदं विरूपाक्षं दिष्ट्यायं जीवतीत्युत

१२.१६७.८श्रावयामास चेन्द्रस्तं विरूपाक्षं पुरातनम्
यथा शापः पुरा दत्तो ब्रह्मणा राजधर्मणः

१२.१६७.९यदा बकपती राजन्ब्रह्माणं नोपसर्पति
ततो रोषादिदं प्राह बकेन्द्राय पितामहः

१२.१६७.१०यस्मान्मूढो मम सदो नागतोऽसौ बकाधमः
तस्माद्वधं स दुष्टात्मा नचिरात्समवाप्स्यति

१२.१६७.११तदायं तस्य वचनान्निहतो गौतमेन वै
तेनैवामृतसिक्तश्च पुनः संजीवितो बकः

१२.१६७.१२राजधर्मा ततः प्राह प्रणिपत्य पुरंदरम्
यदि तेऽनुग्रहकृता मयि बुद्धिः पुरंदर
सखायं मे सुदयितं गौतमं जीवयेत्युत

१२.१६७.१३तस्य वाक्यं समाज्ञाय वासवः पुरुषर्षभ
संजीवयित्वा सख्ये वै प्रादात्तं गौतमं तदा

१२.१६७.१४सभाण्डोपस्करं राजंस्तमासाद्य बकाधिपः
संपरिष्वज्य सुहृदं प्रीत्या परमया युतः

१२.१६७.१५अथ तं पापकर्माणं राजधर्मा बकाधिपः
विसर्जयित्वा सधनं प्रविवेश स्वमालयम्

१२.१६७.१६यथोचितं च स बको ययौ ब्रह्मसदस्तदा
ब्रह्मा च तं महात्मानमातिथ्येनाभ्यपूजयत्

१२.१६७.१७गौतमश्चापि संप्राप्य पुनस्तं शबरालयम्
शूद्रायां जनयामास पुत्रान्दुष्कृतकारिणः

१२.१६७.१८शापश्च सुमहांस्तस्य दत्तः सुरगणैस्तदा
कुक्षौ पुनर्भ्वां भार्यायां जनयित्वा चिरात्सुतान्
निरयं प्राप्स्यति महत्कृतघ्नोऽयमिति प्रभो

१२.१६७.१९एतत्प्राह पुरा सर्वं नारदो मम भारत
संस्मृत्य चापि सुमहदाख्यानं पुरुषर्षभ
मयापि भवते सर्वं यथावदुपवर्णितम्

१२.१६७.२०कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम्
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः

१२.१६७.२१मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः
मित्रध्रुङ्निरयं घोरमनन्तं प्रतिपद्यते

१२.१६७.२२कृतज्ञेन सदा भाव्यं मित्रकामेन चानघ
मित्रात्प्रभवते सत्यं मित्रात्प्रभवते बलम्
सत्कारैरुत्तमैर्मित्रं पूजयेत विचक्षणः

१२.१६७.२३परित्याज्यो बुधैः पापः कृतघ्नो निरपत्रपः
मित्रद्रोही कुलाङ्गारः पापकर्मा नराधमः

१२.१६७.२४एष धर्मभृतां श्रेष्ठ प्रोक्तः पापो मया तव
मित्रद्रोही कृतघ्नो वै किं भूयः श्रोतुमिच्छसि

१२.१६७.२५वैशंपायन उवाच

१२.१६७.२६एतच्छ्रुत्वा तदा वाक्यं भीष्मेणोक्तं महात्मना
युधिष्ठिरः प्रीतमना बभूव जनमेजय