१२. शान्तिपर्व
१२.१६९.१युधिष्ठिर उवाच

१२.१६९.२अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे
किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह

१२.१६९.३भीष्म उवाच

१२.१६९.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
पितुः पुत्रेण संवादं तन्निबोध युधिष्ठिर

१२.१६९.५द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै
बभूव पुत्रो मेधावी मेधावी नाम नामतः

१२.१६९.६सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम्
मोक्षधर्मार्थकुशलो लोकतत्त्वविचक्षणः

१२.१६९.७धीरः किं स्वित्तात कुर्यात्प्रजान;न्क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम्
पितस्तदाचक्ष्व यथार्थयोगं; ममानुपूर्व्या येन धर्मं चरेयम्

१२.१६९.८पितोवाच

१२.१६९.९वेदानधीत्य ब्रह्मचर्येण पुत्र; पुत्रानिच्छेत्पावनार्थं पितॄणाम्
अग्नीनाधाय विधिवच्चेष्टयज्ञो; वनं प्रविश्याथ मुनिर्बुभूषेत्

१२.१६९.१०पुत्र उवाच

१२.१६९.११एवमभ्याहते लोके समन्तात्परिवारिते
अमोघासु पतन्तीषु किं धीर इव भाषसे

१२.१६९.१२पितोवाच

१२.१६९.१३कथमभ्याहतो लोकः केन वा परिवारितः
अमोघाः काः पतन्तीह किं नु भीषयसीव माम्

१२.१६९.१४पुत्र उवाच

१२.१६९.१५मृत्युनाभ्याहतो लोको जरया परिवारितः
अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे

१२.१६९.१६यदाहमेतज्जानामि न मृत्युस्तिष्ठतीति ह
सोऽहं कथं प्रतीक्षिष्ये जालेनापिहितश्चरन्

१२.१६९.१७रात्र्यां रात्र्यां व्यतीतायामायुरल्पतरं यदा
गाधोदके मत्स्य इव सुखं विन्देत कस्तदा
तदेव वन्ध्यं दिवसमिति विद्याद्विचक्षणः

१२.१६९.१८अनवाप्तेषु कामेषु मृत्युरभ्येति मानवम्
शष्पाणीव विचिन्वन्तमन्यत्रगतमानसम्
वृकीवोरणमासाद्य मृत्युरादाय गच्छति

१२.१६९.१९अद्यैव कुरु यच्छ्रेयो मा त्वा कालोऽत्यगादयम्
अकृतेष्वेव कार्येषु मृत्युर्वै संप्रकर्षति

१२.१६९.२०श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्
न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम्
को हि जानाति कस्याद्य मृत्युसेना निवेक्ष्यते

१२.१६९.२१युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम्
कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम्

१२.१६९.२२मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः
कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति

१२.१६९.२३तं पुत्रपशुसंमत्तं व्यासक्तमनसं नरम्
सुप्तं व्याघ्रं महौघो वा मृत्युरादाय गच्छति

१२.१६९.२४संचिन्वानकमेवैकं कामानामवितृप्तकम्
व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति

१२.१६९.२५इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम्
एवमीहासुखासक्तं कृतान्तः कुरुते वशे

१२.१६९.२६कृतानां फलमप्राप्तं कर्मणां फलसङ्गिनम्
क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति

१२.१६९.२७मृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम्
अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि

१२.१६९.२८जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम्
अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः

१२.१६९.२९मृत्योर्वा गृहमेवैतद्या ग्रामे वसतो रतिः
देवानामेष वै गोष्ठो यदरण्यमिति श्रुतिः

१२.१६९.३०निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः
छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः

१२.१६९.३१न हिंसयति यः प्राणान्मनोवाक्कायहेतुभिः
जीवितार्थापनयनैः कर्मभिर्न स बध्यते

१२.१६९.३२न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते
ऋते सत्यमसंत्याज्यं सत्ये ह्यमृतमाश्रितम्

१२.१६९.३३तस्मात्सत्यव्रताचारः सत्ययोगपरायणः
सत्यारामः समो दान्तः सत्येनैवान्तकं जयेत्

१२.१६९.३४अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम्
मृत्युमापद्यते मोहात्सत्येनापद्यतेऽमृतम्

१२.१६९.३५सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः
समदुःखसुखः क्षेमी मृत्युं हास्याम्यमर्त्यवत्

१२.१६९.३६शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः
वाङ्मनःकर्मयज्ञश्च भविष्याम्युदगायने

१२.१६९.३७पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति
अन्तवद्भिरुत प्राज्ञः क्षत्रयज्ञैः पिशाचवत्

१२.१६९.३८यस्य वाङ्मनसी स्यातां सम्यक्प्रणिहिते सदा
तपस्त्यागश्च योगश्च स वै सर्वमवाप्नुयात्

१२.१६९.३९नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं बलम्
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्

१२.१६९.४०आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोऽपि वा
आत्मन्येव भविष्यामि न मां तारयति प्रजा

१२.१६९.४१नैतादृशं ब्राह्मणस्यास्ति वित्तं; यथैकता समता सत्यता च
शीले स्थितिर्दण्डनिधानमार्जवं; ततस्ततश्चोपरमः क्रियाभ्यः

१२.१६९.४२किं ते धनैर्बान्धवैर्वापि किं ते; किं ते दारैर्ब्राह्मण यो मरिष्यसि
आत्मानमन्विच्छ गुहां प्रविष्टं; पितामहस्ते क्व गतः पिता च

१२.१६९.४३भीष्म उवाच

१२.१६९.४४पुत्रस्यैतद्वचः श्रुत्वा तथाकार्षीत्पिता नृप
तथा त्वमपि वर्तस्व सत्यधर्मपरायणः