१२. शान्तिपर्व
१२.१९९.१मनुरुवाच

१२.१९९.२यदा ते पञ्चभिः पञ्च विमुक्ता मनसा सह
अथ तद्द्रक्ष्यसे ब्रह्म मणौ सूत्रमिवार्पितम्

१२.१९९.३तदेव च यथा सूत्रं सुवर्णे वर्तते पुनः
मुक्तास्वथ प्रवालेषु मृन्मये राजते तथा

१२.१९९.४तद्वद्गोषु मनुष्येषु तद्वद्धस्तिमृगादिषु
तद्वत्कीटपतंगेषु प्रसक्तात्मा स्वकर्मभिः

१२.१९९.५येन येन शरीरेण यद्यत्कर्म करोत्ययम्
तेन तेन शरीरेण तत्तत्फलमुपाश्नुते

१२.१९९.६यथा ह्येकरसा भूमिरोषध्यात्मानुसारिणी
तथा कर्मानुगा बुद्धिरन्तरात्मानुदर्शिनी

१२.१९९.७ज्ञानपूर्वोद्भवा लिप्सा लिप्सापूर्वाभिसंधिता
अभिसंधिपूर्वकं कर्म कर्ममूलं ततः फलम्

१२.१९९.८फलं कर्मात्मकं विद्यात्कर्म ज्ञेयात्मकं तथा
ज्ञेयं ज्ञानात्मकं विद्याज्ज्ञानं सदसदात्मकम्

१२.१९९.९ज्ञानानां च फलानां च ज्ञेयानां कर्मणां तथा
क्षयान्ते तत्फलं दिव्यं ज्ञानं ज्ञेयप्रतिष्ठितम्

१२.१९९.१०महद्धि परमं भूतं युक्ताः पश्यन्ति योगिनः
अबुधास्तं न पश्यन्ति ह्यात्मस्था गुणबुद्धयः

१२.१९९.११पृथिवीरूपतो रूपमपामिह महत्तरम्
अद्भ्यो महत्तरं तेजस्तेजसः पवनो महान्

१२.१९९.१२पवनाच्च महद्व्योम तस्मात्परतरं मनः
मनसो महती बुद्धिर्बुद्धेः कालो महान्स्मृतः

१२.१९९.१३कालात्स भगवान्विष्णुर्यस्य सर्वमिदं जगत्
नादिर्न मध्यं नैवान्तस्तस्य देवस्य विद्यते

१२.१९९.१४अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः
अत्येति सर्वदुःखानि दुःखं ह्यन्तवदुच्यते

१२.१९९.१५तद्ब्रह्म परमं प्रोक्तं तद्धाम परमं स्मृतम्
तद्गत्वा कालविषयाद्विमुक्ता मोक्षमाश्रिताः

१२.१९९.१६गुणैस्त्वेतैः प्रकाशन्ते निर्गुणत्वात्ततः परम्
निवृत्तिलक्षणो धर्मस्तथानन्त्याय कल्पते

१२.१९९.१७ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः
जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्या विनाशिनः

१२.१९९.१८न चैवमिष्यते ब्रह्म शरीराश्रयसंभवम्
न यत्नसाध्यं तद्ब्रह्म नादिमध्यं न चान्तवत्

१२.१९९.१९ऋचामादिस्तथा साम्नां यजुषामादिरुच्यते
अन्तश्चादिमतां दृष्टो न चादिर्ब्रह्मणः स्मृतः

१२.१९९.२०अनादित्वादनन्तत्वात्तदनन्तमथाव्ययम्
अव्ययत्वाच्च निर्द्वंद्वं द्वंद्वाभावात्ततः परम्

१२.१९९.२१अदृष्टतोऽनुपायाच्चाप्यभिसंधेश्च कर्मणः
न तेन मर्त्याः पश्यन्ति येन गच्छन्ति तत्परम्

१२.१९९.२२विषयेषु च संसर्गाच्छाश्वतस्य च दर्शनात्
मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते

१२.१९९.२३गुणान्यदिह पश्यन्ति तदिच्छन्त्यपरे जनाः
परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद्गुणार्थिनः

१२.१९९.२४गुणैर्यस्त्ववरैर्युक्तः कथं विद्याद्गुणानिमान्
अनुमानाद्धि गन्तव्यं गुणैरवयवैः सह

१२.१९९.२५सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः
मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम्

१२.१९९.२६ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या तथा मनः
मनसा चेन्द्रियग्राममनन्तं प्रतिपद्यते

१२.१९९.२७बुद्धिप्रहीणो मनसासमृद्ध;स्तथा निराशीर्गुणतामुपैति
परं त्यजन्तीह विलोभ्यमाना; हुताशनं वायुरिवेन्धनस्थम्

१२.१९९.२८गुणादाने विप्रयोगे च तेषां; मनः सदा बुद्धिपरावराभ्याम्
अनेनैव विधिना संप्रवृत्तो; गुणादाने ब्रह्मशरीरमेति

१२.१९९.२९अव्यक्तात्मा पुरुषोऽव्यक्तकर्मा; सोऽव्यक्तत्वं गच्छति ह्यन्तकाले
तैरेवायं चेन्द्रियैर्वर्धमानै;र्ग्लायद्भिर्वा वर्तते कर्मरूपः

१२.१९९.३०सर्वैरयं चेन्द्रियैः संप्रयुक्तो; देहः प्राप्तः पञ्चभूताश्रयः स्यात्
नासामर्थ्याद्गच्छति कर्मणेह; हीनस्तेन परमेणाव्ययेन

१२.१९९.३१पृथ्व्या नरः पश्यति नान्तमस्या; ह्यन्तश्चास्या भविता चेति विद्धि
परं नयन्तीह विलोभ्यमानं; यथा प्लवं वायुरिवार्णवस्थम्

१२.१९९.३२दिवाकरो गुणमुपलभ्य निर्गुणो; यथा भवेद्व्यपगतरश्मिमण्डलः
तथा ह्यसौ मुनिरिह निर्विशेषवा;न्स निर्गुणं प्रविशति ब्रह्म चाव्ययम्

१२.१९९.३३अनागतिं सुकृतिमतां परां गतिं; स्वयंभुवं प्रभवनिधानमव्ययम्
सनातनं यदमृतमव्ययं पदं; विचार्य तं शमममृतत्वमश्नुते