१२. शान्तिपर्व
१२.१८३.१भृगुरुवाच

१२.१८३.२सत्यं ब्रह्म तपः सत्यं सत्यं सृजति च प्रजाः
सत्येन धार्यते लोकः स्वर्गं सत्येन गच्छति

१२.१८३.३अनृतं तमसो रूपं तमसा नीयते ह्यधः
तमोग्रस्ता न पश्यन्ति प्रकाशं तमसावृतम्

१२.१८३.४स्वर्गः प्रकाश इत्याहुर्नरकं तम एव च
सत्यानृतात्तदुभयं प्राप्यते जगतीचरैः

१२.१८३.५तत्र त्वेवंविधा वृत्तिर्लोके सत्यानृता भवेत्
धर्माधर्मौ प्रकाशश्च तमो दुःखं सुखं तथा

१२.१८३.६तत्र यत्सत्यं स धर्मो यो धर्मः स प्रकाशो यः प्रकाशस्तत्सुखमिति
तत्र यदनृतं सोऽधर्मो योऽधर्मस्तत्तमो यत्तमस्तद्दुःखमिति

१२.१८३.७अत्रोच्यते
शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः
लोकसृष्टिं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः

१२.१८३.८तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः
सुखं ह्यनित्यं भूतानामिह लोके परत्र च

१२.१८३.९राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते
तथा तमोभिभूतानां भूतानां भ्रश्यते सुखम्

१२.१८३.१०तत्खलु द्विविधं सुखमुच्यते शारीरं मानसं च
इह खल्वमुष्मिंश्च लोके सर्वारम्भप्रवृत्तयः सुखार्था अभिधीयन्ते
न ह्यतस्त्रिवर्गफलं विशिष्टतरमस्ति
स एष काम्यो गुणविशेषो धर्मार्थयोरारम्भस्तद्धेतुरस्योत्पत्तिः सुखप्रयोजना

१२.१८३.११भरद्वाज उवाच

१२.१८३.१२यदेतद्भवताभिहितं सुखानां परमाः स्त्रिय इति तन्न गृह्णीमः
न ह्येषामृषीणां महति स्थितानामप्राप्य एष गुणविशेषो न चैनमभिलषन्ति
श्रूयते च भगवांस्त्रिलोककृद्ब्रह्मा प्रभुरेकाकी तिष्ठति
ब्रह्मचारी न कामसुखेष्वात्मानमवदधाति
अपि च भगवान्विश्वेश्वर उमापतिः काममभिवर्तमानमनङ्गत्वेन शममनयत्
तस्माद्ब्रूमो न महात्मभिरयं प्रतिगृहीतो न त्वेष तावद्विशिष्टो गुण इति नैतद्भगवतः प्रत्येमि
भगवता तूक्तं सुखानां परमाः स्त्रिय इति
लोकप्रवादोऽपि च भवति द्विविधः फलोदयः सुकृतात्सुखमवाप्यते दुष्कृताद्दुःखमिति
अत्रोच्यताम्

१२.१८३.१३भृगुरुवाच

१२.१८३.१४अनृतात्खलु तमः प्रादुर्भूतं तमोग्रस्ता अधर्ममेवानुवर्तन्ते न धर्मम्
क्रोधलोभमोहमानानृतादिभिरवच्छन्ना न खल्वस्मिँल्लोके न चामुत्र सुखमाप्नुवन्ति
विविधव्याधिगणोपतापैरवकीर्यन्ते
वधबन्धरोगपरिक्लेशादिभिश्च क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यन्ते
चण्डवातात्युष्णातिशीतकृतैश्च प्रतिभयैः शारीरैर्दुःखैरुपतप्यन्ते
बन्धुधनविनाशविप्रयोगकृतैश्च मानसैः शोकैरभिभूयन्ते जरामृत्युकृतैश्चान्यैरिति

१२.१८३.१५यस्त्वेतैः शारीरैर्मानसैर्दुःखैर्न स्पृश्यते स सुखं वेद
न चैते दोषाः स्वर्गे प्रादुर्भवन्ति
तत्र भवति खलु

१२.१८३.१६सुसुखः पवनः स्वर्गे गन्धश्च सुरभिस्तथा
क्षुत्पिपासाश्रमो नास्ति न जरा न च पापकम्

१२.१८३.१७नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम्
नरके दुःखमेवाहुः समं तु परमं पदम्

१२.१८३.१८पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः
पुमान्प्रजापतिस्तत्र शुक्रं तेजोमयं विदुः

१२.१८३.१९इत्येतल्लोकनिर्माणं ब्रह्मणा विहितं पुरा
प्रजा विपरिवर्तन्ते स्वैः स्वैः कर्मभिरावृताः