१२. शान्तिपर्व
१२.१८०.१भृगुरुवाच

१२.१८०.२न प्रणाशोऽस्ति जीवानां दत्तस्य च कृतस्य च
याति देहान्तरं प्राणी शरीरं तु विशीर्यते

१२.१८०.३न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति
यथा समित्सु दग्धासु न प्रणश्यति पावकः

१२.१८०.४भरद्वाज उवाच

१२.१८०.५अग्नेर्यथा तथा तस्य यदि नाशो न विद्यते
इन्धनस्योपयोगान्ते स चाग्निर्नोपलभ्यते

१२.१८०.६नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम्
गतिर्यस्य प्रमाणं वा संस्थानं वा न दृश्यते

१२.१८०.७भृगुरुवाच

१२.१८०.८समिधामुपयोगान्ते सन्नेवाग्निर्न दृश्यते
आकाशानुगतत्वाद्धि दुर्ग्रहः स निराश्रयः

१२.१८०.९तथा शरीरसंत्यागे जीवो ह्याकाशवत्स्थितः
न गृह्यते सुसूक्ष्मत्वाद्यथा ज्योतिर्न संशयः

१२.१८०.१०प्राणान्धारयते ह्यग्निः स जीव उपधार्यताम्
वायुसंधारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात्

१२.१८०.११तस्मिन्नष्टे शरीराग्नौ शरीरं तदचेतनम्
पतितं याति भूमित्वमयनं तस्य हि क्षितिः

१२.१८०.१२जङ्गमानां हि सर्वेषां स्थावराणां तथैव च
आकाशं पवनोऽभ्येति ज्योतिस्तमनुगच्छति
तत्र त्रयाणामेकत्वं द्वयं भूमौ प्रतिष्ठितम्

१२.१८०.१३यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः
अमूर्तयस्ते विज्ञेया आपो मूर्तास्तथा क्षितिः

१२.१८०.१४भरद्वाज उवाच

१२.१८०.१५यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु
जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ

१२.१८०.१६पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंयुते
शरीरे प्राणिनां जीवं ज्ञातुमिच्छामि यादृशम्

१२.१८०.१७मांसशोणितसंघाते मेदःस्नाय्वस्थिसंचये
भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते

१२.१८०.१८यद्यजीवं शरीरं तु पञ्चभूतसमन्वितम्
शारीरे मानसे दुःखे कस्तां वेदयते रुजम्

१२.१८०.१९शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत्
महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः

१२.१८०.२०सर्वं पश्यति यद्दृश्यं मनोयुक्तेन चक्षुषा
मनसि व्याकुले तद्धि पश्यन्नपि न पश्यति

१२.१८०.२१न पश्यति न च ब्रूते न शृणोति न जिघ्रति
न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः

१२.१८०.२२हृष्यति क्रुध्यति च कः शोचत्युद्विजते च कः
इच्छति ध्यायति द्वेष्टि वाचमीरयते च कः

१२.१८०.२३भृगुरुवाच

१२.१८०.२४न पञ्चसाधारणमत्र किंचि;च्छरीरमेको वहतेऽन्तरात्मा
स वेत्ति गन्धांश्च रसाञ्श्रुतिं च; स्पर्शं च रूपं च गुणाश्च येऽन्ये

१२.१८०.२५पञ्चात्मके पञ्चगुणप्रदर्शी; स सर्वगात्रानुगतोऽन्तरात्मा
स वेत्ति दुःखानि सुखानि चात्र; तद्विप्रयोगात्तु न वेत्ति देहः

१२.१८०.२६यदा न रूपं न स्पर्शो नोष्मभावश्च पावके
तदा शान्ते शरीराग्नौ देहं त्यक्त्वा स नश्यति

१२.१८०.२७अम्मयं सर्वमेवेदमापो मूर्तिः शरीरिणाम्
तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत्

१२.१८०.२८आत्मानं तं विजानीहि सर्वलोकहितात्मकम्
तस्मिन्यः संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे

१२.१८०.२९क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम्
तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान्

१२.१८०.३०सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम्
ततः परं क्षेत्रविदं वदन्ति; प्रावर्तयद्यो भुवनानि सप्त

१२.१८०.३१न जीवनाशोऽस्ति हि देहभेदे; मिथ्यैतदाहुर्मृत इत्यबुद्धाः
जीवस्तु देहान्तरितः प्रयाति; दशार्धतैवास्य शरीरभेदः

१२.१८०.३२एवं सर्वेषु भूतेषु गूढश्चरति संवृतः
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः

१२.१८०.३३तं पूर्वापररात्रेषु युञ्जानः सततं बुधः
लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि

१२.१८०.३४चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम्
प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्नुते

१२.१८०.३५मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते
सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये