१२.२०९.१गुरुरुवाच
१२.२०९.२निष्कल्मषं ब्रह्मचर्यमिच्छता चरितुं सदा
निद्रा सर्वात्मना त्याज्या स्वप्नदोषानवेक्षता
१२.२०९.३स्वप्ने हि रजसा देही तमसा चाभिभूयते
देहान्तरमिवापन्नश्चरत्यपगतस्मृतिः
१२.२०९.४ज्ञानाभ्यासाज्जागरतो जिज्ञासार्थमनन्तरम्
विज्ञानाभिनिवेशात्तु जागरत्यनिशं सदा
१२.२०९.५अत्राह को न्वयं भावः स्वप्ने विषयवानिव
प्रलीनैरिन्द्रियैर्देही वर्तते देहवानिव
१२.२०९.६अत्रोच्यते यथा ह्येतद्वेद योगेश्वरो हरिः
तथैतदुपपन्नार्थं वर्णयन्ति महर्षयः
१२.२०९.७इन्द्रियाणां श्रमात्स्वप्नमाहुः सर्वगतं बुधाः
मनसस्तु प्रलीनत्वात्तत्तदाहुर्निदर्शनम्
१२.२०९.८कार्यव्यासक्तमनसः संकल्पो जाग्रतो ह्यपि
यद्वन्मनोरथैश्वर्यं स्वप्ने तद्वन्मनोगतम्
१२.२०९.९संसाराणामसंख्यानां कामात्मा तदवाप्नुयात्
मनस्यन्तर्हितं सर्वं वेद सोत्तमपूरुषः
१२.२०९.१०गुणानामपि यद्यत्तत्कर्म जानात्युपस्थितम्
तत्तच्छंसन्ति भूतानि मनो यद्भावितं यथा
१२.२०९.११ततस्तमुपवर्तन्ते गुणा राजसतामसाः
सात्त्विको वा यथायोगमानन्तर्यफलोदयः
१२.२०९.१२ततः पश्यत्यसंबद्धान्वातपित्तकफोत्तरान्
रजस्तमोभवैर्भावैस्तदप्याहुर्दुरन्वयम्
१२.२०९.१३प्रसन्नैरिन्द्रियैर्यद्यत्संकल्पयति मानसम्
तत्तत्स्वप्नेऽप्युपरते मनोदृष्टिर्निरीक्षते
१२.२०९.१४व्यापकं सर्वभूतेषु वर्ततेऽप्रतिघं मनः
मनस्यन्तर्हितं द्वारं देहमास्थाय मानसम्
१२.२०९.१५यत्तत्सदसदव्यक्तं स्वपित्यस्मिन्निदर्शनम्
सर्वभूतात्मभूतस्थं तदध्यात्मगुणं विदुः
१२.२०९.१६लिप्सेत मनसा यश्च संकल्पादैश्वरं गुणम्
आत्मप्रभावात्तं विद्यात्सर्वा ह्यात्मनि देवताः
१२.२०९.१७एवं हि तपसा युक्तमर्कवत्तमसः परम्
त्रैलोक्यप्रकृतिर्देही तपसा तं महेश्वरम्
१२.२०९.१८तपो ह्यधिष्ठितं देवैस्तपोघ्नमसुरैस्तमः
एतद्देवासुरैर्गुप्तं तदाहुर्ज्ञानलक्षणम्
१२.२०९.१९सत्त्वं रजस्तमश्चेति देवासुरगुणान्विदुः
सत्त्वं देवगुणं विद्यादितरावासुरौ गुणौ
१२.२०९.२०ब्रह्म तत्परमं वेद्यममृतं ज्योतिरक्षरम्
ये विदुर्भावितात्मानस्ते यान्ति परमां गतिम्
१२.२०९.२१हेतुमच्छक्यमाख्यातुमेतावज्ज्ञानचक्षुषा
प्रत्याहारेण वा शक्यमव्यक्तं ब्रह्म वेदितुम्