१२. शान्तिपर्व
१२.२००.१युधिष्ठिर उवाच

१२.२००.२पितामह महाप्राज्ञ पुण्डरीकाक्षमच्युतम्
कर्तारमकृतं विष्णुं भूतानां प्रभवाप्ययम्

१२.२००.३नारायणं हृषीकेशं गोविन्दमपराजितम्
तत्त्वेन भरतश्रेष्ठ श्रोतुमिच्छामि केशवम्

१२.२००.४भीष्म उवाच

१२.२००.५श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च

१२.२००.६असितो देवलस्तात वाल्मीकिश्च महातपाः
मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत्

१२.२००.७केशवो भरतश्रेष्ठ भगवानीश्वरः प्रभुः
पुरुषः सर्वमित्येव श्रूयते बहुधा विभुः

१२.२००.८किं तु यानि विदुर्लोके ब्राह्मणाः शार्ङ्गधन्वनः
माहात्म्यानि महाबाहो शृणु तानि युधिष्ठिर

१२.२००.९यानि चाहुर्मनुष्येन्द्र ये पुराणविदो जनाः
अशेषेण हि गोविन्दे कीर्तयिष्यामि तान्यहम्

१२.२००.१०महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः
वायुर्ज्योतिस्तथा चापः खं गां चैवान्वकल्पयत्

१२.२००.११स दृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः प्रभुः
अप्स्वेव शयनं चक्रे महात्मा पुरुषोत्तमः

१२.२००.१२सर्वतेजोमयस्तस्मिञ्शयानः शयने शुभे
सोऽग्रजं सर्वभूतानां संकर्षणमचिन्तयत्

१२.२००.१३आश्रयं सर्वभूतानां मनसेति विशुश्रुम
स धारयति भूतात्मा उभे भूतभविष्यती

१२.२००.१४ततस्तस्मिन्महाबाहो प्रादुर्भूते महात्मनि
भास्करप्रतिमं दिव्यं नाभ्यां पद्ममजायत

१२.२००.१५स तत्र भगवान्देवः पुष्करे भासयन्दिशः
ब्रह्मा समभवत्तात सर्वभूतपितामहः

१२.२००.१६तस्मिन्नपि महाबाहो प्रादुर्भूते महात्मनि
तमसः पूर्वजो जज्ञे मधुर्नाम महासुरः

१२.२००.१७तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम्
ब्रह्मणोपचितिं कुर्वञ्जघान पुरुषोत्तमः

१२.२००.१८तस्य तात वधात्सर्वे देवदानवमानवाः
मधुसूदनमित्याहुर्वृषभं सर्वसात्वताम्

१२.२००.१९ब्रह्मा तु ससृजे पुत्रान्मानसान्दक्षसप्तमान्
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्

१२.२००.२०मरीचिः कश्यपं तात पुत्रं चासृजदग्रजम्
मानसं जनयामास तैजसं ब्रह्मसत्तमम्

१२.२००.२१अङ्गुष्ठादसृजद्ब्रह्मा मरीचेरपि पूर्वजम्
सोऽभवद्भरतश्रेष्ठ दक्षो नाम प्रजापतिः

१२.२००.२२तस्य पूर्वमजायन्त दश तिस्रश्च भारत
प्रजापतेर्दुहितरस्तासां ज्येष्ठाभवद्दितिः

१२.२००.२३सर्वधर्मविशेषज्ञः पुण्यकीर्तिर्महायशाः
मारीचः कश्यपस्तात सर्वासामभवत्पतिः

१२.२००.२४उत्पाद्य तु महाभागस्तासामवरजा दश
ददौ धर्माय धर्मज्ञो दक्ष एव प्रजापतिः

१२.२००.२५धर्मस्य वसवः पुत्रा रुद्राश्चामिततेजसः
विश्वेदेवाश्च साध्याश्च मरुत्वन्तश्च भारत

१२.२००.२६अपरास्तु यवीयस्यस्ताभ्योऽन्याः सप्तविंशतिः
सोमस्तासां महाभागः सर्वासामभवत्पतिः

१२.२००.२७इतरास्तु व्यजायन्त गन्धर्वांस्तुरगान्द्विजान्
गाश्च किंपुरुषान्मत्स्यानौद्भिदांश्च वनस्पतीन्

१२.२००.२८आदित्यानदितिर्जज्ञे देवश्रेष्ठान्महाबलान्
तेषां विष्णुर्वामनोऽभूद्गोविन्दश्चाभवत्प्रभुः

१२.२००.२९तस्य विक्रमणादेव देवानां श्रीर्व्यवर्धत
दानवाश्च पराभूता दैतेयी चासुरी प्रजा

१२.२००.३०विप्रचित्तिप्रधानांश्च दानवानसृजद्दनुः
दितिस्तु सर्वानसुरान्महासत्त्वान्व्यजायत

१२.२००.३१अहोरात्रं च कालं च यथर्तु मधुसूदनः
पूर्वाह्णं चापराह्णं च सर्वमेवान्वकल्पयत्

१२.२००.३२बुद्ध्यापः सोऽसृजन्मेघांस्तथा स्थावरजङ्गमान्
पृथिवीं सोऽसृजद्विश्वां सहितां भूरितेजसा

१२.२००.३३ततः कृष्णो महाबाहुः पुनरेव युधिष्ठिर
ब्राह्मणानां शतं श्रेष्ठं मुखादसृजत प्रभुः

१२.२००.३४बाहुभ्यां क्षत्रियशतं वैश्यानामूरुतः शतम्
पद्भ्यां शूद्रशतं चैव केशवो भरतर्षभ

१२.२००.३५स एवं चतुरो वर्णान्समुत्पाद्य महायशाः
अध्यक्षं सर्वभूतानां धातारमकरोत्प्रभुः

१२.२००.३६यावद्यावदभूच्छ्रद्धा देहं धारयितुं नृणाम्
तावत्तावदजीवंस्ते नासीद्यमकृतं भयम्

१२.२००.३७न चैषां मैथुनो धर्मो बभूव भरतर्षभ
संकल्पादेव चैतेषामपत्यमुदपद्यत

१२.२००.३८तत्र त्रेतायुगे काले संकल्पाज्जायते प्रजा
न ह्यभून्मैथुनो धर्मस्तेषामपि जनाधिप

१२.२००.३९द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप
तथा कलियुगे राजन्द्वंद्वमापेदिरे जनाः

१२.२००.४०एष भूतपतिस्तात स्वध्यक्षश्च प्रकीर्तितः
निरध्यक्षांस्तु कौन्तेय कीर्तयिष्यामि तानपि

१२.२००.४१दक्षिणापथजन्मानः सर्वे तलवरान्ध्रकाः
उत्साः पुलिन्दाः शबराश्चूचुपा मण्डपैः सह

१२.२००.४२उत्तरापथजन्मानः कीर्तयिष्यामि तानपि
यौनकाम्बोजगान्धाराः किराता बर्बरैः सह

१२.२००.४३एते पापकृतस्तात चरन्ति पृथिवीमिमाम्
श्वकाकबलगृध्राणां सधर्माणो नराधिप

१२.२००.४४नैते कृतयुगे तात चरन्ति पृथिवीमिमाम्
त्रेताप्रभृति वर्तन्ते ते जना भरतर्षभ

१२.२००.४५ततस्तस्मिन्महाघोरे संध्याकाले युगान्तिके
राजानः समसज्जन्त समासाद्येतरेतरम्

१२.२००.४६एवमेष कुरुश्रेष्ठ प्रादुर्भावो महात्मनः
देवदेवर्षिराचष्ट नारदः सर्वलोकदृक्

१२.२००.४७नारदोऽप्यथ कृष्णस्य परं मेने नराधिप
शाश्वतत्वं महाबाहो यथावद्भरतर्षभ

१२.२००.४८एवमेष महाबाहुः केशवः सत्यविक्रमः
अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः