१२. शान्तिपर्व
१२.१८७.१युधिष्ठिर उवाच

१२.१८७.२अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते
यदध्यात्मं यतश्चैतत्तन्मे ब्रूहि पितामह

१२.१८७.३भीष्म उवाच

१२.१८७.४अध्यात्ममिति मां पार्थ यदेतदनुपृच्छसि
तद्व्याख्यास्यामि ते तात श्रेयस्करतरं सुखम्

१२.१८७.५यज्ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति
फललाभश्च सद्यः स्यात्सर्वभूतहितं च तत्

१२.१८७.६पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ

१२.१८७.७ततः सृष्टानि तत्रैव तानि यान्ति पुनः पुनः
महाभूतानि भूतेषु सागरस्योर्मयो यथा

१२.१८७.८प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः
तद्वद्भूतानि भूतात्मा सृष्ट्वा संहरते पुनः

१२.१८७.९महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्
अकरोत्तेषु वैषम्यं तत्तु जीवोऽनु पश्यति

१२.१८७.१०शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम्
वायोस्त्वक्स्पर्शचेष्टाश्च वागित्येतच्चतुष्टयम्

१२.१८७.११रूपं चक्षुस्तथा पक्तिस्त्रिविधं तेज उच्यते
रसः क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः

१२.१८७.१२घ्रेयं घ्राणं शरीरं च ते तु भूमिगुणास्त्रयः
महाभूतानि पञ्चैव षष्ठं तु मन उच्यते

१२.१८७.१३इन्द्रियाणि मनश्चैव विज्ञानान्यस्य भारत
सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः

१२.१८७.१४चक्षुरालोकनायैव संशयं कुरुते मनः
बुद्धिरध्यवसायाय क्षेत्रज्ञः साक्षिवत्स्थितः

१२.१८७.१५ऊर्ध्वं पादतलाभ्यां यदर्वागूर्ध्वं च पश्यति
एतेन सर्वमेवेदं विद्ध्यभिव्याप्तमन्तरम्

१२.१८७.१६पुरुषे चेन्द्रियाणीह वेदितव्यानि कृत्स्नशः
तमो रजश्च सत्त्वं च विद्धि भावांस्तदाश्रयान्

१२.१८७.१७एतां बुद्ध्वा नरो बुद्ध्या भूतानामागतिं गतिम्
समवेक्ष्य शनैश्चैव लभते शममुत्तमम्

१२.१८७.१८गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि
मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः

१२.१८७.१९इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम्
प्रलीयते चोद्भवति तस्मान्निर्दिश्यते तथा

१२.१८७.२०येन पश्यति तच्चक्षुः शृणोति श्रोत्रमुच्यते
जिघ्रति घ्राणमित्याहू रसं जानाति जिह्वया

१२.१८७.२१त्वचा स्पृशति च स्पर्शान्बुद्धिर्विक्रियतेऽसकृत्
येन संकल्पयत्यर्थं किंचिद्भवति तन्मनः

१२.१८७.२२अधिष्ठानानि बुद्धेर्हि पृथगर्थानि पञ्चधा
पञ्चेन्द्रियाणि यान्याहुस्तान्यदृश्योऽधितिष्ठति

१२.१८७.२३पुरुषाधिष्ठिता बुद्धिस्त्रिषु भावेषु वर्तते
कदाचिल्लभते प्रीतिं कदाचिदनुशोचति

१२.१८७.२४न सुखेन न दुःखेन कदाचिदपि वर्तते
एवं नराणां मनसि त्रिषु भावेष्ववस्थिता

१२.१८७.२५सेयं भावात्मिका भावांस्त्रीनेतान्नातिवर्तते
सरितां सागरो भर्ता महावेलामिवोर्मिमान्

१२.१८७.२६अतिभावगता बुद्धिर्भावे मनसि वर्तते
प्रवर्तमानं हि रजस्तद्भावमनुवर्तते

१२.१८७.२७इन्द्रियाणि हि सर्वाणि प्रदर्शयति सा सदा
प्रीतिः सत्त्वं रजः शोकस्तमो मोहश्च ते त्रयः

१२.१८७.२८ये ये च भावा लोकेऽस्मिन्सर्वेष्वेतेषु ते त्रिषु
इति बुद्धिगतिः सर्वा व्याख्याता तव भारत

१२.१८७.२९इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता
सत्त्वं रजस्तमश्चैव प्राणिनां संश्रिताः सदा

१२.१८७.३०त्रिविधा वेदना चैव सर्वसत्त्वेषु दृश्यते
सात्त्विकी राजसी चैव तामसी चेति भारत

१२.१८७.३१सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः
तमोगुणेन संयुक्तौ भवतोऽव्यावहारिकौ

१२.१८७.३२तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत्
वर्तते सात्त्विको भाव इत्यवेक्षेत तत्तदा

१२.१८७.३३अथ यद्दुःखसंयुक्तमतुष्टिकरमात्मनः
प्रवृत्तं रज इत्येव तन्नसंरभ्य चिन्तयेत्

१२.१८७.३४अथ यन्मोहसंयुक्तमव्यक्तमिव यद्भवेत्
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत्

१२.१८७.३५प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता
कथंचिदभिवर्तन्त इत्येते सात्त्विका गुणाः

१२.१८७.३६अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः

१२.१८७.३७अभिमानस्तथा मोहः प्रमादः स्वप्नतन्द्रिता
कथंचिदभिवर्तन्ते विविधास्तामसा गुणाः

१२.१८७.३८दूरगं बहुधागामि प्रार्थनासंशयात्मकम्
मनः सुनियतं यस्य स सुखी प्रेत्य चेह च

१२.१८७.३९सत्त्वक्षेत्रज्ञयोरेतदन्तरं पश्य सूक्ष्मयोः
सृजते तु गुणानेक एको न सृजते गुणान्

१२.१८७.४०मशकोदुम्बरौ चापि संप्रयुक्तौ यथा सदा
अन्योन्यमन्यौ च यथा संप्रयोगस्तथा तयोः

१२.१८७.४१पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा
यथा मत्स्यो जलं चैव संप्रयुक्तौ तथैव तौ

१२.१८७.४२न गुणा विदुरात्मानं स गुणान्वेत्ति सर्वशः
परिद्रष्टा गुणानां च संस्रष्टा मन्यते सदा

१२.१८७.४३इन्द्रियैस्तु प्रदीपार्थं कुरुते बुद्धिसप्तमैः
निर्विचेष्टैरजानद्भिः परमात्मा प्रदीपवत्

१२.१८७.४४सृजते हि गुणान्सत्त्वं क्षेत्रज्ञः परिपश्यति
संप्रयोगस्तयोरेष सत्त्वक्षेत्रज्ञयोर्ध्रुवः

१२.१८७.४५आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश्चन
सत्त्वं मनः संसृजति न गुणान्वै कदाचन

१२.१८७.४६रश्मींस्तेषां स मनसा यदा सम्यङ्नियच्छति
तदा प्रकाशतेऽस्यात्मा घटे दीपो ज्वलन्निव

१२.१८७.४७त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः
सर्वभूतात्मभूतः स्यात्स गच्छेत्परमां गतिम्

१२.१८७.४८यथा वारिचरः पक्षी लिप्यमानो न लिप्यते
एवमेव कृतप्रज्ञो भूतेषु परिवर्तते

१२.१८७.४९एवंस्वभावमेवैतत्स्वबुद्ध्या विहरेन्नरः
अशोचन्नप्रहृष्यंश्च चरेद्विगतमत्सरः

१२.१८७.५०स्वभावसिद्ध्या संसिद्धान्स नित्यं सृजते गुणान्
ऊर्णनाभिर्यथा स्रष्टा विज्ञेयास्तन्तुवद्गुणाः

१२.१८७.५१प्रध्वस्ता न निवर्तन्ते निवृत्तिर्नोपलभ्यते
प्रत्यक्षेण परोक्षं तदनुमानेन सिध्यति

१२.१८७.५२एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे
उभयं संप्रधार्यैतदध्यवस्येद्यथामति

१२.१८७.५३इतीमं हृदयग्रन्थिं बुद्धिभेदमयं दृढम्
विमुच्य सुखमासीत न शोचेच्छिन्नसंशयः

१२.१८७.५४मलिनाः प्राप्नुयुः शुद्धिं यथा पूर्णां नदीं नराः
अवगाह्य सुविद्वंसो विद्धि ज्ञानमिदं तथा

१२.१८७.५५महानदीं हि पारज्ञस्तप्यते न तरन्यथा
एवं ये विदुरध्यात्मं कैवल्यं ज्ञानमुत्तमम्

१२.१८७.५६एतां बुद्ध्वा नरः सर्वां भूतानामागतिं गतिम्
अवेक्ष्य च शनैर्बुद्ध्या लभते शं परं ततः

१२.१८७.५७त्रिवर्गो यस्य विदितः प्राग्ज्योतिः स विमुच्यते
अन्विष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः

१२.१८७.५८न चात्मा शक्यते द्रष्टुमिन्द्रियेषु विभागशः
तत्र तत्र विसृष्टेषु दुर्जयेष्वकृतात्मभिः

१२.१८७.५९एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम्
विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः

१२.१८७.६०न भवति विदुषां ततो भयं; यदविदुषां सुमहद्भयं भवेत्
न हि गतिरधिकास्ति कस्यचि;त्सति हि गुणे प्रवदन्त्यतुल्यताम्

१२.१८७.६१यत्करोत्यनभिसंधिपूर्वकं; तच्च निर्णुदति यत्पुरा कृतम्
नाप्रियं तदुभयं कुतः प्रियं; तस्य तज्जनयतीह कुर्वतः

१२.१८७.६२लोक आतुरजनान्विराविण;स्तत्तदेव बहु पश्य शोचतः
तत्र पश्य कुशलानशोचतो; ये विदुस्तदुभयं पदं सदा