१२. शान्तिपर्व
१२.२०२.१युधिष्ठिर उवाच

१२.२०२.२पितामह महाप्राज्ञ युधि सत्यपराक्रम
श्रोतुमिच्छामि कार्त्स्न्येन कृष्णमव्ययमीश्वरम्

१२.२०२.३यच्चास्य तेजः सुमहद्यच्च कर्म पुरातनम्
तन्मे सर्वं यथातत्त्वं प्रब्रूहि भरतर्षभ

१२.२०२.४तिर्यग्योनिगतं रूपं कथं धारितवान्हरिः
केन कार्यविसर्गेण तन्मे ब्रूहि पितामह

१२.२०२.५भीष्म उवाच

१२.२०२.६पुराहं मृगयां यातो मार्कण्डेयाश्रमे स्थितः
तत्रापश्यं मुनिगणान्समासीनान्सहस्रशः

१२.२०२.७ततस्ते मधुपर्केण पूजां चक्रुरथो मयि
प्रतिगृह्य च तां पूजां प्रत्यनन्दमृषीनहम्

१२.२०२.८कथैषा कथिता तत्र कश्यपेन महर्षिणा
मनःप्रह्लादिनीं दिव्यां तामिहैकमनाः शृणु

१२.२०२.९पुरा दानवमुख्या हि क्रोधलोभसमन्विताः
बलेन मत्ताः शतशो नरकाद्या महासुराः

१२.२०२.१०तथैव चान्ये बहवो दानवा युद्धदुर्मदाः
न सहन्ते स्म देवानां समृद्धिं तामनुत्तमाम्

१२.२०२.११दानवैरर्द्यमानास्तु देवा देवर्षयस्तथा
न शर्म लेभिरे राजन्विशमानास्ततस्ततः

१२.२०२.१२पृथिवीं चार्तरूपां ते समपश्यन्दिवौकसः
दानवैरभिसंकीर्णां घोररूपैर्महाबलैः
भारार्तामपकृष्टां च दुःखितां संनिमज्जतीम्

१२.२०२.१३अथादितेयाः संत्रस्ता ब्रह्माणमिदमब्रुवन्
कथं शक्यामहे ब्रह्मन्दानवैरुपमर्दनम्

१२.२०२.१४स्वयंभूस्तानुवाचेदं निसृष्टोऽत्र विधिर्मया
ते वरेणाभिसंमत्ता बलेन च मदेन च

१२.२०२.१५नावभोत्स्यन्ति संमूढा विष्णुमव्यक्तदर्शनम्
वराहरूपिणं देवमधृष्यममरैरपि

१२.२०२.१६एष वेगेन गत्वा हि यत्र ते दानवाधमाः
अन्तर्भूमिगता घोरा निवसन्ति सहस्रशः
शमयिष्यति श्रुत्वा ते जहृषुः सुरसत्तमाः

१२.२०२.१७ततो विष्णुर्महातेजा वाराहं रूपमाश्रितः
अन्तर्भूमिं संप्रविश्य जगाम दितिजान्प्रति

१२.२०२.१८दृष्ट्वा च सहिताः सर्वे दैत्याः सत्त्वममानुषम्
प्रसह्य सहसा सर्वे संतस्थुः कालमोहिताः

१२.२०२.१९सर्वे च समभिद्रुत्य वराहं जगृहुः समम्
संक्रुद्धाश्च वराहं तं व्यकर्षन्त समन्ततः

१२.२०२.२०दानवेन्द्रा महाकाया महावीर्या बलोच्छ्रिताः
नाशक्नुवंश्च किंचित्ते तस्य कर्तुं तदा विभो

१२.२०२.२१ततोऽगमन्विस्मयं ते दानवेन्द्रा भयात्तदा
संशयं गतमात्मानं मेनिरे च सहस्रशः

१२.२०२.२२ततो देवादिदेवः स योगात्मा योगसारथिः
योगमास्थाय भगवांस्तदा भरतसत्तम

१२.२०२.२३विननाद महानादं क्षोभयन्दैत्यदानवान्
संनादिता येन लोकाः सर्वाश्चैव दिशो दश

१२.२०२.२४तेन संनादशब्देन लोकाः संक्षोभमागमन्
संभ्रान्ताश्च दिशः सर्वा देवाः शक्रपुरोगमाः

१२.२०२.२५निर्विचेष्टं जगच्चापि बभूवातिभृशं तदा
स्थावरं जङ्गमं चैव तेन नादेन मोहितम्

१२.२०२.२६ततस्ते दानवाः सर्वे तेन शब्देन भीषिताः
पेतुर्गतासवश्चैव विष्णुतेजोविमोहिताः

१२.२०२.२७रसातलगतांश्चैव वराहस्त्रिदशद्विषः
खुरैः संदारयामास मांसमेदोस्थिसंचयम्

१२.२०२.२८नादेन तेन महता सनातन इति स्मृतः
पद्मनाभो महायोगी भूताचार्यः स भूतराट्

१२.२०२.२९ततो देवगणाः सर्वे पितामहमुपाब्रुवन्
नादोऽयं कीदृशो देव नैनं विद्म वयं विभो
कोऽसौ हि कस्य वा नादो येन विह्वलितं जगत्

१२.२०२.३०एतस्मिन्नन्तरे विष्णुर्वाराहं रूपमास्थितः
उदतिष्ठन्महादेवः स्तूयमानो महर्षिभिः

१२.२०२.३१पितामह उवाच

१२.२०२.३२निहत्य दानवपतीन्महावर्ष्मा महाबलः
एष देवो महायोगी भूतात्मा भूतभावनः

१२.२०२.३३सर्वभूतेश्वरो योगी योनिरात्मा तथात्मनः
स्थिरीभवत कृष्णोऽयं सर्वपापप्रणाशनः

१२.२०२.३४कृत्वा कर्मातिसाध्वेतदशक्यममितप्रभः
समायातः स्वमात्मानं महाभागो महाद्युतिः
पद्मनाभो महायोगी भूतात्मा भूतभावनः

१२.२०२.३५न संतापो न भीः कार्या शोको वा सुरसत्तमाः
विधिरेष प्रभावश्च कालः संक्षयकारकः
लोकान्धारयतानेन नादो मुक्तो महात्मना

१२.२०२.३६स एव हि महाभागः सर्वलोकनमस्कृतः
अच्युतः पुण्डरीकाक्षः सर्वभूतसमुद्भवः