१२. शान्तिपर्व
१२.१८२.१भरद्वाज उवाच

१२.१८२.२ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम
वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर

१२.१८२.३भृगुरुवाच

१२.१८२.४जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः
वेदाध्ययनसंपन्नः षट्सु कर्मस्ववस्थितः

१२.१८२.५शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रियः
नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते

१२.१८२.६सत्यं दानं दमोऽद्रोह आनृशंस्यं क्षमा घृणा
तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः

१२.१८२.७क्षत्रजं सेवते कर्म वेदाध्ययनसंमतः
दानादानरतिर्यश्च स वै क्षत्रिय उच्यते

१२.१८२.८कृषिगोरक्ष्यवाणिज्यं यो विशत्यनिशं शुचिः
वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः

१२.१८२.९सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः
त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः

१२.१८२.१०शूद्रे चैतद्भवेल्लक्ष्यं द्विजे चैतन्न विद्यते
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः

१२.१८२.११सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः
एतत्पवित्रं ज्ञातव्यं तथा चैवात्मसंयमः

१२.१८२.१२नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात्
विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः

१२.१८२.१३यस्य सर्वे समारम्भा निराशीर्बन्धनास्त्विह
त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान्

१२.१८२.१४अहिंस्रः सर्वभूतानां मैत्रायणगतश्चरेत्
अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन्मनः

१२.१८२.१५परिग्रहान्परित्यज्य भवेद्बुद्ध्या जितेन्द्रियः
अशोकं स्थानमातिष्ठेदिह चामुत्र चाभयम्

१२.१८२.१६तपोनित्येन दान्तेन मुनिना संयतात्मना
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना

१२.१८२.१७इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्

१२.१८२.१८मनः प्राणे निगृह्णीयात्प्राणं ब्रह्मणि धारयेत्
निर्वाणादेव निर्वाणो न च किंचिद्विचिन्तयेत्
सुखं वै ब्राह्मणो ब्रह्म स वै तेनाधिगच्छति

१२.१८२.१९शौचेन सततं युक्तस्तथाचारसमन्वितः
सानुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम्