१२.१८६.१युधिष्ठिर उवाच
१२.१८६.२आचारस्य विधिं तात प्रोच्यमानं त्वयानघ
श्रोतुमिच्छामि धर्मज्ञ सर्वज्ञो ह्यसि मे मतः
१२.१८६.३भीष्म उवाच
१२.१८६.४दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रियसाहसाः
असन्तो ह्यभिविख्याताः सन्तश्चाचारलक्षणाः
१२.१८६.५पुरीषं यदि वा मूत्रं ये न कुर्वन्ति मानवाः
राजमार्गे गवां मध्ये धान्यमध्ये च ते शुभाः
१२.१८६.६शौचमावश्यकं कृत्वा देवतानां च तर्पणम्
धर्ममाहुर्मनुष्याणामुपस्पृश्य नदीं तरेत्
१२.१८६.७सूर्यं सदोपतिष्ठेत न स्वप्याद्भास्करोदये
सायं प्रातर्जपन्संध्यां तिष्ठेत्पूर्वां तथापराम्
१२.१८६.८पञ्चार्द्रो भोजनं कुर्यात्प्राङ्मुखो मौनमास्थितः
न निन्देदन्नभक्ष्यांश्च स्वाद्वस्वादु च भक्षयेत्
१२.१८६.९नार्द्रपाणिः समुत्तिष्ठेन्नार्द्रपादः स्वपेन्निशि
देवर्षिनारदप्रोक्तमेतदाचारलक्षणम्
१२.१८६.१०शुचिकाममनड्वाहं देवगोष्ठं चतुष्पथम्
ब्राह्मणं धार्मिकं चैव नित्यं कुर्यात्प्रदक्षिणम्
१२.१८६.११अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च
सामान्यं भोजनं भृत्यैः पुरुषस्य प्रशस्यते
१२.१८६.१२सायं प्रातर्मनुष्याणामशनं देवनिर्मितम्
नान्तरा भोजनं दृष्टमुपवासी तथा भवेत्
१२.१८६.१३होमकाले तथा जुह्वन्नृतुकाले तथा व्रजन्
अनन्यस्त्रीजनः प्राज्ञो ब्रह्मचारी तथा भवेत्
१२.१८६.१४अमृतं ब्राह्मणोच्छिष्टं जनन्या हृदयं कृतम्
उपासीत जनः सत्यं सत्यं सन्त उपासते
१२.१८६.१५यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात्
न भक्षयेद्वृथामांसं पृष्ठमांसं च वर्जयेत्
१२.१८६.१६स्वदेशे परदेशे वा अतिथिं नोपवासयेत्
काम्यं कर्मफलं लब्ध्वा गुरूणामुपपादयेत्
१२.१८६.१७गुरुभ्य आसनं देयं कर्तव्यं चाभिवादनम्
गुरूनभ्यर्च्य युज्यन्ते आयुषा यशसा श्रिया
१२.१८६.१८नेक्षेतादित्यमुद्यन्तं न च नग्नां परस्त्रियम्
मैथुनं समये धर्म्यं गुह्यं चैव समाचरेत्
१२.१८६.१९तीर्थानां हृदयं तीर्थं शुचीनां हृदयं शुचिः
सर्वमार्यकृतं शौचं वालसंस्पर्शनानि च
१२.१८६.२०दर्शने दर्शने नित्यं सुखप्रश्नमुदाहरेत्
सायं प्रातश्च विप्राणां प्रदिष्टमभिवादनम्
१२.१८६.२१देवगोष्ठे गवां मध्ये ब्राह्मणानां क्रियापथे
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत्
१२.१८६.२२पण्यानां शोभनं पण्यं कृषीणां बाद्यते कृषिः
बहुकारं च सस्यानां वाह्ये वाह्यं तथा गवाम्
१२.१८६.२३संपन्नं भोजने नित्यं पानीये तर्पणं तथा
सुशृतं पायसे ब्रूयाद्यवाग्वां कृसरे तथा
१२.१८६.२४श्मश्रुकर्मणि संप्राप्ते क्षुते स्नानेऽथ भोजने
व्याधितानां च सर्वेषामायुष्यमभिनन्दनम्
१२.१८६.२५प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत्
सुतस्त्रिया च शयनं सहभोज्यं च वर्जयेत्
१२.१८६.२६त्वंकारं नामधेयं च ज्येष्ठानां परिवर्जयेत्
अवराणां समानानामुभयेषां न दुष्यति
१२.१८६.२७हृदयं पापवृत्तानां पापमाख्याति वैकृतम्
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने
१२.१८६.२८ज्ञानपूर्वं कृतं पापं छादयन्त्यबहुश्रुताः
नैनं मनुष्याः पश्यन्ति पश्यन्ति त्रिदिवौकसः
१२.१८६.२९पापेन हि कृतं पापं पापमेवानुवर्तते
धार्मिकेण कृतो धर्मः कर्तारमनुवर्तते
१२.१८६.३०पापं कृतं न स्मरतीह मूढो; विवर्तमानस्य तदेति कर्तुः
राहुर्यथा चन्द्रमुपैति चापि; तथाबुधं पापमुपैति कर्म
१२.१८६.३१आशया संचितं द्रव्यं यत्काले नेह भुज्यते
तद्बुधा न प्रशंसन्ति मरणं न प्रतीक्षते
१२.१८६.३२मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः
तस्मात्सर्वेषु भूतेषु मनसा शिवमाचरेत्
१२.१८६.३३एक एव चरेद्धर्मं नास्ति धर्मे सहायता
केवलं विधिमासाद्य सहायः किं करिष्यति
१२.१८६.३४देवा योनिर्मनुष्याणां देवानाममृतं दिवि
प्रेत्यभावे सुखं धर्माच्छश्वत्तैरुपभुज्यते