१२.१९०.१युधिष्ठिर उवाच
१२.१९०.२गतीनामुत्तमा प्राप्तिः कथिता जापकेष्विह
एकैवैषा गतिस्तेषामुत यान्त्यपरामपि
१२.१९०.३भीष्म उवाच
१२.१९०.४शृणुष्वावहितो राजञ्जापकानां गतिं विभो
यथा गच्छन्ति निरयमनेकं पुरुषर्षभ
१२.१९०.५यथोक्तमेतत्पूर्वं यो नानुतिष्ठति जापकः
एकदेशक्रियश्चात्र निरयं स निगच्छति
१२.१९०.६अवज्ञानेन कुरुते न तुष्यति न शोचति
ईदृशो जापको याति निरयं नात्र संशयः
१२.१९०.७अहंकारकृतश्चैव सर्वे निरयगामिनः
परावमानी पुरुषो भविता निरयोपगः
१२.१९०.८अभिध्यापूर्वकं जप्यं कुरुते यश्च मोहितः
यत्राभिध्यां स कुरुते तं वै निरयमृच्छति
१२.१९०.९अथैश्वर्यप्रवृत्तः सञ्जापकस्तत्र रज्यते
स एव निरयस्तस्य नासौ तस्मात्प्रमुच्यते
१२.१९०.१०रागेण जापको जप्यं कुरुते तत्र मोहितः
यत्रास्य रागः पतति तत्र तत्रोपजायते
१२.१९०.११दुर्बुद्धिरकृतप्रज्ञश्चले मनसि तिष्ठति
चलामेव गतिं याति निरयं वाधिगच्छति
१२.१९०.१२अकृतप्रज्ञको बालो मोहं गच्छति जापकः
स मोहान्निरयं याति तत्र गत्वानुशोचति
१२.१९०.१३दृढग्राही करोमीति जप्यं जपति जापकः
न संपूर्णो न वा युक्तो निरयं सोऽधिगच्छति
१२.१९०.१४युधिष्ठिर उवाच
१२.१९०.१५अनिमित्तं परं यत्तदव्यक्तं ब्रह्मणि स्थितम्
सद्भूतो जापकः कस्मात्स शरीरमथाविशेत्
१२.१९०.१६भीष्म उवाच
१२.१९०.१७दुष्प्रज्ञानेन निरया बहवः समुदाहृताः
प्रशस्तं जापकत्वं च दोषाश्चैते तदात्मकाः