१२. शान्तिपर्व
१२.१८१.१भृगुरुवाच

१२.१८१.२असृजद्ब्राह्मणानेव पूर्वं ब्रह्मा प्रजापतिः
आत्मतेजोभिनिर्वृत्तान्भास्कराग्निसमप्रभान्

१२.१८१.३ततः सत्यं च धर्मं च तपो ब्रह्म च शाश्वतम्
आचारं चैव शौचं च स्वर्गाय विदधे प्रभुः

१२.१८१.४देवदानवगन्धर्वदैत्यासुरमहोरगाः
यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा

१२.१८१.५ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विजसत्तम
ये चान्ये भूतसंघानां संघास्तांश्चापि निर्ममे

१२.१८१.६ब्राह्मणानां सितो वर्णः क्षत्रियाणां तु लोहितः
वैश्यानां पीतको वर्णः शूद्राणामसितस्तथा

१२.१८१.७भरद्वाज उवाच

१२.१८१.८चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभज्यते
सर्वेषां खलु वर्णानां दृश्यते वर्णसंकरः

१२.१८१.९कामः क्रोधो भयं लोभः शोकश्चिन्ता क्षुधा श्रमः
सर्वेषां नः प्रभवति कस्माद्वर्णो विभज्यते

१२.१८१.१०स्वेदमूत्रपुरीषाणि श्लेष्मा पित्तं सशोणितम्
तनुः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते

१२.१८१.११जङ्गमानामसंख्येयाः स्थावराणां च जातयः
तेषां विविधवर्णानां कुतो वर्णविनिश्चयः

१२.१८१.१२भृगुरुवाच

१२.१८१.१३न विशेषोऽस्ति वर्णानां सर्वं ब्राह्ममिदं जगत्
ब्रह्मणा पूर्वसृष्टं हि कर्मभिर्वर्णतां गतम्

१२.१८१.१४कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रियसाहसाः
त्यक्तस्वधर्मा रक्ताङ्गास्ते द्विजाः क्षत्रतां गताः

१२.१८१.१५गोषु वृत्तिं समाधाय पीताः कृष्युपजीविनः
स्वधर्मं नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः

१२.१८१.१६हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः
कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रतां गताः

१२.१८१.१७इत्येतैः कर्मभिर्व्यस्ता द्विजा वर्णान्तरं गताः
धर्मो यज्ञक्रिया चैषां नित्यं न प्रतिषिध्यते

१२.१८१.१८वर्णाश्चत्वार एते हि येषां ब्राह्मी सरस्वती
विहिता ब्रह्मणा पूर्वं लोभात्त्वज्ञानतां गताः

१२.१८१.१९ब्राह्मणा धर्मतन्त्रस्थास्तपस्तेषां न नश्यति
ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा

१२.१८१.२०ब्रह्म चैतत्पुरा सृष्टं ये न जानन्त्यतद्विदः
तेषां बहुविधास्त्वन्यास्तत्र तत्र हि जातयः

१२.१८१.२१पिशाचा राक्षसाः प्रेता बहुधा म्लेच्छजातयः
प्रनष्टज्ञानविज्ञानाः स्वच्छन्दाचारचेष्टिताः

१२.१८१.२२प्रजा ब्राह्मणसंस्काराः स्वधर्मकृतनिश्चयाः
ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः

१२.१८१.२३आदिदेवसमुद्भूता ब्रह्ममूलाक्षयाव्यया
सा सृष्टिर्मानसी नाम धर्मतन्त्रपरायणा