१२. शान्तिपर्व
१२.१७०.१युधिष्ठिर उवाच

१२.१७०.२धनिनो वाधना ये च वर्तयन्ति स्वतन्त्रिणः
सुखदुःखागमस्तेषां कः कथं वा पितामह

१२.१७०.३भीष्म उवाच

१२.१७०.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
शम्याकेन विमुक्तेन गीतं शान्तिगतेन ह

१२.१७०.५अब्रवीन्मां पुरा कश्चिद्ब्राह्मणस्त्यागमास्थितः
क्लिश्यमानः कुदारेण कुचैलेन बुभुक्षया

१२.१७०.६उत्पन्नमिह लोके वै जन्मप्रभृति मानवम्
विविधान्युपवर्तन्ते दुःखानि च सुखानि च

१२.१७०.७तयोरेकतरे मार्गे यद्येनमभिसंनयेत्
न सुखं प्राप्य संहृष्येन्न दुःखं प्राप्य संज्वरेत्

१२.१७०.८न वै चरसि यच्छ्रेय आत्मनो वा यदीहसे
अकामात्मापि हि सदा धुरमुद्यम्य चैव हि

१२.१७०.९अकिंचनः परिपतन्सुखमास्वादयिष्यसि
अकिंचनः सुखं शेते समुत्तिष्ठति चैव हि

१२.१७०.१०आकिंचन्यं सुखं लोके पथ्यं शिवमनामयम्
अनमित्रमथो ह्येतद्दुर्लभं सुलभं सताम्

१२.१७०.११अकिंचनस्य शुद्धस्य उपपन्नस्य सर्वशः
अवेक्षमाणस्त्रीँल्लोकान्न तुल्यमुपलक्षये

१२.१७०.१२आकिंचन्यं च राज्यं च तुलया समतोलयम्
अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम्

१२.१७०.१३आकिंचन्ये च राज्ये च विशेषः सुमहानयम्
नित्योद्विग्नो हि धनवान्मृत्योरास्यगतो यथा

१२.१७०.१४नैवास्याग्निर्न चादित्यो न मृत्युर्न च दस्यवः
प्रभवन्ति धनज्यानिनिर्मुक्तस्य निराशिषः

१२.१७०.१५तं वै सदा कामचरमनुपस्तीर्णशायिनम्
बाहूपधानं शाम्यन्तं प्रशंसन्ति दिवौकसः

१२.१७०.१६धनवान्क्रोधलोभाभ्यामाविष्टो नष्टचेतनः
तिर्यगीक्षः शुष्कमुखः पापको भ्रुकुटीमुखः

१२.१७०.१७निर्दशंश्चाधरोष्ठं च क्रुद्धो दारुणभाषिता
कस्तमिच्छेत्परिद्रष्टुं दातुमिच्छति चेन्महीम्

१२.१७०.१८श्रिया ह्यभीक्ष्णं संवासो मोहयत्यविचक्षणम्
सा तस्य चित्तं हरति शारदाभ्रमिवानिलः

१२.१७०.१९अथैनं रूपमानश्च धनमानश्च विन्दति
अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः
इत्येभिः कारणैस्तस्य त्रिभिश्चित्तं प्रसिच्यते

१२.१७०.२०स प्रसिक्तमना भोगान्विसृज्य पितृसंचितान्
परिक्षीणः परस्वानामादानं साधु मन्यते

१२.१७०.२१तमतिक्रान्तमर्यादमाददानं ततस्ततः
प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः

१२.१७०.२२एवमेतानि दुःखानि तानि तानीह मानवम्
विविधान्युपवर्तन्ते गात्रसंस्पर्शजानि च

१२.१७०.२३तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत्
लोकधर्मं समाज्ञाय ध्रुवाणामध्रुवैः सह

१२.१७०.२४नात्यक्त्वा सुखमाप्नोति नात्यक्त्वा विन्दते परम्
नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव

१२.१७०.२५इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम्
शम्याकेन पुरा मह्यं तस्मात्त्यागः परो मतः