१२. शान्तिपर्व
१२.१६८.१युधिष्ठिर उवाच

१२.१६८.२धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि पार्थिव

१२.१६८.३भीष्म उवाच

१२.१६८.४सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलं तपः
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया

१२.१६८.५यस्मिन्यस्मिंस्तु विनये यो यो याति विनिश्चयम्
स तमेवाभिजानाति नान्यं भरतसत्तम

१२.१६८.६यथा यथा च पर्येति लोकतन्त्रमसारवत्
तथा तथा विरागोऽत्र जायते नात्र संशयः

१२.१६८.७एवं व्यवसिते लोके बहुदोषे युधिष्ठिर
आत्ममोक्षनिमित्तं वै यतेत मतिमान्नरः

१२.१६८.८युधिष्ठिर उवाच

१२.१६८.९नष्टे धने वा दारे वा पुत्रे पितरि वा मृते
यया बुद्ध्या नुदेच्छोकं तन्मे ब्रूहि पितामह

१२.१६८.१०भीष्म उवाच

१२.१६८.११नष्टे धने वा दारे वा पुत्रे पितरि वा मृते
अहो दुःखमिति ध्यायञ्शोकस्यापचितिं चरेत्

१२.१६८.१२अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यथा सेनजितं विप्रः कश्चिदित्यब्रवीद्वचः

१२.१६८.१३पुत्रशोकाभिसंतप्तं राजानं शोकविह्वलम्
विषण्णवदनं दृष्ट्वा विप्रो वचनमब्रवीत्

१२.१६८.१४किं नु खल्वसि मूढस्त्वं शोच्यः किमनुशोचसि
यदा त्वामपि शोचन्तः शोच्या यास्यन्ति तां गतिम्

१२.१६८.१५त्वं चैवाहं च ये चान्ये त्वां राजन्पर्युपासते
सर्वे तत्र गमिष्यामो यत एवागता वयम्

१२.१६८.१६सेनजिदुवाच

१२.१६८.१७का बुद्धिः किं तपो विप्र कः समाधिस्तपोधन
किं ज्ञानं किं श्रुतं वा ते यत्प्राप्य न विषीदसि

१२.१६८.१८ब्राह्मण उवाच

१२.१६८.१९पश्य भूतानि दुःखेन व्यतिषक्तानि सर्वशः
आत्मापि चायं न मम सर्वा वा पृथिवी मम

१२.१६८.२०यथा मम तथान्येषामिति बुद्ध्या न मे व्यथा
एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे

१२.१६८.२१यथा काष्ठं च काष्ठं च समेयातां महोदधौ
समेत्य च व्यपेयातां तद्वद्भूतसमागमः

१२.१६८.२२एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा
तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम्

१२.१६८.२३अदर्शनादापतितः पुनश्चादर्शनं गतः
न त्वासौ वेद न त्वं तं कः सन्कमनुशोचसि

१२.१६८.२४तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम्
सुखात्संजायते दुःखमेवमेतत्पुनः पुनः
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्

१२.१६८.२५सुखात्त्वं दुःखमापन्नः पुनरापत्स्यसे सुखम्
न नित्यं लभते दुःखं न नित्यं लभते सुखम्

१२.१६८.२६नालं सुखाय सुहृदो नालं दुःखाय शत्रवः
न च प्रज्ञालमर्थानां न सुखानामलं धनम्

१२.१६८.२७न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः

१२.१६८.२८बुद्धिमन्तं च मूढं च शूरं भीरुं जडं कविम्
दुर्बलं बलवन्तं च भागिनं भजते सुखम्

१२.१६८.२९धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च
पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः

१२.१६८.३०ये च मूढतमा लोके ये च बुद्धेः परं गताः
ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः

१२.१६८.३१अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे
अन्त्यप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः

१२.१६८.३२ये तु बुद्धिसुखं प्राप्ता द्वंद्वातीता विमत्सराः
तान्नैवार्था न चानर्था व्यथयन्ति कदाचन

१२.१६८.३३अथ ये बुद्धिमप्राप्ता व्यतिक्रान्ताश्च मूढताम्
तेऽतिवेलं प्रहृष्यन्ति संतापमुपयान्ति च

१२.१६८.३४नित्यप्रमुदिता मूढा दिवि देवगणा इव
अवलेपेन महता परिदृब्धा विचेतसः

१२.१६८.३५सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम्
भूतिश्चैव श्रिया सार्धं दक्षे वसति नालसे

१२.१६८.३६सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम्
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः

१२.१६८.३७शोकस्थानसहस्राणि हर्षस्थानशतानि च
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्

१२.१६८.३८बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुमनसूयकम्
दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम्

१२.१६८.३९एतां बुद्धिं समास्थाय गुप्तचित्तश्चरेद्बुधः
उदयास्तमयज्ञं हि न शोकः स्प्रष्टुमर्हति

१२.१६८.४०यन्निमित्तं भवेच्छोकस्त्रासो वा दुःखमेव वा
आयासो वा यतोमूलस्तदेकाङ्गमपि त्यजेत्

१२.१६८.४१यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते
कामानुसारी पुरुषः कामाननु विनश्यति

१२.१६८.४२यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्

१२.१६८.४३पूर्वदेहकृतं कर्म शुभं वा यदि वाशुभम्
प्राज्ञं मूढं तथा शूरं भजते यादृशं कृतम्

१२.१६८.४४एवमेव किलैतानि प्रियाण्येवाप्रियाणि च
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च

१२.१६८.४५तदेवं बुद्धिमास्थाय सुखं जीवेद्गुणान्वितः
सर्वान्कामाञ्जुगुप्सेत सङ्गान्कुर्वीत पृष्ठतः
वृत्त एष हृदि प्रौढो मृत्युरेष मनोमयः

१२.१६८.४६यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः
तदात्मज्योतिरात्मा च आत्मन्येव प्रसीदति

१२.१६८.४७किंचिदेव ममत्वेन यदा भवति कल्पितम्
तदेव परितापार्थं सर्वं संपद्यते तदा

१२.१६८.४८न बिभेति यदा चायं यदा चास्मान्न बिभ्यति
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा

१२.१६८.४९उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये
प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यसि

१२.१६८.५०यदा न कुरुते धीरः सर्वभूतेषु पापकम्
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा

१२.१६८.५१या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्

१२.१६८.५२अत्र पिङ्गलया गीता गाथाः श्रूयन्ति पार्थिव
यथा सा कृच्छ्रकालेऽपि लेभे धर्मं सनातनम्

१२.१६८.५३संकेते पिङ्गला वेश्या कान्तेनासीद्विनाकृता
अथ कृच्छ्रगता शान्तां बुद्धिमास्थापयत्तदा

१२.१६८.५४पिङ्गलोवाच

१२.१६८.५५उन्मत्ताहमनुन्मत्तं कान्तमन्ववसं चिरम्
अन्तिके रमणं सन्तं नैनमध्यगमं पुरा

१२.१६८.५६एकस्थूणं नवद्वारमपिधास्याम्यगारकम्
का हि कान्तमिहायान्तमयं कान्तेति मंस्यते

१२.१६८.५७अकामाः कामरूपेण धूर्ता नरकरूपिणः
न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धास्मि जागृमि

१२.१६८.५८अनर्थोऽपि भवत्यर्थो दैवात्पूर्वकृतेन वा
संबुद्धाहं निराकारा नाहमद्याजितेन्द्रिया

१२.१६८.५९सुखं निराशः स्वपिति नैराश्यं परमं सुखम्
आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला

१२.१६८.६०भीष्म उवाच

१२.१६८.६१एतैश्चान्यैश्च विप्रस्य हेतुमद्भिः प्रभाषितैः
पर्यवस्थापितो राजा सेनजिन्मुमुदे सुखम्