१२. शान्तिपर्व
१२.१७२.१युधिष्ठिर उवाच

१२.१७२.२केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम्
किं च कुर्वन्नरो लोके प्राप्नोति परमां गतिम्

१२.१७२.३भीष्म उवाच

१२.१७२.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
प्रह्रादस्य च संवादं मुनेराजगरस्य च

१२.१७२.५चरन्तं ब्राह्मणं कंचित्कल्यचित्तमनामयम्
पप्रच्छ राजन्प्रह्रादो बुद्धिमान्प्राज्ञसंमतः

१२.१७२.६स्वस्थः शक्तो मृदुर्दान्तो निर्विवित्सोऽनसूयकः
सुवाग्बहुमतो लोके प्राज्ञश्चरसि बालवत्

१२.१७२.७नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि
नित्यतृप्त इव ब्रह्मन्न किंचिदवमन्यसे

१२.१७२.८स्रोतसा ह्रियमाणासु प्रजास्वविमना इव
धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे

१२.१७२.९नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे
इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत्

१२.१७२.१०का नु प्रज्ञा श्रुतं वा किं वृत्तिर्वा का नु ते मुने
क्षिप्रमाचक्ष्व मे ब्रह्मञ्श्रेयो यदिह मन्यसे

१२.१७२.११अनुयुक्तः स मेधावी लोकधर्मविधानवित्
उवाच श्लक्ष्णया वाचा प्रह्रादमनपार्थया

१२.१७२.१२पश्यन्प्रह्राद भूतानामुत्पत्तिमनिमित्ततः
ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे

१२.१७२.१३स्वभावादेव संदृश्य वर्तमानाः प्रवृत्तयः
स्वभावनिरताः सर्वाः परितप्ये न केनचित्

१२.१७२.१४पश्यन्प्रह्राद संयोगान्विप्रयोगपरायणान्
संचयांश्च विनाशान्तान्न क्वचिद्विदधे मनः

१२.१७२.१५अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः
उत्पत्तिनिधनज्ञस्य किं कार्यमवशिष्यते

१२.१७२.१६जलजानामपि ह्यन्तं पर्यायेणोपलक्षये
महतामपि कायानां सूक्ष्माणां च महोदधौ

१२.१७२.१७जङ्गमस्थावराणां च भूतानामसुराधिप
पार्थिवानामपि व्यक्तं मृत्युं पश्यामि सर्वशः

१२.१७२.१८अन्तरिक्षचराणां च दानवोत्तम पक्षिणाम्
उत्तिष्ठति यथाकालं मृत्युर्बलवतामपि

१२.१७२.१९दिवि संचरमाणानि ह्रस्वानि च महान्ति च
ज्योतींषि च यथाकालं पतमानानि लक्षये

१२.१७२.२०इति भूतानि संपश्यन्ननुषक्तानि मृत्युना
सर्वसामान्यतो विद्वान्कृतकृत्यः सुखं स्वपे

१२.१७२.२१सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया
शये पुनरभुञ्जानो दिवसानि बहून्यपि

१२.१७२.२२आस्रवत्यपि मामन्नं पुनर्बहुगुणं बहु
पुनरल्पगुणं स्तोकं पुनर्नैवोपपद्यते

१२.१७२.२३कणान्कदाचित्खादामि पिण्याकमपि च ग्रसे
भक्षये शालिमांसानि भक्षांश्चोच्चावचान्पुनः

१२.१७२.२४शये कदाचित्पर्यङ्के भूमावपि पुनः शये
प्रासादेऽपि च मे शय्या कदाचिदुपपद्यते

१२.१७२.२५धारयामि च चीराणि शाणीं क्षौमाजिनानि च
महार्हाणि च वासांसि धारयाम्यहमेकदा

१२.१७२.२६न संनिपतितं धर्म्यमुपभोगं यदृच्छया
प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम्

१२.१७२.२७अचलमनिधनं शिवं विशोकं; शुचिमतुलं विदुषां मते निविष्टम्
अनभिमतमसेवितं च मूढै;र्व्रतमिदमाजगरं शुचिश्चरामि

१२.१७२.२८अचलितमतिरच्युतः स्वधर्मा;त्परिमितसंसरणः परावरज्ञः
विगतभयकषायलोभमोहो; व्रतमिदमाजगरं शुचिश्चरामि

१२.१७२.२९अनियतफलभक्ष्यभोज्यपेयं; विधिपरिणामविभक्तदेशकालम्
हृदयसुखमसेवितं कदर्यै;र्व्रतमिदमाजगरं शुचिश्चरामि

१२.१७२.३०इदमिदमिति तृष्णयाभिभूतं; जनमनवाप्तधनं विषीदमानम्
निपुणमनुनिशाम्य तत्त्वबुद्ध्या; व्रतमिदमाजगरं शुचिश्चरामि

१२.१७२.३१बहुविधमनुदृश्य चार्थहेतोः; कृपणमिहार्यमनार्यमाश्रयन्तम्
उपशमरुचिरात्मवान्प्रशान्तो; व्रतमिदमाजगरं शुचिश्चरामि

१२.१७२.३२सुखमसुखमनर्थमर्थलाभं; रतिमरतिं मरणं च जीवितं च
विधिनियतमवेक्ष्य तत्त्वतोऽहं; व्रतमिदमाजगरं शुचिश्चरामि

१२.१७२.३३अपगतभयरागमोहदर्पो; धृतिमतिबुद्धिसमन्वितः प्रशान्तः
उपगतफलभोगिनो निशाम्य; व्रतमिदमाजगरं शुचिश्चरामि

१२.१७२.३४अनियतशयनासनः प्रकृत्या; दमनियमव्रतसत्यशौचयुक्तः
अपगतफलसंचयः प्रहृष्टो; व्रतमिदमाजगरं शुचिश्चरामि

१२.१७२.३५अभिगतमसुखार्थमीहनार्थै;रुपगतबुद्धिरवेक्ष्य चात्मसंस्थः
तृषितमनियतं मनो नियन्तुं; व्रतमिदमाजगरं शुचिश्चरामि

१२.१७२.३६न हृदयमनुरुध्यते मनो वा; प्रियसुखदुर्लभतामनित्यतां च
तदुभयमुपलक्षयन्निवाहं; व्रतमिदमाजगरं शुचिश्चरामि

१२.१७२.३७बहु कथितमिदं हि बुद्धिमद्भिः; कविभिरभिप्रथयद्भिरात्मकीर्तिम्
इदमिदमिति तत्र तत्र तत्त;त्स्वपरमतैर्गहनं प्रतर्कयद्भिः

१२.१७२.३८तदहमनुनिशाम्य विप्रयातं; पृथगभिपन्नमिहाबुधैर्मनुष्यैः
अनवसितमनन्तदोषपारं; नृषु विहरामि विनीतरोषतृष्णः

१२.१७२.३९भीष्म उवाच

१२.१७२.४०अजगरचरितं व्रतं महात्मा; य इह नरोऽनुचरेद्विनीतरागः
अपगतभयमन्युलोभमोहः; स खलु सुखी विहरेदिमं विहारम्