१२. शान्तिपर्व
१२.२०३.१युधिष्ठिर उवाच

१२.२०३.२योगं मे परमं तात मोक्षस्य वद भारत
तमहं तत्त्वतो ज्ञातुमिच्छामि वदतां वर

१२.२०३.३भीष्म उवाच

१२.२०३.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह

१२.२०३.५कश्चिद्ब्राह्मणमासीनमाचार्यमृषिसत्तमम्
शिष्यः परममेधावी श्रेयोर्थी सुसमाहितः
चरणावुपसंगृह्य स्थितः प्राञ्जलिरब्रवीत्

१२.२०३.६उपासनात्प्रसन्नोऽसि यदि वै भगवन्मम
संशयो मे महान्कश्चित्तन्मे व्याख्यातुमर्हसि

१२.२०३.७कुतश्चाहं कुतश्च त्वं तत्सम्यग्ब्रूहि यत्परम्
कथं च सर्वभूतेषु समेषु द्विजसत्तम
सम्यग्वृत्ता निवर्तन्ते विपरीताः क्षयोदयाः

१२.२०३.८वेदेषु चापि यद्वाक्यं लौकिकं व्यापकं च यत्
एतद्विद्वन्यथातत्त्वं सर्वं व्याख्यातुमर्हसि

१२.२०३.९गुरुरुवाच

१२.२०३.१०शृणु शिष्य महाप्राज्ञ ब्रह्मगुह्यमिदं परम्
अध्यात्मं सर्वभूतानामागमानां च यद्वसु

१२.२०३.११वासुदेवः सर्वमिदं विश्वस्य ब्रह्मणो मुखम्
सत्यं दानमथो यज्ञस्तितिक्षा दम आर्जवम्

१२.२०३.१२पुरुषं सनातनं विष्णुं यत्तद्वेदविदो विदुः
सर्गप्रलयकर्तारमव्यक्तं ब्रह्म शाश्वतम्
तदिदं ब्रह्म वार्ष्णेयमितिहासं शृणुष्व मे

१२.२०३.१३ब्राह्मणो ब्राह्मणैः श्राव्यो राजन्यः क्षत्रियैस्तथा
माहात्म्यं देवदेवस्य विष्णोरमिततेजसः
अर्हस्त्वमसि कल्याण वार्ष्णेयं शृणु यत्परम्

१२.२०३.१४कालचक्रमनाद्यन्तं भावाभावस्वलक्षणम्
त्रैलोक्यं सर्वभूतेषु चक्रवत्परिवर्तते

१२.२०३.१५यत्तदक्षरमव्यक्तममृतं ब्रह्म शाश्वतम्
वदन्ति पुरुषव्याघ्रं केशवं पुरुषर्षभम्

१२.२०३.१६पितॄन्देवानृषींश्चैव तथा वै यक्षदानवान्
नागासुरमनुष्यांश्च सृजते परमोऽव्ययः

१२.२०३.१७तथैव वेदशास्त्राणि लोकधर्मांश्च शाश्वतान्
प्रलये प्रकृतिं प्राप्य युगादौ सृजते प्रभुः

१२.२०३.१८यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये
दृश्यन्ते तानि तान्येव तथा ब्रह्माहरात्रिषु

१२.२०३.१९अथ यद्यद्यदा भावि कालयोगाद्युगादिषु
तत्तदुत्पद्यते ज्ञानं लोकयात्राविधानजम्

१२.२०३.२०युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः
लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा

१२.२०३.२१वेदविद्वेद भगवान्वेदाङ्गानि बृहस्पतिः
भार्गवो नीतिशास्त्रं च जगाद जगतो हितम्

१२.२०३.२२गान्धर्वं नारदो वेदं भरद्वाजो धनुर्ग्रहम्
देवर्षिचरितं गार्ग्यः कृष्णात्रेयश्चिकित्सितम्

१२.२०३.२३न्यायतन्त्राण्यनेकानि तैस्तैरुक्तानि वादिभिः
हेत्वागमसदाचारैर्यदुक्तं तदुपास्यते

१२.२०३.२४अनाद्यं यत्परं ब्रह्म न देवा नर्षयो विदुः
एकस्तद्वेद भगवान्धाता नारायणः प्रभुः

१२.२०३.२५नारायणादृषिगणास्तथा मुख्याः सुरासुराः
राजर्षयः पुराणाश्च परमं दुःखभेषजम्

१२.२०३.२६पुरुषाधिष्ठितं भावं प्रकृतिः सूयते सदा
हेतुयुक्तमतः सर्वं जगत्संपरिवर्तते

१२.२०३.२७दीपादन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः
प्रकृतिः सृजते तद्वदानन्त्यान्नापचीयते

१२.२०३.२८अव्यक्तकर्मजा बुद्धिरहंकारं प्रसूयते
आकाशं चाप्यहंकाराद्वायुराकाशसंभवः

१२.२०३.२९वायोस्तेजस्ततश्चापस्त्वद्भ्यो हि वसुधोद्गता
मूलप्रकृतयोऽष्टौ ता जगदेतास्ववस्थितम्

१२.२०३.३०ज्ञानेन्द्रियाण्यतः पञ्च पञ्च कर्मेन्द्रियाण्यपि
विषयाः पञ्च चैकं च विकारे षोडशं मनः

१२.२०३.३१श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं पञ्चेन्द्रियाण्यपि
पादौ पायुरुपस्थश्च हस्तौ वाक्कर्मणामपि

१२.२०३.३२शब्दः स्पर्शोऽथ रूपं च रसो गन्धस्तथैव च
विज्ञेयं व्यापकं चित्तं तेषु सर्वगतं मनः

१२.२०३.३३रसज्ञाने तु जिह्वेयं व्याहृते वाक्तथैव च
इन्द्रियैर्विविधैर्युक्तं सर्वं व्यस्तं मनस्तथा

१२.२०३.३४विद्यात्तु षोडशैतानि दैवतानि विभागशः
देहेषु ज्ञानकर्तारमुपासीनमुपासते

१२.२०३.३५तद्वत्सोमगुणा जिह्वा गन्धस्तु पृथिवीगुणः
श्रोत्रं शब्दगुणं चैव चक्षुरग्नेर्गुणस्तथा
स्पर्शं वायुगुणं विद्यात्सर्वभूतेषु सर्वदा

१२.२०३.३६मनः सत्त्वगुणं प्राहुः सत्त्वमव्यक्तजं तथा
सर्वभूतात्मभूतस्थं तस्माद्बुध्येत बुद्धिमान्

१२.२०३.३७एते भावा जगत्सर्वं वहन्ति सचराचरम्
श्रिता विरजसं देवं यमाहुः परमं पदम्

१२.२०३.३८नवद्वारं पुरं पुण्यमेतैर्भावैः समन्वितम्
व्याप्य शेते महानात्मा तस्मात्पुरुष उच्यते

१२.२०३.३९अजरः सोऽमरश्चैव व्यक्ताव्यक्तोपदेशवान्
व्यापकः सगुणः सूक्ष्मः सर्वभूतगुणाश्रयः

१२.२०३.४०यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान्
ज्ञानात्मानं तथा विद्यात्पुरुषं सर्वजन्तुषु

१२.२०३.४१सोऽत्र वेदयते वेद्यं स शृणोति स पश्यति
कारणं तस्य देहोऽयं स कर्ता सर्वकर्मणाम्

१२.२०३.४२अग्निर्दारुगतो यद्वद्भिन्ने दारौ न दृश्यते
तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते

१२.२०३.४३नदीष्वापो यथा युक्ता यथा सूर्ये मरीचयः
संतन्वाना यथा यान्ति तथा देहाः शरीरिणाम्

१२.२०३.४४स्वप्नयोगे यथैवात्मा पञ्चेन्द्रियसमागतः
देहमुत्सृज्य वै याति तथैवात्रोपलभ्यते

१२.२०३.४५कर्मणा व्याप्यते पूर्वं कर्मणा चोपपद्यते
कर्मणा नीयतेऽन्यत्र स्वकृतेन बलीयसा

१२.२०३.४६स तु देहाद्यथा देहं त्यक्त्वान्यं प्रतिपद्यते
तथा तं संप्रवक्ष्यामि भूतग्रामं स्वकर्मजम्