१२.१८९.१युधिष्ठिर उवाच
१२.१८९.२चातुराश्रम्यमुक्तं ते राजधर्मास्तथैव च
नानाश्रयाश्च बहव इतिहासाः पृथग्विधाः
१२.१८९.३श्रुतास्त्वत्तः कथाश्चैव धर्मयुक्ता महामते
संदेहोऽस्ति तु कश्चिन्मे तद्भवान्वक्तुमर्हति
१२.१८९.४जापकानां फलावाप्तिं श्रोतुमिच्छामि भारत
किं फलं जपतामुक्तं क्व वा तिष्ठन्ति जापकाः
१२.१८९.५जपस्य च विधिं कृत्स्नं वक्तुमर्हसि मेऽनघ
जापका इति किं चैतत्सांख्ययोगक्रियाविधिः
१२.१८९.६किं यज्ञविधिरेवैष किमेतज्जप्यमुच्यते
एतन्मे सर्वमाचक्ष्व सर्वज्ञो ह्यसि मे मतः
१२.१८९.७भीष्म उवाच
१२.१८९.८अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यमस्य यत्पुरा वृत्तं कालस्य ब्राह्मणस्य च
१२.१८९.९संन्यास एव वेदान्ते वर्तते जपनं प्रति
वेदवादाभिनिर्वृत्ता शान्तिर्ब्रह्मण्यवस्थितौ
मार्गौ तावप्युभावेतौ संश्रितौ न च संश्रितौ
१२.१८९.१०यथा संश्रूयते राजन्कारणं चात्र वक्ष्यते
मनःसमाधिरत्रापि तथेन्द्रियजयः स्मृतः
१२.१८९.११सत्यमग्निपरीचारो विविक्तानां च सेवनम्
ध्यानं तपो दमः क्षान्तिरनसूया मिताशनम्
१२.१८९.१२विषयप्रतिसंहारो मितजल्पस्तथा शमः
एष प्रवृत्तको धर्मो निवृत्तकमथो शृणु
१२.१८९.१३यथा निवर्तते कर्म जपतो ब्रह्मचारिणः
एतत्सर्वमशेषेण यथोक्तं परिवर्जयेत्
त्रिविधं मार्गमासाद्य व्यक्ताव्यक्तमनाश्रयम्
१२.१८९.१४कुशोच्चयनिषण्णः सन्कुशहस्तः कुशैः शिखी
चीरैः परिवृतस्तस्मिन्मध्ये छन्नः कुशैस्तथा
१२.१८९.१५विषयेभ्यो नमस्कुर्याद्विषयान्न च भावयेत्
साम्यमुत्पाद्य मनसो मनस्येव मनो दधत्
१२.१८९.१६तद्धिया ध्यायति ब्रह्म जपन्वै संहितां हिताम्
संन्यस्यत्यथ वा तां वै समाधौ पर्यवस्थितः
१२.१८९.१७ध्यानमुत्पादयत्यत्र संहिताबलसंश्रयात्
शुद्धात्मा तपसा दान्तो निवृत्तद्वेषकामवान्
१२.१८९.१८अरागमोहो निर्द्वंद्वो न शोचति न सज्जते
न कर्ताकरणीयानां न कार्याणामिति स्थितिः
१२.१८९.१९न चाहंकारयोगेन मनः प्रस्थापयेत्क्वचित्
न चात्मग्रहणे युक्तो नावमानी न चाक्रियः
१२.१८९.२०ध्यानक्रियापरो युक्तो ध्यानवान्ध्याननिश्चयः
ध्याने समाधिमुत्पाद्य तदपि त्यजति क्रमात्
१२.१८९.२१स वै तस्यामवस्थायां सर्वत्यागकृतः सुखी
निरीहस्त्यजति प्राणान्ब्राह्मीं संश्रयते तनुम्
१२.१८९.२२अथ वा नेच्छते तत्र ब्रह्मकायनिषेवणम्
उत्क्रामति च मार्गस्थो नैव क्वचन जायते
१२.१८९.२३आत्मबुद्धिं समास्थाय शान्तीभूतो निरामयः
अमृतं विरजःशुद्धमात्मानं प्रतिपद्यते